धावनक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

धावनक्रीडा/running[सम्पादयतु]

शरीरस्य स्वास्थ्यं कृतिषु दृढतां साहसिकतां,
मनोमस्तिष्कैक्यं करचरणशक्तिं च दधती।
विभिन्नप्रस्थाना जनरुचिकरी सौख्यलहरी,
गतेः सम्यग् वृद्धयै भुवि विजयते 'धावनकला’[१]

एवं किल मन्यन्ते क्रीडेतिवृत्तविदो यत् 'क्रीडनकूर्दन’कलायाः शुभारम्भः ७७६ वर्षेभ्यः पूर्वमेव समभवत् । अन्ये च केचन अस्याः आरम्भः १२५३ वर्षपूर्वं तथा ८८४ वत्सराणां मध्ये स्वीकुर्वन्ति । परं भारतीयचिन्तनपरम्परा तु सृष्टेः उदयकालाद् मानवस्य जन्मनः समकालमेव यथा तदीयाशनवसनादिसम्बद्धानां वस्तूनाम् अपि समुत्पत्तिम् अकरोत् तथैव तच्छारीरकशक्तिसंवर्द्धनौपयिकीम् इमां कलामपि स्रष्टा ससर्जेति दृढं विश्वसिति । एवमेव क्रीडाः कथं कुतः केन वा प्रवर्तिता इति विषयेऽपि सन्ति नानाविधानि मतानि । आधुनिके जगति च याः कथा विद्यन्ते भूयस्यः प्रचलिताः ताः सर्वा ग्रीसदेशस्य राजभिः एव सम्बद्धा वर्तन्त इति कृत्वा तेषाम् अयम् अभिप्रायो विद्योतते यत् -" साम्प्रतिकीनां क्रीडानां जनको ग्रीसदेशः एव इति।"

Dwain Chambers at Olympic Trials 2008 02.jpg

तत्र क्रीडासु सर्वतः प्रथमं 'द्रुतप्रचलनक्रिया’ ततश्च 'धावनकला’ प्रारभत । आत्मानं सततं रक्षेद् इति भणित्यनुसारं मानवः हिंस्रादिजीवेभ्य आत्मानं त्रातुं यतस्ततो धावति स्म एव । सभ्यतासीम्नि वर्तमानैः शेमुषीशालिभिः धावनस्य महत्त्वं निरीक्ष्य च आत्मसात्कृता इयं कला । क्रमशः विकासं गमितायाः अस्याः कलायाः प्राथमिकं रूपं लघुदीर्घधावनम् इति (SPRINTS स्प्रिन्टस्)नाम्नाऽऽम्नातम् । तदानीं स्टेड्-रेस्’ नाम्ना सम्बोध्यमिदं धावनं प्रायो द्विशतगजमिते प्रलम्बे पथि भवति स्म । तदाधारेण एव तदा धावनक्षेत्रं 'स्टेडियम्’ नाम्ना ख्यातिम् अगमत् ।

प्राचीनयूनानदेशस्य प्रथमे विश्वक्रीडामहोत्सवे क्रीडितासु क्रीडासु धावनकलेयमेकाकिनी मुख्या घटनाऽऽसीत् । साम्प्रतिके काले १८६६ तमे वत्सरे यदा विश्वक्रीडोत्सवायोजनस्य पुनरुद्धारः अक्रियत । तदा पुनर्लघुतीव्रादिधावनानि अन्ताराष्ट्रियेण स्तरेण समारभन्त । अधुनातनीषु प्रतियोगितासु १००-२००-४०० मीटरमितानि प्रलम्बानि धावनानि एव लधुधावनविधौ स्वीक्रियन्ते । गतेषु पञ्चाशदवर्षेषु लघुधावनस्य इतिहासे सुबहूनि परिवर्तनानि सम्पन्नानि । अस्य प्राविधिकप्रशिक्षणप्रक्रियादिविधिषु नैकानि वैज्ञानिकानि परीक्षणानि च विधाय शैल्या आशातीतो विकासो विहितः । वैज्ञानिकाः प्रयोगाः प्राचीना धारणा मान्यताश्च विभेद्य नवीना विश्वासा आहिताः । निरन्तरं प्रगतिमत्कीर्तिमानमस्याः वैज्ञानिकप्रगतेः प्रमाणं विद्यते ।

