सदस्यसम्भाषणम्:S C Vaishnavi/प्रयोगपृष्ठम्
दत्त्प्रादनिकम्
चतुर्विधो दानमार्गः
नारदः
[सम्पादयतु]तत्र नारदः - दत्वा द्रव्यमसम्यजग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकम् नाम तद्विवादपदम् स्म्रुतम् ॥ अदेयमथ देयम् चादत्तमेव च । व्यवहारे च विग्नेयो दानमार्गश्चतुर्विधः ॥
'अदेयम्' दानानर्ह, 'देयम्' दानार्ह, 'दत्तम्' स्थिरम् , 'अदत्तम्' अस्थिरम् निवार्तनीयम् इत्येवम् चतुर्विधो दानमार्गः ॥
तत्रेहाष्टावदेयानि देयमेकविधम् स्म्रुतम् । दत्तं सप्तविधं विधाददत्तं षोडशात्मकम् ॥
अष्टौ अदेयान्याह नारदः -
अन्वाहितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदाराश्च सर्वस्वं चान्वये सति ॥ आपत्स्वपि हि कष्टासु वर्तमाकनेन देहिना । अदेयान्याहुराचार्या य्च्चान्यस्मै प्रतिश्रुतम् ॥
इति ।
दक्षः
[सम्पादयतु]अत्र विशेषमाह दक्षः -
सामान्यं याचितन्यास आधिर्दाराश्च तध्दनम् । अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ॥ आपत्स्वपि न देयानि नव वस्तूनि पण्डितैः । यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥
अत्र विशेषमाह कात्यायनः -
विक्रयं चैव दानं च न कार्याः स्युरनिच्छवः । दाराश्च पुत्राः सर्वस्वमात्मन्येव तु योजयेत् ॥ आपत्काले तु कर्तव्यं दानं विक्रयमेव वा । अन्यटथा न प्रवर्तेत इति शास्त्रस्य निश्चयः ॥
आपत्तरतम्येन द् आनादानविकल्पः ॥
वसिष्ठः
[सम्पादयतु]अत्र वसिष्ठः -
शुक्लशोणितसंभवः पुरुषो मातापितृनिमित्तकः , त्स्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः ।
न त्वेकं पुत्रं दध्यात् प्रतिगृह्णीयाद्वा । स हि सन्तानाय पूर्वेषां ।
न तु स्त्री पुत्रं दध्यात् प्रतिगृह्णीयात् ।
अन्यत्रानुग्नानाद्भर्तुः ॥
कात्यायनः
[सम्पादयतु]कात्यायनः -
क्रमागतं गृहक्षेत्रं पित्र्यं पैतामहं तथा । पुत्रपौत्रसमृद्धस्य न देयमननुग्नाया ॥
बृहस्पतिः
[सम्पादयतु]बृहस्पतिः - वैवाहिके क्रमायाते सर्वादानं न विद्ध्यते ।
इति ।
मनुः
[सम्पादयतु]1
[सम्पादयतु]तथा च मनुः - विभक्ता वाऽविभक्ता वा दायादाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधमनविक्रये ॥
2
[सम्पादयतु]मनुः - धर्मार्थे येन दत्तं स्यात् कस्मैचिध्याचते धनम् । पश्चाच्च न तथा तत्स्यात् न देयं तेन तद्भवेत् ॥
नारदः
[सम्पादयतु]दानार्हमेकविधिमाह नारदः - कुटुम्बभरणाह्रव्यं यत्किंचिदतिरिच्यते । तद्देयमुपरुद्धयान्याद्दददागः समाप्नुयात् ॥
कात्यायनः
[सम्पादयतु]अत्र विशेषमाह कात्यायनः - सर्वस्वं गृहवर्जं तु कुटुम्बभरणादिकम् । यह्रव्यं तत्स्वकं देयमदेयं स्यादत्तोऽन्यथा ॥ इति । अथ दाने पात्रविशेषात् फलविशेष् उच्यते ।
