सदस्यसम्भाषणम्:Vmbgeral

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महोदय, 'योजकसम्भाषणम्' इत्येतत् पृष्ठं परस्परसम्भाषणाय विद्यते । न तु 'योजकपृष्ठम्' ([[१]])। योजकपृष्ठे कृपया भवतः परिचयमात्रं लिखतु । अपि च स्वरचितानि पद्यानि स्थापयितुं विकिपीडियापृष्ठेषु अवकाशः न वर्तते । 'पाणिनीयशिक्षा'ग्रन्थात् श्लोकमात्रम् उद्धृत्य लेखनेनापि अधिकप्रयोजनं न विद्यते । ग्रन्थस्य परिचयः तत्र अपेक्ष्यते । भवान् अन्तर्जालसम्पर्के यदा भवति तदा अधिकं पाठयिष्यामि । प्रणामाः । शुभा (चर्चा) ०४:०१, ६ जनुवरि २०१२ (UTC)

भवति, स्वागतम् । धन्यवादाः । यदेव मया न ज्ञातमासीत् तत् भवत्या सूचितम् । अस्तु इतः परं कस्मिन् पृष्ठे किं लेखनीयमिति विचार्यैव तत्र पदार्पणं कर्तुं प्रयतिष्ये । विकिपिडिया ग्रामे नूतनॊऽयमतिथिः इति इदानीं भवती स्पश्ग्टतया ज्ञातवती स्यात् न वा? । अविज्ञाते पुरे पथभ्रमः भवत्येव । परिचयमात्रं योजकपृष्ठे लेखनीयमित्युक्तं भवत्या । तत्कथम्? । व्यक्तिगतपरिचयदानेन परिचितानां सङ्ख्या वर्धेत , न पुनः संस्कृतभारत्याः सेवा ननु! । अपि च मूलग्रन्थानां यथालिखितं ग्रन्थसम्पादनं न भवितुमर्हति इति मयापि चिन्तितमासीत् । तथापि मूलग्रन्थस्य परिचयानन्तरं टिप्पण्यादिकं सम्पादनीयम् इति मम अपेक्षा वर्तते । साधु न वा? । प्रणतयः ।(Vmbgeral (चर्चा) १५:४४, ६ जनुवरि २०१२ (UTC))

महोदय, योजकपृष्ठे स्वस्य परिचयलेखनं शक्यते किन्तु तत् न अनिवार्यम् । इच्छानुसारं कर्तुं शक्यते । संस्कृतसेवा तु नितराम् अपेक्ष्यते अत्र । ग्रन्थसम्पादनविषये भवतः चिन्तनं समीचीनमेव किन्तु अधुना किम् अपेक्षितम् इत्यपि चिन्तनीयः विषयः अस्ति । आदौ विकिपीडियां (क्षन्तव्यम् - ईकारान्तत्वम् अत्र अङ्गीकृतमस्ति सौकर्याय) ये प्रविशन्ति ते कुत्र किमस्ति इति जानन्तु नाम । अयमस्ति विश्वकोशः - कार्यमस्ति अगाधम् । भवतः समयस्य सदुपयोगः अस्माभिः प्राप्तव्यः इत्याशयेनमात्रं वदन्ती अस्मि - मया सूचितेषु किं चिनोति ? कृपया सूच्यताम् । भवदीया शुभा (चर्चा) ०४:२९, ७ जनुवरि २०१२ (UTC)

व्याकरणग्रन्थाः[सम्पादयतु]

प्रणामाः । मया कश्चन अंशः वक्तव्यः अस्ति - 'वर्गः:व्याकरणग्रन्थाः' इति पुटं यत् भवति तत्र केवलं ग्रन्थानां नामानि भवन्ति । 'वर्गः'इति यत् भवति तत् गणं सूचयति । तत्र एकमेव वाक्यं भवति - तस्मिन् वर्गे किम् अन्तर्भवन्ति इत्येतत् केवलम् । अतः भवता लिखितान् उपयुक्तान् विषयान् अत्र ([[२]]) नीतवती अस्मि । पाणिनीया शिक्षा अत्र ([[३]]) नीता अस्ति । बहु समीचीनं कार्यं भवता क्रियमाणमस्ति । कृपया अग्रे नीयताम् । 'पाणिनीया शिक्षा' इत्यत्र, भवता सूचितेषु अन्येषु स्थलेषु च अधिकविवरणदानम् अपेक्षितमस्ति । यावदधिकं परिचाययितुं शक्नुमः तावदपि अपेक्षितम् । धन्यवादः । शुभा (चर्चा) ०५:१०, ९ जनुवरि २०१२ (UTC)

पाणिनीया शिक्षा[सम्पादयतु]

