सामग्री पर जाएँ

परम्परितधावनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


परम्परितधावनक्रीडा (Relay) धावनक्रीडायाम् अन्यतमा क्रीडा ।

क्रीडायाः शैली

परम्परितधावनम्

[सम्पादयतु]

परम्परितधावनस्योल्लेखः प्राचीनेषु विश्वक्रीडायोजनेषु न लभ्यते । आधुनिकस्य विश्वक्रीडोत्सवस्य श्रृङ्खलायाः पञ्चमक्रीडोत्सवे यो हि स्वीडनस्य राजधान्यां 'स्टाक होल्म' नगर्यामायोजितोऽभत् 'रिले दौड' नाम्ना प्रथमवारं विश्वस्तरेण समक्षमायातम् । आधुनिके काले धावनकूर्दनादिकला- 'एथलेटिक्स' याः प्रचलनं 'यूनाईटेड किंगडम्’ -त एवाभवत् । अमेरिकादेशोपि तदर्थमेतेषामेव कृतज्ञो विद्यते ।

'रिले’ शब्देनांग्लभाषायां समाचारवाहकैः प्रयुक्ज्यमानस्य द्रुतगाम्यश्व समूह्स्यार्थो गृह्यते । यदा यान्त्रिकानि वाहनानि नाभवैस्तदा सन्देशवाहका अश्वानारुह्य समाचाराननयन् किञ्च मध्ये मध्ये श्रान्तमश्वं विसृज्य नवीनमश्वं पर्यवर्तन्त । इत्यमेकः सन्देशवाहकोऽश्वानामेकं समूहं प्रयुनक्ति स्म । अस्याश्वदलस्थांग्ल्- पर्यायोऽस्ति 'रिले आफ हौर्सिज्’ । विश्लेषणेनेदं विद्मो यद यथा स्थाने स्थानेऽश्वं परिवर्तयन् सन्देशवाहकोऽग्रे वर्द्धते, एतस्मात् कारणादिदं 'परिवर्तितधावक धावनं’ 'परम्परितधावनं’ वा क्थ्यते ।

इदं धावनमतीव दर्शनीयं भवति । अस्य धावनस्य दवौ प्रकारौ वर्तेते (१) ४X१०० तथा (२) ४X४०० मीटरमितं परम्परितं धावनम् । ४X१०० मीटरमानस्य वट्टकपरिवर्तनशैली-अदृश्यपरिवर्तनपद्धतिः (अदृश्यपारापरीपास) इति कथ्यते तथा ४X४०० मीटरमानस्य वट्टकपरिवर्तनशैलीं 'दृश्यपरिवर्तनपद्धतिः’ इति कथयन्ति । अनयोर्धावनयोर्महत्त्वपूर्णा वार्तेयमस्ति यद वट्टकः समग्रेऽपि धावने सर्वाधिकतीव्रगत्या गतिमानेव दृश्यते

  1. ४X१०० मीटरमितपरम्परितधावन- पद्धतिः

(अ) वट्ट्क ग्रहणं प्रस्थानञ्च -पर्वं वट्टकं सारल्येन दृढं गृह्णन्ति अन्तिमे द्वे अङ्गुल्यौ तं गृह्णीतस्तथाऽड्गुष्ठः शिष्टे अङुल्यौ च शरीरस्य भारोद्वहनसाहाय्याय त्रिपदिकायाः कार्यं कुर्वन्ति । पूर्वं वट्टकग्रहणस्य केचनान्ये प्रकारा आसन् । यथा

(१) मध्यमानामिकाभ्यां वट्टाकं गृहीत्वाऽङ्गुष्ठस्य तथा तर्जनीकनिष्ठकयोस्त्रिपदीनिर्माणम् ।
(२) तर्जन्या वट्टकग्रहणं तथा शिष्टाङ्गुष्ठागुलीनां साहाय्योपलब्धिः ।
(३) अन्तिमाभिस्त्रिभिरङ्गुलीभिर्वट्टकं गृहीत्वाऽङ्गुष्ठतर्जनीभ्यां साहाय्यग्रहणम् ।

वट्ट्कपरिवर्तनम्

[सम्पादयतु]

