सबाधधावनम्
अथ्लेटिक्स् सबाधधावनम् | |
---|---|
२००७ वर्षे ऑसाका नगरे डेकाथलान् स्पर्धायाः११० मीटरं सबाधधावनस्य प्रथमचक्रम्
Dead end |
सबाधधावनक्रीडा(Hurdles) धावनक्रीडायाः एका प्रसिद्धप्रकारः वर्तते ।
परिचयः
[सम्पादयतु]पलायमानो जनः पथि समागतानि स्थूलानि लघूनि वा गत्यवरोधकारीणि वस्तूनि समुल्लङ्ध्यात्मनो रक्षार्थं धावत्येव । ईदृशीं स्थितिं विलोक्य मन्ये विचार कैस्तादृशधावनाविषयेऽपि चिन्तितम् । प्रकारा गवेषिताः, नियमा निर्धारितस्तथा प्रशिक्षणविधिः प्रवर्तितः । प्रतियोगितासु स्थानं प्राप्य कलेयमपि विकसिता । यद्यपीदृशस्य धावनस्य वर्णनं प्राचीनयूनाने सम्पन्नेषु विश्वक्रीडोत्सवेषु न लभ्यते तथापि साम्प्रतमस्य प्रचलनं प्रतियोगितासु दृश्यत एव । प्रारम्भे हर्डल्-धावनरुपेण वर्तमानपद्धतेः प्रयोगो नाभूत तथापि तदानीमेकत्र किमपि भारवद् वस्तु संस्थाप्य तदुल्लङ्घ्नप्रयासपूर्वकं धावनं क्रियते स्म । परं तेन वस्तुना सङ्घ्ट्ट्य क्रीडक आहतोपि भवति स्म । ततस्तं रक्षितुं तेदभयपार्श्वयोर्यष्टिद्वयमाधारार्थमारोपितमक्रियत, यदाधारेणेत्प्लुत्य धावकोऽग्रे वर्धते स्म । इदानीं नास्ति तादृशी स्थितिः । अधुनाऽवरोधदण्डो (हर्डल्)ऽतीव सामान्यो भाररहितः प्रयुज्यते भूमावेवमेव स्थाप्यते येन सामान्यसङ्घट्टनेनैव स पतति तत अभिघातस्य भयं नास्ति, उत्पलवनकाले हस्तयोः कार्यं तथैव भवति यथा सरलधावने भवति ।
सबाधधावनस्य शैली विकासश्च
[सम्पादयतु]बाधाधावनस्यारम्भविधिरन्यधावनवदेव वर्तते, तत्रानतरमिदमेवास्ति यद धावकः प्रथमां बाधां पारयितुं स्वीयान् पादसञ्चारान् सुनियोजयति । सामान्यतोऽष्टभिः पादविन्यासैरिदमन्तरं पार्यते । बाधाधावकः पूर्णया शक्त्या तथा व्यवस्थितैवचरणन्यासैर्बाधकदण्डस्योपरितनभागाद् गन्तुं धावति।
अस्मिन् धावने शैलीविकासदृष्ट्या प्रथमं विकासं 'श्रीक्रेजोलीनो’ऽकरोद यस्मिन् धावनावस्थायां चरणं सरलं विधाय हर्डलपारकरणस्याविष्कारः कृतः । ततः परं 'थामसनः’ बाधकस्योपरि द्वावपि ह्स्तावग्रे कृत्वा सन्तुलनस्थापनस्याविष्कारं विहितवान् । 'सदर्न्’श्च पृष्ठवर्तिनः पादस्य विलम्बितक्रियां प्रतिपादितवान् । 'एचं डिलाईः’ वेगवत्या गतेस्तथा स्तम्भितजान्वोः शैलीमचालयत् । परमियं शैली नैव स्वीक्रुता । 'एलं कल्हौन्’श्च गत्या सह पद्धतेः समन्वयं साधितवान् ।