आदरणीय महोदय, मया ह्यत्र पाणिनीयशिक्षेति लेखे मूलपाठस्तु पृथक्त्वेन अनुभागे एकस्मिन् योजितोऽस्ति। आरम्भे च तस्य परिचयात्मकं वाक्यम् लिखितमस्ति। तेन लेखोऽयं विश्वकोशानुकूलो भवेदिति ममाभिप्रायः। भवतः उत्तमलेखनकार्यार्थं साधुवादाः। कृपया एवमेव स्वज्ञानराशिना अस्मान् अनुगृहीतान् कुर्वन्तु। -Hemant wikikosh (चर्चा) ०९:११, १० जनुवरि २०१२ (UTC)

भ्रातः! धन्यवादाः । इतः पूर्वम् अहं विकिद्वारा परिचितायाः शुभा भगिन्याः निर्देशानुसारं पृष्ठमेतत् सम्पादितवान् । इदानीं भवतॊऽपि परिचयः इति मनसि महान् प्रमोदः भवति । अस्तु पुर्मिलामः । इति भवदीयः (Vmbgeral (चर्चा) ११:१२, १० जनुवरि २०१२ (UTC))

समीचीनः प्रयासः[सम्पादयतु]

महोदय, प्रणमामि । भवता क्रियमाणानि कार्याणि पश्यन्ती सन्तोषम् अनुभवामि । अधुना लेखानाम् अलङ्करणे अपि भवान् निपुणः जातः । इदं सर्वं भवता स्वयमेव अभ्यस्तम् इत्येतत् मोदावहः विषयः । धन्यवादः । यदि शक्यम् अन्यान् अपि संस्कृतज्ञान् अस्मिन् सफले कार्यॆ नियोज्यताम् इति मम निवेदनम् । शुभा (चर्चा) १०:०१, २८ जनुवरि २०१२ (UTC)

कुशलोत्तरम्[सम्पादयतु]

अयि,भवति, प्रणामपूर्वकम् धन्यवादाः । अहम् इदमिदानीं कानिचित् कौशलानि अभ्यसन्नस्मि । मम् गणकफलके एव सम्पादनानि कृत्वा अत्र विविधसम्पादनपृष्ठे परिवर्तनम् कथं करणीयम् ? इति मया न ज्ञातम् । अन्यैः सम्पादितानि लेखनानि दर्शं दर्शम् इतोऽपि प्रयत्नं करिषामि । अत्र ग्रामीणप्रदेशे एतादृशे कार्ये उत्सुकाः विद्वांसः न्यूना एव तथापि अनेकेषां सकाशे मया निवेदितम् । सर्वं संस्कृतसेवायै ननु! । अस्तु मन्दगत्या मया सम्पाद्यते । शुभवादाः, वन्दे।Vmbgeral (चर्चा) १५:१७, २८ जनुवरि २०१२ (UTC)

महोदय, नमस्करोमि । कञ्चन अंशं ज्ञापयितुम् इच्छामि । भवान् मया लिखितस्य उत्तरं लेखितुम् इच्छति चेत् हस्ताङ्कने मम नाम्नः अनन्तरं 'चर्चा' इति यत् भवति तन्नुदति चेत् मम योजकपृष्ठं प्रति गच्छति । मम योजकपृष्ठे यदा परिवर्तनं भवति तदा सहजतया एव मम कृते ईपत्रद्वारा सूचना अपि प्राप्यते । अवगतं खलु ? धन्यवादः शुभा (चर्चा) ०४:२९, ३० जनुवरि २०१२ (UTC)

नाट्यशास्त्रम्[सम्पादयतु]

शुभा महोदये, नमस्काराः । मया अद्य "नाट्यशास्त्रम्" इति पृष्ठे किञ्चित् लिखितमस्ति । कृपया तत् अवलोकयतु भवती । अपि च तत्र उपरि इतः पूर्वमेव हिन्दी भाषायां सम्पादितं केनापि । तत् मार्जनीयं वा? अथवा तथैव स्थापनीयम्? तथा च लेखपृष्ठेषु चित्रलिम्पनम् कथम्? कृपया वेदयतु । नमस्ते , भवदीयः बन्धुः Vmbgeral (चर्चा) १३:३३, २३ फ़ेब्रुवरि २०१२ (UTC)

विघ्नेश्वरवर्य, प्रणमामि । समीचीनतया कार्यं यत् भवता क्रियमाणम् अस्ति तस्मिन् विषये मम बहु आनन्दः अस्ति । हिन्दीभाषया विद्यमानं विना चिन्तां मार्जयितुम् अर्हति । मया चित्रमेकम् आनीतम् । तन्निमित्तम् भवता अत्र [[४]] गन्तव्यम् । अन्वेषणस्थले विषयः लेखनीयः (Indian dance इति अत्र मया लिखितम्) । तत्र विद्यमानं file आनीय स्थापितम् अवलोक्यताम् । प्रयतताम् । धन्यवादः । - शुभा (चर्चा) १४:३४, २३ फ़ेब्रुवरि २०१२ (UTC)