'धावनप्रक्रियायां किं वैशिष्ट्यमस्ति ? सर्वेऽपि प्राणिनः आत्मरक्षार्थं यथा कथञ्चिद् धावन्त्येव' इत्येवं मन्यमाना धावनस्य महत्त्वं न विदन्ति । पुरातनकाले यादृशं धावनं भवति स्म तथैव अधुनाऽपि धावन्ति, परं तस्य वैज्ञानिकपद्धत्या समायोजनं दृष्ट्वा वस्तुतः चाकचक्यं प्राप्नुम । वर्तमानकाले ये विश्वक्रीडामहोत्सवा आयोज्यन्ते तेषु धावनस्य नानाविधानां प्रतिस्पर्द्धानां काले पश्यामो यद् धावकाः केषु केषु प्रकारेषु धावनकौशलं प्रदर्शयन्तीति ? अत एव नवीनायां धावनप्रणाल्यां ये प्रकारा आविष्कृता निर्धारिताश्च सन्ति तेषाम् अत्र संक्षिप्तः परिचयः प्रदीयते ।

धावनप्रकाराः-

  1. लघुधावनम्
  2. प्रलम्बधावनम्
  3. परम्परितधावनम्[२]
  4. सबाधधावनम्

एते चत्वारः प्रकाराः मुख्यत्वेन प्रसिद्धाः सन्ति तथा एतेषां कतिचन उपभेदाः अपि भवन्ति । धावकाः स्वस्वरुचिशक्त्योः अनुसारम् एतेषु धावनप्रकारेषु प्रावीण्यं सम्प्राप्य प्रतिस्पर्धासु विजयं लभन्ते ।

धावनप्रक्रियायाः पद्धतिः इत्थं निर्दिश्यते -

  1. हस्तयोः कूर्परौ ६० अंशेन वलिते भवेताम् ।
  2. मणिबन्धौ श्लथौ रक्षणीयौ तयोः दिशा च जङ्घे प्रति स्यात् ।
  3. अङ्गुल्यो वलिताः तथा अङ्गुष्ठः तर्जन्याः उपरि भवेत् ।
  4. स्कन्धयोः आकृष्टिः न स्यात् (शैथिल्यं भवेत्) ।
  5. शरीरस्य सर्वा अपि क्रिया धावनस्य दिशि एव स्युः ।
  6. हस्तयोः क्रियायां कूर्परः पृष्ठभागे किञ्चिद् बहिर्गच्छेत् तथा क्रिया स्कन्धस्य सन्धिभागाद् भवेत् ।
  7. शरीरसञ्चालनेन गतौ कोऽप्यनुचितः प्रभावः न पतेत् ।

धावनकाले धावकेन निम्नलिखिताः षड विधिनिषेधसङ्केताः अपि निरतं स्मरणीयाः सन्ति ।

विधिरूपाः सङ्केताः निषेघारूपाः सङ्केताः
समक्षं वलनरहितं धावितव्यम् उच्छलनपद्धत्या न धावितव्यम्
जानुः पूर्णरूपेणा अग्रे समुत्थाप्यः पृष्ठवर्ति पादः उच्चैः न नेतव्यः
अन्तिमसूत्रे वलनं विना अग्रे धावितव्यम् सूत्रे न कूर्दितव्यम्


आधुनिकानां क्रीडाचार्याणां मन्तव्यमस्ति यद् "येन क्रीडकेन आत्मनो निरन्तरं पीडनं विमुक्तं स शारीरकव्यायामवान् न अवशिष्यते ।" अस्याम् आशयो विद्यते यत् प्रारम्भादेव धावनादिविद्यानुरागी निरन्तरं कठिनं श्रमसाध्यञ्च अभ्यासं प्रवर्तयेत् ततः कदापि न विरमेत इति । यतो हि -

निरन्तरं साधनया तपस्यया, श्रमेण निष्ठार्पितजीवनेन वै ।
परिस्फुरत्कीर्तिमवाप्य मानवः, सर्वत्र सिद्धिं लभते क्रियान्वितः ॥

धावकः केवलं धावनमात्रेण सफलो न भवति, तेन यथाकालम् अन्येऽपि व्यायामाः कर्तव्याः । पोषकः आहारः सेवनीयः । अभ्यासक्रमः पर्याप्तरूपेण विनोदपूर्णो भवेद् यतो मानसिकी श्रान्तिः न आगच्छेत् । धावकेन स्थायिनी गतिः स्थायिनी सहनशक्तिः मानसिक्यो विशेषताः समयो विश्रामकालः प्रलम्बता च एतेषां सर्वेषां विचारेण अभ्यसितव्यम् ।

टिप्पणी[सम्पादयतु]

  1. धारणपोषणार्थवतः 'धा'धातोः अत्रोभावेवार्थावभिप्रेतौ धारयन्ती पोषयन्ती च कला इयमिति
  2. अन्ये क्रीडाविनोदस्य 'तीव्रधावनम्’ इति नाम दत्त्वा लघुमध्यमप्रलम्बधावनरूपेण त्रीन् प्रकारान् स्वीकुर्वन्ति

आधारः[सम्पादयतु]

अभिनवक्रीडातरङ्गिणी

"https://sa.wikipedia.org/w/index.php?title=धावनक्रीडा&oldid=326156" इत्यस्माद् पुनः प्राप्तिः