राजीवगान्धिजन्मदिनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सद्भावनादिनम् इत्यस्मात् पुनर्निर्दिष्टम्)

श्रीजवाहरलालनेहरुमहोदयस्य दौहित्रः श्रीमत्याः इन्दिरागान्धिवर्यायाः पुत्रः श्रीराजीवगान्धिः भारतस्य प्रधानमन्त्री आसीत् । एषः १९९१ तमे वर्षे भयोत्पादकैः श्रीपेरम्बदूर् स्थले सार्वजनिकसभायां मारितः अभवत् । आत्महत्यादलसदस्यैः विस्फेटितः भारतस्य प्रधानमन्त्री दुर्मरणं प्राप्तवान् । श्री राजीवगान्धिमहोदयस्य जन्मदिनम् ‘’’आगस्ट २०’’’ सद्भावनादिनम् इति आचरन्ति । श्रीराजीवगान्धिः १९४४ तमे वर्षे अगस्ट २० तमे दिने जन्म लब्धवान् । श्रीफिरोजगान्धिः अस्य पिता । माता च श्रीमती इन्दिरागान्धिः ।राजीवगान्धिनः पितामहः श्रीजवाहरलालनेहरुः भारतस्य प्रथमः प्रधानमन्त्री आसीत् । श्रीफिरोज् गान्धिः लोकसभासदस्यः आसीत् । श्रीसञ्जयगान्धिः राजीवगान्धिनः भ्राता आसीत् । श्रीराजीवगान्धिनः बाल्यकालीनं शिक्षणं डेहराडून्विद्यालये अभवत्। सङ्गीतकलासु आसक्तः मृदुहृदयी एषः षोडशे वर्षे लण्डननगरे अध्ययनं कृतवान् । तस्मिन् समये एव पिता श्रीफिरोजगान्धिः दिवङ्गतः माता श्रीमती इन्दिरागान्धिः एव पूर्णतया श्रीराजीवगान्धिनहोदयं पालितवती । लण्डन् नगरे स्थिते केम्ब्रिज् विश्वविद्यालये अध्ययनसमये एव इटलीदेशस्य सोनियामैनो महाभागायाः परिचयः अभवत् । १९६८ तमे वर्षे सोनियाराजीवगान्धिमहोदययोः विवाहः अभवत् । श्रीमती सोनिया गान्धिः भारतीयसम्प्रदायानुसारं जीवनं कृतवती । श्रीराजीवगान्धिः १९७० तमे वर्षे विमानचालकस्य कार्यं कर्तुम् इष्टवान् । प्रशिक्षणं लब्ध्वा चालकवृत्तिमेव कुर्वन्नासीत् । श्रीसञ्जयगान्धिः राजकीयक्षेत्रे कार्यं कुर्वन् आसीत् । माता श्रीमती इन्दिरागान्धिः देशस्य प्रधानमन्त्रिणी आसीत् । १९८० तमे वर्षे श्रीसञ्जयगान्धिः विमानापघाते मृतः अभवत । अनन्तरम् १९८१ तमे वर्षे श्री राजीवगान्धिः लोकसभासदस्यः इति अमेठीक्षेत्रतः निर्वाचितः । एवं श्री राजीवागान्धिः राजकीयप्रवेशं कृतवान् । प्रधानमन्त्रिण्या मात्रा श्रीमत्या इन्दिरागान्धिमहोदयया साकं इङ्ग्लैण्ड-अमेरिका इत्यादिदेशान् अटन् विश्वश्रेष्ठनायकानां श्रेष्ठमहिलानां परिचयं प्राप्तवान् श्रीराजीवगान्धिः विश्वराजकीयज्ञानं सम्पादितवान् । १९८४ तमे वर्षे श्रीराजीवगान्धिः कोलकतानगरे आसीत् । देहलीनगरे स्वगृहे एव प्रधानमन्त्रिणी श्रीमती इन्दिरा गान्धिमहोदया