व्यासः
[सम्पादयतु]व्यासः - अन्धादिषु शतं दानमनन्तं दुहितुर्भवेत् । पित्रे शतगुणं दानं सहस्रं मातुरुच्यते ॥ भगिन्याः शतसाहस्रं सोदार्ये दत्तमक्षयम् ।
दक्षः
[सम्पादयतु]दक्षः - मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि । दीनानाथविशिष्टेषु दत्तं त् उ सफलं भवेत् ॥
बृहस्पतिः
[सम्पादयतु]बृहस्पतिः - शूद्रे समगुणं दानं वैश्ये द्विगुणमेव च । क्षत्रिये त्रिगुणं प्राहुः ब्राह्मणे षड्गुणं स्मृतम् ॥ श्रोत्रिये तच्च साहस्त्रमुपाध्याये तु तद्दूयम् । आचार्ये त्रिगुणं ग्नेयमाहिताग्निषु तद्दूयम् ॥ आत्मग्ने शतसाहस्रमनन्तं त्वग्निहोत्रिणि । सोमपे शतसाहस्रं अनन्तं ब्रह्मवादिने ॥
भारद्वाजः
[सम्पादयतु]भारद्वाजः - दानमेकात्मकं प्राहुः तभ्दवेत्तोयपूर्वकम् । विना तोयप्रदानेन धर्मदानं न विध्यते ॥
अत्र आपस्तम्बः - सर्वाण्युदकपूर्वाणि दानान्यट्टष्टार्थानि । गौतमः - स्वस्तिवाच्य भिक्षादानमप्पूर्वम् , ददातिषु चैव धर्म्येषु । बृहस्पतिः - स्त्रीधनं स्त्री स्वकुल्येभ्यः प्रयच्छेत्तान्तुवर्जिता । कुल्याभावे तु बन्धुभ्यः तदाभावे द्विजातिषु ॥
नारदः
[सम्पादयतु]सप्तविधं दत्तमाह नारदः - पण्यमूल्यं भृतिस्तुष्टया स्त्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थ च दत्तं सप्तविधं स्मृतम् ॥ 'पण्यमूल्यम्' पण्यस्य क्रीतस्य मूल्यत्वेन दत्तं, कृतकर्मणे भृतित्वेन, तुष्ट्या चारणादीनां, स्त्नेहाद्दुहितृभ्यः पुत्रादिभ्यः, उपकृतवते प्रत्युपकाररूपेण, परिणयनार्थ कन्याग्नातिभ्यः शुल्कत्वेन, यच्चाट्टष्टार्थं अनुग्रहार्यं च दत्तं तदेतत्सप्तविधमपि दत्तमेव न प्रत्याहरणीयम् ॥
बृहस्पतिः
[सम्पादयतु]बृहस्पतिः - भृतिस्तुष्ट्या पण्यमूल्यं स्त्रीशुल्कमुपकारिणे । श्रध्दानुग्रहसंप्रीत्या दत्तमष्ट्विधं स्मृतम् ॥
मनुः
[सम्पादयतु]मनुः - मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि । दीनानाथविशिष्टेभ्यो दत्तं तु सफलं भवेत् ॥ सौदायिकं क्रमायातं शौर्यप्राप्तम च यद्भवेत् । स्त्रीग्नातिस्वाम्यनुग्नातं दत्तं सिद्धिमवाप्नुयात् ॥
'सौदयिके' भार्यानुग्ना, 'क्रमायाते' पुत्राध्यानुग्ना, 'शौर्यप्राप्ते' स्वाम्यनुग्नेति ।
कात्यायनः
[सम्पादयतु]कात्यायनः - भयत्राणाय रक्षार्थ तथा कार्यप्रसाधनात् । अनेन विधिना ल्ब्धं विध्यात्प्रत्युपकारितम् ॥ प्राणसंशयमापन्नं यो मामुत्तारयेदितः । सर्वस्वं तस्य दास्यामीत्युक्तोऽपि न तथा भवेत् ॥
याझवल्क्यः - प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । देयं प्रतिश्रुतं चैव दत्वा नापहरेत्पुनः ॥