इदं धावनं ११० मी० २०० मी० तथा ४०० मी० पर्यन्तं भवति । प्राथमिके धावने सम्पूर्णं ध्यानं गतौ पद्धतौ च तिष्ठति । प्रलम्बधावने गतेर्गतिरक्षणस्य क्षमता, बाधानां मध्ये पदविन्यासानां विभागस्य् तथा गतिरक्षणस्य प्रयासा आवश्यकाः सन्ति । बाधावस्थायामग्रेऽवनतिः स्कन्धयोः पृथ्व्याः समानान्तरेण रक्षणं पूर्णस्य धावनस्य क्षमतानुसारं विभागस्तथा चरणयोः सामञ्जस्य-स्थापनमावश्यकानि तत्त्वानि मन्यन्ते ।
सबाधधावकस्य आवश्यकाः गुणाः
[सम्पादयतु]- शारीरिक्यो विशेषताः-प्रलम्बता, सरलता विभिन्नाङ्गेषु सामञ्जस्यं वेगपूर्णा गतिश्च ।
- मानसिक्यो विशेषताः -साहसो धैर्यं सहनशीलताऽऽत्मविश्वासो लयबोधश्चेत्येता विशेषता अपेक्षिताः सन्ति ।
सबाधधावनस्य मूलसिद्धान्ताः
[सम्पादयतु]- अस्य धावनस्य प्रक्रिया प्रधावनप्रक्रियैवास्ति ।
- आदितोऽन्तं यावदिदमेकं क्रियात्मकं तारतम्यमस्ति ।
- बाधकस्योपरि व्यतिगन्तुकः समयः समयस्य विनाशे गण्यते ।
सबाधधावनपद्धतिः
[सम्पादयतु]अस्य धावनस्य पद्धतिः षट्स्वङ्गेषु विभक्ता विद्यते-
- प्रस्थानं तथा प्रथमबाधकस्य निकटे गमनम्
- उच्छलनम् ।
- वाधकस्योपर्यत्पतनम् ।
- अवतरणम् ।
- बाधकानां मध्यवर्तिनी क्रिया ।
- समाप्तिः
अत्यन्तं सावधानतया प्रस्थानानन्तरं प्रत्यक्षं पश्यन् धावकः पुरो धावेत् । प्रथमबाधकस्य निकटे गन्तुमष्टौ चरणान्यासान् विधाय अच्छेत् । बादकस्य सामीप्यानन्तरं धावकः स्वां दृष्टिं बाधके निधायोच्छलति । उडुयनकाले धावको नावनमति, न कूर्द्ते न वोच्छलति । स तूच्छलनावसरे पादतलस्य शक्त्योच्चैरुत्थाय शिरः स्कन्धं चाग्रे कृत्वा सञ्चालयति । अवतरणावसरे प्रलम्बं पदन्यासं कृत्वा सन्तुलनपूर्वक मवतरणानन्तरं यथोच्छां गतिं संरक्षति । मध्यक्रियायां धावक्स्त्रीन् चरणन्यासान् गतिलाभानुसारं विधत्ते । बाधकानां मध्ये बाह्वोः शक्तेः पूर्ण उपयोगः क्रियते यतः सन्तुलनं भवति तथा चरणयोर्गतिस्तीव्रा जायते । समाप्तौ धावकायेदमावश्यकं विद्यते यद बाधकं पारयित्वाऽन्तिमे धावने नोपविशेद् न वा सन्तुलनं वर्जयेत । इति ।
धावनस्यायं क्रमिको विकासः क्रियाणां वैचिर्त्र्यण सह नियमसमन्वितं संयोजनं पुरोवर्तिनीषु परिष्कृतासु सर्वास्वपि क्रीडास्वाधार्भुवः कार्यं करोति । एतेषां धाव्नविधीनामतिरिक्तमपि नानाविधा नैकशः प्रक्रियाः प्रथिताः सन्ति । मूलं यस्य सुदृढं भवति स निरन्तर समुन्नमति पुष्णाति फलति च । अत एव वयमित्यमेतदाकलयामः -
- तीव्रां गतिं स्थिरतरां मतिमुदगतिञ्च
- प्रीतिं कृतौ नियतिमदयतिमात्मदान्तिम् ।
- श्रित्वा प्रतीतिमथ नीतिमतिं च रीतिं
- यो धावति प्रथितिमेति स नित्यमेव ॥
चित्रवीथिका
[सम्पादयतु]चित्रमुद्रिका
[सम्पादयतु]आधारः
[सम्पादयतु]अभिनवक्रीडातरङ्गिणी