सामग्री पर जाएँ

सदस्यसम्भाषणम्:2030598pranavmg/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:612f47.webp

भारतम्, आधिकारिकरूपेण भारतमहाराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं महाराज्यम् वर्तते । जनसंख्यादृष्ट्या एषः विश्वे द्वितीये स्थाने विद्यते। विश्वे प्रसिद्धो जनतन्त्रयुत‌: देश: एष:। एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः। एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । हिन्दुधर्मः,बौद्धधर्मः,जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्टीण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।

अद्य सम्पूर्णविश्वे "डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। "डिजिटलइण्डिया" भारत सर्वकारस्य एकः महत्वाकांक्षी कार्यक्रमः वर्तते। अस्य मूलोद्देश्य: देशस्य विभिन्नां विभागानां अभिलेखान् एका श्रृंखलाया सह समाहृतं कृत्वा इलेक्ट्रॉनिक डाटा सिस्टम माध्यमेन कार्यस्य गतिं वर्धते। अस्याः योजनाया: प्रारम्भः प्रधानमन्त्री नरेंद्र मोदीन: १ जुलाई २०१५ तमे वर्षे कृतम्। सर्वकारेण अस्यां योजनायां २०१९ वर्षे पर्यन्तं सम्पूर्णभारतदेशे डिजिटल (अङ्कीप्रसारणस्य) सुविधान प्रदाणाय योजना अस्ति। योजनाया: अनुसारेण ग्रामीणक्षेत्रे इन्टरनेट सुविधा प्रदानं भविष्यति ।अस्मिन कार्यक्रमे सम्पूर्ण कार्यं ऑनलाइन माध्यमेन भविष्यति।

अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टङ्कणयन्त्रस्य आविष्कारेण तु लिखिता सामग्री टङ्किता सती बहुकालाय सुरक्षिता अतिष्ठत् । वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता। अद्य सर्वाणि कार्याणि सङ्गणकनामकेन यन्त्रेण साधितानि भवन्ति। समाचार-पत्राणि, पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च। कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म, परम् सङ्गणकस्य अधिकाधिक प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वास:। अनेन पर्यावरणसुरक्षायाः दिशि महान् उपकारो भविष्यति। अधुना आपणे वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति। “डेबिट कार्ड", "क्रेडिट कार्ड” इत्यादयः सर्वत्र रूप्यकाणां स्थानं गृहीतवन्तः। वित्तकोशस्य (बैंकस्य) चापि सर्वाणि कार्याणि सङ्गणकयन्त्रेण सम्पाद्यन्ते। बहुविधा: अनुप्रयोगा: (APP) मुद्राहीनाय विनिमयाय (Cashless Transaction) सहायकाः सन्ति।

कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रस्य अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे 'ई-मेल' इति स्थाने सुरक्षितानि भवन्ति यानि सन्दर्शय वयं सौकर्येण यात्रायाः आनन्द गृह्णीमः। चिकित्सालयेऽपि उपचारार्थ रूप्यकाणाम् आवश्यकताद्य नानुभूयते । सर्वत्र कार्डमाध्यमेन ई-बैंकमाध्यमेन शुल्कं प्रदातुं शक्यते ।

तदिनं नातिदूरम् यदा वयम् हस्ते एकमात्रं चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः। वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति। 'पासबुक' चैकबुक' इत्यनयोः आवश्यकता न भविष्यति। पठनार्थं पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति। लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा, नूतनज्ञानान्वेषणार्थं शब्दकोशस्याऽपि आवश्यकता न भविष्यति। अपरिचित मार्गस्य ज्ञानार्थं मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति। एतत् सर्वं एकेनेव यन्त्रेण कर्तु, शक्यते।

शाकादिक्रयार्थम्, फलक्रयार्थम्, विश्रामगृहेषु कक्ष सुनिश्चितं कर्तुं, चिकित्सालये शुल्क प्रदातुम्, विद्यालये महाविद्यालये चापि शुल्कं प्रदातुम्, किं बहुना दानमपि दातुं चलदूरभाषयन्त्रमेव अलम्। डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।