सप्त नद्यः
नदी भारतीयसंस्कृतौ अविनाभावेन अस्ति । प्रातरुत्थाय भूमौ पादन्यासात् पूर्वं धरणिदेव्याः क्षमां प्रार्थयति मानवः । तत्र तस्याः वर्णने पर्वताः एव स्थनौ यस्याः सा भूमिः इत्युक्ते पर्वतात् प्रादुर्भूतानां नदीनां जलं जनाः पिबन्ति । अतः भूमातुः स्तन्यं जदीजलम् । भारतस्य संस्कृतौ पर्वतानां नदीनां च तादृशं स्थानं कल्पितम् । नद्यः तु मातृस्थाने विराजन्ते भारतीयहृन्मन्दिरेषु । तासां नामानि अपि स्त्रीप्रत्ययान्तानि एव भवन्ति । इति श्लोकं भारतीयाः पूज्यायाः पूर्वं स्नानात् पूर्वम् उक्त्वा प्रयुञ्जमाने यस्मिन् कस्मिन्नेपि जले तासां पुण्यनदीनाम् आह्वाहनं कृत्वा तस्य उपयोगं करोति । नद्यः तु जनानां जीवनस्य अबिभाज्यम् अङ्गम् भवति । देवभूमौ भारते सहस्राधिकाः नद्यः वहन्ति इत्येव अस्य देशस्य सौभाग्यम् ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु ॥