सदस्यः:Sayant Mahato/विकिविषयनीतिः/तटस्थदृष्टिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तटस्थदृष्टिः इत्येषा नीतिः प्रमुखेषु त्रिषु विषयनीतिषु अन्यतमा । विकिपीडियाविश्वकोषे सर्वे लेखाः तटस्थदृष्ट्या लिखिताः स्युः । अर्थात् यः कोऽपि विषयः प्रामाणिकतया नातिदीर्घः नातिह्रस्वश्च यावदपेक्षितं प्रस्तुतो भवेत् । लेखकस्य सम्पादकस्य वा मतेन विरहितश्च स्यात् । तद्विषये प्रमाणभूतेषु ग्रन्थेषु प्रकाशिताः सर्वेऽपि महत्त्वपूर्णाः अभिप्रायाः उक्ताः स्युः । इयं नीतिः सन्धानानर्हा (uncompromising)। यैः नियमैः इयं बद्धा ते च अन्याभिः नीतिभिर्वा मार्गदर्शकसूत्रैः वा सम्पादकमण्डल्याः सम्मतेन वा अनुल्लङ्घ्याः एव ।

तटस्थदृष्टिकोनम् इत्येतत् विकिपीडियायाः अन्यासां विकियोजनानां च मूलतत्त्वम् अस्ति । एतदस्ति विकिपीडियायाः त्रिविधनीतिषु अन्यतमम् । अन्ये द्वे नीती स्तः ‘प्रमाणीकरणार्हता’, ‘मूलभूतसंशोधनविरहता’ चेति ।

तटस्थदृष्टिकोनम् इत्यस्य विवरणम्[सम्पादयतु]

विकिपीडियालेखाः विभिन्नान् वादान् विवृणोति न तु विवादेषु रताः भवन्ति । सम्पादकानां स्वीयं दृष्टिकोनं यद्यपि भवेत् तथापि समग्रदृष्ट्या विचिन्त्य सम्पूर्णविचाराः प्रस्तोतव्याः न तु कस्याश्चित् दृष्टेः अनुमोदनम् । किमप्येकं मतम् अधिकतया विमृश्य तदेव प्रमाणभूतमितीव न लिखेयुः । अर्थात् सर्वाणि मतानि समदृष्ट्या एव प्रतिपादितानि स्युः ।