आगन्तुकः क्रीडको गन्तुकाय क्रीडकाय द्वाभ्यां प्रकाराभ्यां वट्टकं ददाति ।

(१) हस्तस्योर्ध्वभागात्
(२) हस्तस्याधोभगाच्च ।

साम्प्रतमधोभागाद् वट्ट्कप्रदानविधः प्रयोगो विशेषेण क्रियते । यतो ह्यस्मिन् -

(१) वट्टकपतनस्यावसरो न्यूनो भवति तथा वट्टकदातुर्मनसि दृढो विश्वासो भवति यद् वट्ट्को गन्तुर्हस्ते निश्चितं गत इति ।
(२) वट्टकपरिवर्तनसमये गतौ न्यूनताऽतीवाल्पा भवति
(३) उभयोर्धावकयोर्मध्येऽन्तरमधिकतमं भवति येनेदमन्तरं स्वल्पधावनेन परिपूर्यते ।

वट्ट्कप्रदानस्य द्वावन्यावपि प्रकारौ स्तः -

[सम्पादयतु]
(१) तेनैव हस्तेन प्रदानं
(२) विपरीतहस्तेन प्रदानमिति ।

प्रथमे प्रकारे सर्वेऽपि धावका आगन्तुका येन हस्तेन वट्ट्कं गृह्णन्ति तेऽग्रे गन्तुकायापि तेनैव हस्तेन तं ददति । अस्य तात्पर्यमिदमस्ति यद धावकः कुत्रापि मार्गे स्वस्य दक्षिणहस्तादवामे हस्ते वट्टकं परिवर्तयिष्यति एतेन १. गतववरोधस्तथा २. वट्टकपतनस्य सम्भावना -रूपिण्यौ हानि भवतः । अत एवायं विधिः साम्प्रतं न स्वीक्रियते ।

विपरीतहस्तेन वट्टकग्रहणम्

[सम्पादयतु]

अस्मिन् विधौ धावको दक्षिणहस्ते वट्टकं नीत्वा धावति तथाऽग्रेतनधावकस्य वामह्स्ते तं ददाति । द्वितीयस्तृतीयस्य दक्षिणकरे तथा स चतुर्थस्य वामकरे वट्टकं ग्राहयति । प्रथमो धावको दक्षिणकरे वट्टकं कस्मात् कारणाद गृह्णतीत्यस्य प्रश्नस्योत्तर मिदमस्ति यत् स स्वल्पातस्वल्पमन्तरं यावद् धावनं वाञ्छति तच्च तदैव सम्भाव्यते यदा स बलनस्थले पङ्क्तौ धावेत् । यतो हि १०० मीटरवति परम्परिते धावने प्रथम-तृतीयौ धावकौ वलनस्थलयोरेव धावतः, अतस्तौ वट्टकं केवलं दक्षिणकरेणै वाग्रेतनाय धावकाय दातुं प्रभवतः । अत्र वट्टकदातुर्गृ हीतुश्च धावकयोरुत्तरदायित्वान्येव भवन्ति -

दातुरुत्तरदायित्वानि !! गृहीतुरुत्तरदायित्वानि

१. सर्वात्मना धावनम् १. अनातुरं प्रस्थानम्
२. यथासमयं वट्टक प्रदानम् २. वट्टकपरिवर्तनकाले पूर्णगतिअर्धनम्
३. वट्टकस्याग्रभागः पूर्णरुपेण मुक्तो भवेत् ३. बाहुप्रक्रियाऽवरोधो न् स्यात्
४. गृहितुर्हस्ते दृष्टिविन्यासः ४. यथासमयं प्रस्थानम्
५. वट्टकप्रदानात् परं स्वपङ्कतौ धावनम् ५. पृष्ठे न प्श्येन्न च तदर्थं चिन्तयेत् ।
६. यदि वट्टकः पतेत् तदा तमुत्थाप्य प्रदद्यात् ६. जिघॄक्षुः करः समुचिते स्थाने समुचितरीत्या गच्छेत् ।
- ७. वट्टकं बलादाकृष्य नादेयादपि तु शनैर्गृ ह्णीयात ।

परम्परितधावकदल योजना

[सम्पादयतु]