अयि, धन्यवादाः । भवत्या सूचितरीत्या लेखेषु चित्रानयनार्थं प्रयतिष्ये । शुभवादाः । Vmbgeral (चर्चा) १४:५८, २३ फ़ेब्रुवरि २०१२ (UTC)

साहाय्यम् अपेक्षितम्[सम्पादयतु]

महोदय, प्रणमामि । अधुना वयं लघुलेखानां वर्धनदृष्ट्या कार्यं कुर्वन्तः स्मः । तस्मिन् कार्ये भवतः साहाय्यम् अपेक्षितमस्ति । वर्धनीयानां लेखानां सङ्ख्या तु सुमहती वर्तते । तेषु विषयचतुष्टयम् अत्र लिखन्ती अस्मि - चम्पूरामायणम्, ‎सिद्धान्तकौमुदी, शब्दानुशासनम्, भामिनीविलासः । एतेषु लेखेषु द्वित्राणि एव वाक्यानि अधुना विद्यन्ते । किम् एतान् लेखान् भवान् वर्धयितुम् अर्हति ? अयं न आग्रहः, अपेक्षामात्रम् । यदि शक्यं कृपया सूच्यताम् । धन्यवादः । भवदीया - शुभा (चर्चा) ११:१२, ३ मार्च् २०१२ (UTC)[उत्तर दें]

स्वीकृता सूचना[सम्पादयतु]

महोदये, नमांसि । भवत्या सूचितपृष्ठानि मयापि तत्र अवलोकितानि । इतः पूर्वं तादृशानि अनेकानि पृष्ठानि सम्पादितानि च । तथैव अधुना ’चम्पूरामायणम्’ इत्यादीनि पृष्ठानि यथावकाशेन सम्पादयितुं शक्ष्यामि । किन्तु मम कार्यं मन्दगत्या प्रचलिष्यति । अस्तु वा? । अत्र विद्युत्समस्या अतीव वर्तते । कार्यमध्य एव कदाचित् विद्युत् स्थगिता भवति । तेन सम्पादनकार्ये विलम्ब्यते । अत्र शब्दानुशासनम् नाम नामलिङ्गानुशासनम् न न वा ? । एतदेकं मया नज्ञायते । अन्येषां तु सपादनं करिष्यामि । धन्यवादः । भवदीयः -Vmbgeral (चर्चा) १३:५५, ३ मार्च् २०१२ (UTC)[उत्तर दें]

धन्यवादः महोदय । शब्दानुशासनं भोजेन लिखितः व्याकरणग्रन्थः इति विवरणं प्राप्यते । तस्मिन् विषये अत्र अवधानं दीयते । अन्यान् लेखान् सज्जीकरोतु । विलम्बः चेदपि चिन्ता नास्ति । भवता अङ्गीकृतम् इत्यतः वयम् अन्यविषये चिन्तयिष्यामः । एतावता भवता एतादृशं बहु कृतमस्ति । तदर्थं कृतज्ञाः वयम् । शुभा (चर्चा) ०५:४१, ५ मार्च् २०१२ (UTC)[उत्तर दें]

प्रणामाः । भवता क्रियमाणं कार्यं महते उपकाराय इत्येतावत् कृतज्ञतापूर्वकं वक्तुम् इच्छामि । - भवदीया शुभा (चर्चा) ०४:१७, ९ एप्रिल् २०१२ (UTC)[उत्तर दें]

उशनस् इति पृष्ठविषये[सम्पादयतु]

अयि, शुभामहोदये, "उशनस्" इति पृष्ठे "सः राजा" इत्यस्ति । किन्तु एतत् असमीचीनं भाति । उशनाः नाम शुक्रः खलु! । कृपया समादधातु । नमांसि । धन्यवादाः । इति भवदीयः Vmbgeral (चर्चा) ०९:१४, ९ एप्रिल् २०१२ (UTC)[उत्तर दें]

भवता उक्तं समीचीनमेव । उशीनरः यादवकुलस्य राजा । उशनाः तु शुक्राचार्यः एव । एतदनुगुणं पुटौ सज्जीकृतवती अस्मि । धन्यवादः । - शुभा (चर्चा) ०४:१८, १० एप्रिल् २०१२ (UTC)[उत्तर दें]
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Vmbgeral&oldid=189282" इत्यस्माद् प्रतिप्राप्तम्