  • अभिप्रायान् यथार्थानिव मा कथयत । प्रायेण लेखेषु उक्ताः अंशाः तस्मिन् विषये ये मुख्याः अभिप्रायाः तान् अन्तर्भावयन्ति । किन्तु एते अभिप्रायाः विकिपीडियाकोषस्य अधिकृताभिप्रायाः इव न भासेरन् । लेखे स्पष्टम् उच्येत कस्येदं मतमिति । अथवा यथोचितं विस्तरेण अङ्गीकृताः अभिप्रायाः एते इति लिख्येत । उदाहरणार्थं '- क्रिकेट्क्रीडायाः भगवान् सचिन तेण्डुलकर कथनं न युक्तम् अपि तु अभिमानिभिः सचिनः क्रिकेट्क्रीडायाः भगवान् इति मन्यते एवं लेखनीयम् ।
  • यत्र तीव्रतरा विप्रतिपत्तिः विद्यते तादृशाः अंशाः यथार्थाः इव न प्रतिपादिताः स्युः । विविधेषु प्रमाणभूतेषु ग्रन्थेषु यदि विभिन्नमतानि प्रस्तुतानि, तानि यथावत् वक्तव्यानि, न तु अधिकृतवाक्यानीव । म्यागिनूडल्स् आरोग्याय हानिकारकम् इत्येवं न प्रतिपादितव्यम् । FSSAI संस्थया आदिष्टं यत् म्यागिनूडल्स् आरोग्याय हानिकारकं न वा इत्येतस्य अंशस्य सत्यासत्यतायाः निरूपणपर्यन्तम् अस्य वस्तुनः उत्पादनं स्थगनीयम् इति सोल्लेखैः निर्देष्टव्यम् ।
  • यथार्थाः विषयाः अभिप्रायाः इव न कथ्यन्ताम् । विवादरहिताः यथार्थाः अंशाः विकिपीडियास्वरेण (विकिपीडिया स्वयं वदतीव) वक्तव्याः । सामान्यतया अविवादिते कस्मिंश्चिद्विषये यदि कश्चन भिन्नाभिप्रायः विद्यते कुत्रचित्, तर्हि तस्य प्रमाणीकरणोल्लेखः दीयताम् । विषयः तादृशैः असन्दिग्धैः शब्दैः प्रतिपादितः स्यात् यथा तत्र भिन्नाभिप्रायः अस्तीति संशयः पठितॄणां मनसि नोत्पद्येत । संस्कृतभाषा सर्वासां भारतीयभाषाणां जननी इत्येतत् वाक्यं भाषाविद्भिः अङ्गीक्रियते यत् संस्कृतभाषा सर्वासां भारतीयभाषाणां जननी इति न कथनीयम् यतोहि स च विषयः यथार्थतया प्रतिपादितः विद्यते ।
  • भाषायां निर्णायकशैली नाश्रयणीया । तटस्थदृष्टिः नाम यस्मिन् कस्मिन्नपि विषये अनुकम्पनं वा अवज्ञानं वा विना लेखनम् । उच्यमानविषये स्पष्टता तु स्यादेव । विरक्तभावेन अभिप्रायान् विरुद्धमतानि च वदत । सम्पादने पक्षपातः न भवेत् । लेखे कस्यापि एकस्य मतस्य पक्षपातः सम्पादकेन दर्शितः चेत्, स लेखः परिष्कारम् अर्हति नूनम् ।

जन्मना सर्वे अपि मानवाः हिन्दुधर्मिणः । इति वाक्यं पक्षपातयुतम् । यदि अस्य विषयस्य उल्लेखः इष्यते तर्हि इदं वाक्यं सप्रमाणं - अमुकसंस्थाजनैः समर्थ्यते यत् जन्मना सर्वे अपि मानवाः हिन्दुधर्मिणः इति निर्दिशेत् ।

  • भिन्नाभिप्रायाणां प्रतिपादने विरुद्धांशानां परस्परम् आधिक्यं वक्तव्यम् । एकस्मिन् विषये विभिन्नमतानां प्रतिपादने प्रत्येकस्य मतस्य समर्थनं कृतं स्यात् । सर्वाणि सर्वसम्मतानीव वा, यत्किमपि एकं मतं विश्वासार्हमिव वा न प्रतिपाद्येत ।

तटस्थताविवादपरिहरणम्[सम्पादयतु]

  • पक्षपातयुतानाम् अभिप्रायाणां सप्रमाणम् उल्लेखः-

पूर्वाग्रहयुताः अभिप्रायाः उल्लेखैः सह एव निरूपणीयाः । उदाहरणाय सचिन तेण्डुल्कर क्रिकेट्क्रीडायाः इतिहासे सर्वकालेषु अपि सर्वश्रेष्ठः क्रीडालुः इत्येतत् अभिप्रायं द्योतयति । अतः अयमंशः सत्यांशत्वेन विकिपीडियालेखेषु उल्लेखयितुम् अशक्यः । अस्य लेखनावसरे नामोल्लेखपूर्वकं केन अयम् अत्युत्तमः क्रीडालुः इति उक्तमिति निर्चेष्टव्यम् । अभिप्रायाः सप्रमाणं निरूपिताः स्युः । यथा “सचिनस्य क्रिकेट्क्रीडायाः नैपुण्यं अस्यैव क्षेत्रस्य ब्रायन् लारा सदृशेन प्रसिद्धजनेन श्लाघितम्“ । एतादृशः अभिप्रायः सोल्लेखैः निरूपणीयः अपि च अयं प्रमाणीकरणार्हः भवति ।