अस्य धावनस्य दले चत्वारो धावका भवन्ति द्वौच धावकौ सहायकरुपेण भवतो ययोः सत्यवसर उपयोगः क्रियते । एतद दलं द्विधा सङ्घटटयते । पूर्वं धावकानां गतिक्रमेण १,२,३,४ संख्या निर्धार्यते तदनन्तरमधोदर्शितया रीत्या क्रमो व्यवस्थाप्यते -

(१) प्रथमः - सं २,४,३,१ ।
(२)द्वितीयः -सं ४, ३, २, १ ।

इद धावनमेकलमीदृशं विध्यते यत् पूर्णरूपेण दले निर्भरति, अतः सावधानतया

(१) गतिर्निरवरोधं चलेत्
(२) वट्टकपरिवर्तनं सावधानतया भवेत्
(३) धावनस्यान्तरं न्यूनातिन्यूनं स्थात् तथा
(४) निर्धारितस्य् सीम्नोऽन्तिमभाग एव वट्टकं परिवर्तयेत् ।

धावकानां क्रमयोजना चेत्थं सम्पादनीया -

(१) प्रथमो धावकः - विश्वस्तः प्रस्थानकस्तथा चक्राकारपथे धावननिपुणो निर्वाच्यः ।
(२) द्वितीयो धावकः - चक्राकारमार्गस्थोत्तमो धावकः, वट्टकादान प्रदानयोः कुशलस्तथा गतिसंवर्धने निपुणः ।
(३) तृतीयो धावकः- चक्राकारमार्गस्थोत्तमो धावकः, वट्टकादान प्रदानयोः कुशलस्तथा गतिसंवर्धने निपुणः ।
(४) चतुर्थो धावकः - प्रतिस्पर्धिना स्पर्धितुं दक्षः, वट्टकग्रहणे शूरस्तथा सरलस्य पथः कुशलो धाविता ।

४X४०० मीटरमानस्य परम्परितं धावनम्

[सम्पादयतु]

१०० मीटरमिते धावने गन्तुर्हस्ते वट्ट्कप्रदानस्य दायित्वमागन्तुके भवति यर्हि ४०० मीटरमितेऽस्मिन् धावने गन्तुकस्येदं दायित्वं विध्यते यत् स आगन्तुकाद् वट्टकं नीत्वा गच्छेत् । यतो ह्यागन्तुक्स्तु श्रान्तो भवति । यदा कदा चवमपि भवति यद् गन्ता ऽऽगन्तुकादग्रे निःसरति तथा वट्टकं गृहीतुं न शक्नोति तदा स पुनरावर्तते । अस्मिन् धावने प्रत्येकं धावकस्य वामे करे वट्टको भवति तथा गन्ता दक्षिणेन करेण तमादत्ते । गन्ता धावन्नेव मध्ये पथि वट्टकं दक्षिणहस्ताद् वामे हस्ते परिवर्तयति । इत्थं द्वयोरपि दातृ-गृहीत्रोर्दायित्वविभागोऽधोदर्शितदिशा ज्ञेयः -

दातुर्दायित्वम् गृहीतुर्दायित्वम्
१.पदसञ्चारानुमानं, यस्मिन् विकृतिर्न भवेत् । १. वट्टकादातुर्गतेः शारीरिकावस्थायाश्च समुचितमनुमानम् ।
२. सावधानतया वट्टकपरिवर्तनम् । २. वट्टके दृष्टिस्थैर्थपूर्वकं हस्त प्रसार्थ करतले वट्टकादानम् ।
३. परिवर्तनान्तरं स्वपङ्क्तावेव धावनम् । ३. वट्टकादानात् परं गत्तिवर्धनम् ।
४. वट्टकग्रहणाय यथासमयं बाहुप्रसारणम् । ४. पङ्क्तेरन्तरेव नैकट्येन धावनम् ।
५. अन्तिमधावनविधौ साहसरक्षणम् । ५. द्वित्रिसञ्चारपर्यन्तं भुजप्रसारणं धावनं च ।


अस्मिन् धावने दलानां कालगणना चतुर्णामपि धावकानां कालगणनया न्यूना भवति । वट्टकपरिवर्तनसमयाधारेण जयपराजययोर्निर्धारणमत्र विधीयते ।

अभिनवक्रीडातरङ्गिणी

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=परम्परितधावनम्&oldid=419242" इत्यस्माद् प्रतिप्राप्तम्