हन्तकैः मारिता । भारतदेशस्य राष्ट्रपतिः श्री झैलसिङ्गः १९८४तमवर्षस्य अक्टोबरमासस्य ३१ तमे दिने श्री राजीवगान्धिवर्यं भारतस्य प्रधानमन्त्रिपदे नियुक्तवान् । भारतदेशं प्रगतिपथे नेतुं कृतसङ्कल्पः प्रधानमन्त्री श्रीराजीवगान्धिः वरिष्ठैः सह मन्त्रणां कृत्वा उत्तमरीत्या कार्यं कर्तुम् आरम्भं कृतवान् । साक्षरताआन्दोलनं, परिसरसंरक्षणं नवोदयशिक्षणं वैज्ञानिकसंशोधनानि औद्योगिक- संशोधनानि इत्यादि कार्याणि महत्वपूर्णानि कार्याणि एतस्य काले अभवन्। १९८४ तमे वर्षे भारतदेशे सामान्यनिर्वाचनं प्राचलत् । तत्र लोकसभायां पूर्णबहुमतं प्राप्य काङ्ग्रेस- पक्षः अधिकारं गृहीतवान्। श्रीराजीवगान्धिः एव देशस्य प्रधानमन्त्री अभवत् । श्रीलङ्का देशे तमिळ्उग्रवादिभिः आन्दोलनम् प्रवर्तितम् आसीत्। श्रीलङ्कादेशस्य अध्यक्षेण श्रीजयवर्धने- महोदयेन सह वार्तालापसमये १९८७ तमे वर्षे श्रीमतः राजीवगान्धिवर्यस्य हत्यायाः विफलः प्रयत्नः अभवत् । तमिळ्उग्रवादिजनाः (एल्.टी.टी.ई) तमीलुजनसमस्यायां श्री राजीवगान्धिवर्यस्य मध्ये प्रवेशं न इष्टवन्तः । १९९१ तमे वर्षे तमिऴ्‌नाडुराज्यस्य श्रीपेरम्बदूरु प्रदेशे राजकीयप्रचारसभायाम् एकेन उग्रगामि-आत्महत्यादलसदस्येन शिवरासन् इत्यनेन वेदिकायां विस्फोटः कारितः । धनु इति महिला मालार्पणकार्यार्थमिव आगता आत्मनः विस्फोटं कृत्वा मृता अभवत् । भारतदेशे एषा वार्ता अतीव दुः खदायिकाऽभवत् । भारते तथा श्रीलङ्कादेशे च उग्रगामिभिः भयोत्पादनं क्रियते स्म । शान्तिसन्धानपूर्वकं समस्यायाः परिहारं कर्तुम् इष्टवान् श्री राजीवगान्धिः दुर्मरणं प्राप्तवान् । श्रीराजीवगान्धिकार्याणि विचारधाराः च उत्तमाः आसन् । राष्ट्रस्य एकतां समग्रतां संरक्षितुं तथा भावैक्यतां संस्थापयितुं सद्भावनया कार्यं कर्तुं प्रेरणा दत्ताऽसीत् । अतः एव श्रीराजीवगान्धिजन्मदिनं सद्भावनादिनम् इति आचरन्ति । एषः ‘’’भारतरत्न’’’ पुरस्कारेण सम्मानितः अस्ति । अस्मिन् दिने भयोत्पादनाविरोधिनिर्णयाः स्वीकृताः भवन्ति । देशे सदा शान्तिं सुव्यवस्थां संरक्षयितुं सर्वेभ्यः सूचनाः दीयन्ते । प्रमाणवचनानि बोध्यन्ते । नेहरुवंशे जातः श्रीराजीवगान्धिः पत्नीं सोनियागान्धिमहाभागां पुत्रं राहुलगान्धिमहोदयं पुत्रीं प्रियाङ्कां च त्यक्त्वा दुर्मरणं प्राप्तवान् इति महान् खेदकारकः विषयः अभवत् । फलकम्:श्रेणिः:उत्सवाः फलकम्:श्रेणिः: जयन्त्युत्सवाः