पक्षपातयुताः अभिप्रायाः उल्लेखैः सह एव निरूपणीयाः । यथा – “सचिन तेण्डुलकर क्रिकेट्क्रीडायाः इतिहासे सर्वकालेषु अपि सर्वश्रेष्ठः क्रीडालुः” इति वचनं विकिपीडियाकोषस्य अनुमतमिव न लिख्येत । परं तदेव वचनं यदि “ब्रायन् लारा, शेन् वार्न् इत्यादिभिः क्रिकेट्-क्रीडाविशारदैः सचिनस्य क्रिकेट्क्रीडापाटवं प्रशस्यते’ इत्येवं कथितं चेत् विकिपीडियायाः अनुमतम् भवेत् । एवं च अभिप्रायाः प्रमाणीकरणयोग्याः यथोचितं उदाहृताः स्युः ।

विवादास्पदाः विषयाः[सम्पादयतु]

विकिपीडियविश्वकोषः विविधविषयेषु सदस्यानां तीव्रविरोधान् सम्मुखीकरोति । तटस्थदृष्टिनीतेः(NPOV) सम्यक् अवगमनं तथा सुष्ठुपरिपालनं विकिपीडियालेखेषु सर्वथा इष्यते, विशिष्य तु एतादृशेषु विवादास्पदेषु क्षेत्रेषु -

धार्मिकता[सम्पादयतु]

यदि कश्चन विकिपीडियालेखः धर्मश्रद्धाविषयकः वा धर्माचरणविषयकः वा स्यात्, सः तच्छ्रद्धावतां तदाचरणशीलानां च प्रेरणादायी भवेत् । अपि च ताः धर्मश्रद्धाः आचरणानि च कथम् आरब्धाः इति लेखे प्रतिपादनीयम् । चरित्रविषयकाः धर्मविषयकाः च विकिलेखाः प्राचीनधार्मिकग्रन्थानाम्, इदानीन्तनवास्तुशिल्पचारित्रकवैज्ञानिकग्रन्थानां च आधारेण लिखिताः भवन्ति ।

केचन धर्मश्रद्धावन्तः स्वधर्मविषयकान् विमर्शान् न आद्रियेयुः यतः तादृशविमर्शाः तेषां धर्मश्रद्धायाः विरुद्धाः स्युः। तेषां मतं सप्रमाणम् आकरनिर्देशपूर्वकं विरोधं विना च प्रतिपादनीयम् । उदाहरणाय -

सामान्याक्षेपः समाधाञ्च[सम्पादयतु]

तटस्थतानीतिविषये केचन सामान्याः आक्षेपाः एवं सन्ति -

  • तटस्थदृष्टेः अभावः अपाकरणाय(Delete) छलमात्रम् ।

तटस्थनीतिः कदाचित् लेखस्य अपाकरणाय प्रयुज्यते । किमेतत् युक्तम् ? विकिपीडियास्वरूपम् अद्यत्वे कथं स्यादित्येतस्मिन् विषये विविधसम्पादकानां नैके विचाराः भवन्ति । केचन अभिप्रैन्ति यत् अनुत्कृष्टांशान् विसृज्य अपि वा लेखाः दोषरहिताः करणीयाः इति । गम्भीरदोषान् विहाय अन्ये मध्यमगुणयुताः अंशाः लेखे रक्षितुं योग्याः इति अपरे । ते अंशाः अग्रे संवर्धनयोग्याः ।

लेखस्थविषयाणां प्रमाणीकरणस्य विश्वसनीयतायाः च उत्तरदायित्वं भवति लेखस्य सम्पादकस्य । गच्छता कालेन ये लेखस्य विषयाः योग्यरीत्या परिष्कृत्य पुनर्लेखितुं शक्याः ते त्वरया न निष्कासनीयाः(delete) ।