सदस्यः:Umakant tiwari 43

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्वकृता निषेधाज्ञा (जनता कर्फ्यू) स्वकृता निषेधाज्ञा (जनता कर्फ्यू) जनैः स्वस्योपरि आरोपिता निषेधाज्ञा भवति । जनता कर्फ्यू इत्येतस्या शब्दावल्याः प्रयोगः सर्वप्रथमं भारतदेशस्य‌ प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना २०२० तमे वर्षे कोरोनाख्येन विषाणुना उत्पादिते महामारीकाले १९ मार्च २०२० दिनाङ्के गुरुवासरे रात्रौ अष्टवादने जनसम्बोधनावसरे कृतः। तस्मिन्‌सम्बोधने सः भारतदेशवासिभिः सह आग्रहम् अकरोत् यत् आगामिनि रविवासरे तन्नाम २२ मार्च २०२० दिनाङ्के प्रातः सप्तवादनतः रात्रि नववादनपर्यन्तम् अस्याः स्वकृतनिषेधाज्ञाया (जनता कर्फ्यू इत्येतस्य) पालनं कुर्युः इति । जनता कर्फ्यू (स्वकृतनिषेधाज्ञा) इति नामधेयस्य विचारस्य परिभाषारूपेण तेन उक्तं यत् इयम् जनतायाः कृते जनताभिः स्वस्योपरि आरोपिता निषेधाज्ञा भवति इति । स्वकृतनिषेधाज्ञा (जनताकर्फ्यू) सामान्यनिषेधाज्ञायाः (कर्फ्यू) अपेक्षया भिन्ना भवति । निषेधेज्ञा सामान्यतः प्रशासनिकतन्त्रेण जनतायाः उपरि आरोप्यते तथा चास्य पालनम् अनिवार्यं‌भवति । स्वकृतानिषेधाज्ञा तु जनताभिः स्वेच्छया परन्तु आवश्यकतया क्रियते, अस्य अनिवार्यता न भवति ।


योजना - २२ मार्च २०२० तमे दिनाङ्के स्वकृतनिषेधाज्ञा (जनता कर्फ्यू) चतुर्दशहोरानिमित्तं भविष्यति । आरक्षकान् चिकित्सासेवारतान् सूचनाप्रचारविभागीयान् अग्निशामकाद्यावश्यकसेवारतान् च विहाय सर्वैः देशवासिभिः जनैः अस्याः निषेधाज्ञायाः पालनम् आवश्यकम् अस्ति (अनिवार्यं न स्यात्) । सायं पञ्चवादने (५.००) सर्वे नागरिकाः स्वगृहद्वारस्य पुरतः, वातायनसमीपं वा स्थित्वा परसेवा कारणात् स्वकीयचिन्तां विहाय परोपकाररतानां चिकित्साकर्मिणां यानचालकानाम्‌ अन्येषां तादृशकर्मरतानां च कृते करतालेन स्थालिकावादनेन घण्टाध्वनिभिः वा सम्माननं कुर्वन्तु इत्यपि प्रधानमन्त्रिणा आग्रहः कृतः । अस्याः स्वकृतनिषेधाज्ञायाः पालने एन.सी.सी. जनाः अन्ये अपि राष्ट्रियसेवायोजनासम्बद्धाः जनाः साहाय्यं करिष्यन्ति । प्रधानमन्त्रिणा मोदिना भारतीययवजनैः आग्रहः कृतः यत् अस्मिन् सन्दर्भे १० जनान् सूचयेयुः तथा च सर्वानपि अस्याः पालनार्थं प्रोय्साहनं कुर्वन्तु इति ।]]

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Umakant_tiwari_43&oldid=451684" इत्यस्माद् प्रतिप्राप्तम्