सदस्यः:Ssurab0221/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीया संस्कृतिः

प्रत्येक देशस्य एका संस्कृतिः भवति। भारतस्य देशस्य अपि एका संस्कृतिः अस्ति। याम् भारतीया संस्कृतिः कथयन्ते। किन्तु संस्कृतिः का भवति? अस्य शब्दस्य कः अर्थः भवति? एततपि कथयन्तु।

पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशा

नां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । चतुर्थे स्थाने अस्ति बौद्धधर्मः । एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । भारतस्य पमुखः धर्मः हिन्दुधर्मः । यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति ।