सन्तुष्टः सततं योगी...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः सः मे प्रियः ॥ १४ ॥

अन्वयः[सम्पादयतु]

यः सर्वभूतानाम् अद्वेष्टा मैत्रः करुणः एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी सततं सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः मद्भक्तः सः मे प्रियः ।

शब्दार्थः[सम्पादयतु]

यः सर्वभूतानाम् = यः सर्वजन्तूनाम्
अद्वेष्टा = अवैरी
मैत्रः = स्निग्धः
करुणः एव च = दयालुः च
निर्ममः = ममताशूल्यः
निरहङ्कारः = अहङ्कारवर्जितः
समदुःखसुखः = क्लेशसन्तोषयोः समानः
क्षमी = क्षमावान्
सततम् = सदा
सन्तुष्टः = सन्तृप्तः
योगी = समाहितचित्तः
यतात्मा = नियतमनस्कः
दृढनिश्चयः = निश्चलबुद्धिः
मयि अर्पितमनोबुद्धिः = मयि निवेशितचित्तः
मक्तः = भगवक्तः च
यः = यः मानवः
सः = सः पुरुषः
मे प्रियः = मम इष्टः ।

अर्थः[सम्पादयतु]

यः सर्वजन्तुषु अवैरी, स्निग्धः, दयालुः, ममताशून्यः, अहङ्कारवर्जितः, क्लेशसन्तोषयोः समानः, तितिक्षुः, सदा सन्तृप्तः, समाहितचित्तः, नियतमनस्कः, निश्चलबुद्धिः, मयि निवेशितचित्तवृत्तिः, भक्तः सः पुरुषः मम इष्टः । (सङ्गल्पात्मकं मनः, अध्यवसायात्मिका बुद्धिः)

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सन्तुष्टः_सततं_योगी...&oldid=418851" इत्यस्माद् प्रतिप्राप्तम्