सामग्री पर जाएँ

लघुधावनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


लघुधावनक्रीडा (आङ्ग्लभषया-sprint running) धावनक्रीडायाम् एकः प्रकारः वर्तते ।

नवीने युगे वैज्ञानिकप्रयत्नवशाद् यत् कार्यम् असम्भवम् अभूत् तदपि सम्भवं विहितम् । लघुधावने धावकाः पूर्वं धावने यावन्तं समयं यापयन्ति स्म ततः न्यूनातिन्यूनेन समयेन धावनावधिं परिसमाप्य साम्प्रतं स्वकीयं कीर्तिमानं स्थापयितुं सफलाः दृश्यन्ते । सामान्यतो लघुधावने धावकः कैश्चिद् नियमैः सम्बद्धः सन् धावति । पुराकाले धावनं प्रशिक्षणविहीनं सत् स्वेच्छानुसारं प्राचलत् । तस्मादेव तस्मिन् कोऽपि नियमो नाभवत् । इदानीं प्रतिस्पर्धायुगे धावनस्य प्रकियायाः अपि परिष्कारः सञ्जातः । तानि सर्वाण्यपि धावनानि येषु पूर्णया अधिकतमया गत्या धावको धावति, ‘लघुप्रलम्ब’- धावनयोः गण्यन्ते । तत्र गतिद्वययोग्यते अपेक्षिते स्तः -

  1. चरणयोर्गतिः - चरणयोः अत्यन्तं तीव्रया गत्वा परिचालनस्य योग्यता ।
  2. विस्फोटकगतिः - चरणयोर्गतेः सहसैव तीव्रविस्फोटवद् द्रुतकरणयोग्यता । (अस्यां गतौ संक्षिप्ता तीव्रा प्रतिक्रिया तथा संक्षिप्ता सहजक्रिया च कालानुसारेण भवतः ।)

एवं गत्यनुसारं धावकेऽधो दर्शिता गुणा अत्यावश्यका भवन्ति -

  1. दीर्घाः पादसञ्चाराः
  2. प्रतिक्षणं पादसञ्चाराणामुन्नता संख्या
  3. पुर उत्थानसमये चरणस्योर्ध्वमुत्थानम् ।
  4. धावनसमये कटितः कण्ठपर्यन्तभागस्य अग्रे अवनतिः । (येनाग्रे वर्धने शक्तेः व्ययः अल्पः भवेत् ।)
  5. भारकेन्द्रस्य स्थिरत्वम् ।

अस्याः धावनपद्धतेः त्रयः विभागाः भवन्ति । यथा -

  1. प्रस्थानम्
  2. धावनम्
  3. धावनसमाप्तिश्च ।

तत्र हि प्रस्थाने-पूर्वं धावकाः प्रायः उत्थाय अग्रे अवनमय्य च प्रतिष्ठन्ते स्म । परम् अमेरिकायां ‘क्राउचप्रस्थानपद्धतेः’ आविष्कारेण तस्याः च अन्यपद्धतिभ्यः अधिकम् औचित्यं विज्ञाय च प्रयोगः प्रारब्धः । तस्याः पद्धतेरपि त्रयः प्रकाराः ग्वेषिताः । यथा-

  1. इलोंगेटिड - अत्यन्तं प्रलम्बाकृतिमते धावकाय ।
  2. ‘मीडियम्’ - मध्यमाकृतिशालिने धावकाय तथा
  3. ‘बन्च्’ अथवा ‘बुलेट्’ लध्वाकृतिधृते धावकाय । एतदर्थमपि परीक्षणानि जातानि प्रान्ते च ‘मीडियम्’-मध्यम-प्रस्थानविधिः एव सर्वोत्तमत्वेन स्वीकृतः ।

मध्यमप्रस्थाने पदयोः स्थितिः- अग्रिमः पादः प्रायः प्रस्थानरेखातः १२ इञ्चतः १६ इञ्चपर्यन्तं पृष्ठे स्थाप्यते, यो हि धावकस्य नितम्बस्कन्धयोः दूरतानुरूपो भवति । प्रत्येकं धावकस्य शारीरको मध्यभागः समानो न भवति । अतः १२ तः १८ इञ्चस्यानुमानितमन्तरं निर्धारितम् । अस्य वास्तविकपद्धत्या संयोजनाय एका क्रियात्मिका -पद्धतिः अस्ति यस्यां धावको व्यवस्थितरीत्या पादौ संयोज्य प्रस्थानपट्टिकायाः संकेतस्थले तौ व्यवस्थाप्य प्रस्थानकस्य देशानुसारम् अङ्गपरिचालनं निरुद्धय अग्रिमादेशप्राप्तेः प्रतीक्षायां मनाक् तिष्ठति । सावधानस्यादेशात्परं स्कन्धद्वयं प्रस्थानरेखातः अग्रे नयति । इयमेका स्थिरावस्था भवति तथाप्युत्तमा धावका अवरोधाभ्यासं कुर्वन्ति । सावधानदशायामागमनसमये धावकः श्वासमाकृष्य फुप्फुसे पूरयति तथा श्वासं निरुणत्ति या स्वल्पकालिकी कुम्भकक्रिया इव अस्ति । शिरः स्कन्धयोः समावस्थायां दृष्टिश्च प्रस्थानरेखातः १ फीटतः २ फीटमितं यावदग्रे भवतः । पृष्ठपादस्य जङ्घा सरलावस्थायां भूम्या सह समकोणं रचयन्ति भवति । सावधानस्थितौ धावकस्य शरीरं सरलं विराममुद्रामयं च तिष्ठति ।

धावनस्य आरम्भावस्थायां समुचितप्रस्थानस्य द्वे लक्ष्ये भवतः ।

  1. धावकः प्रस्थानस्य सङ्केतध्वन्यनन्तरं सद्य एव पलायेत
  2. धावकः शीघ्रातिशीघ्रधावनस्य पदसञ्चारे प्रवर्तेत ।

सङ्केतध्वनिश्रवणसमकालमेव धावकः पट्टिकां परित्यज्य धावनम् आरभते, तदा तस्याङ्गनां परिचालनमित्थं भवति-

  1. पृष्ठगतपादस्य विपरीतो बाहुः ईषद् वलितः तीव्रतयाऽग्रभागो स्कन्धयोः साम्येन निःसरति । अयं बाहुर्यावदग्रे गन्तुं शक्यते गच्छति । तदैवं प्रतीयते यद् हस्तः किमप्यग्रेतनं वस्तु गृहीतुं प्रयतते । द्वितीयो बाहुरपि मनाग् वलितः पृष्ठभागे तीव्रतया गच्छति ।
  2. तस्मिन्नेव समये पृष्ठवर्ती पादः तीव्रतयाऽधोदशायां समक्षं प्रस्थानरेखायाः १८ तः ३० इञ्चावधि पुरो वर्धते । पादस्य उच्चैः उत्थानप्रयत्नः धावकस्य शरीरं सर्वयोच्चैः उन्नमयति तथैवं तद्गताववरोधं जनयति ।
  3. प्रथमे पदसञ्चारे पादतलं समक्षं सद् भूमौ पतति । पादतलस्य पार्श्वयोः वलनं पादपरिचालने बाधकं भवति ।
  4. धावकस्य नितम्बभाग उच्चावचगतेः स्थाने पुरो वर्धते । शिरः शनैः शनैरुन्नम्यते तथा धावकस्य दृष्टिः पथि २० तः ३० फीटपर्यन्तमग्रे गच्छति ।
  5. धावकः क्रमेण उच्चैः उत्तिष्ठत् प्रारम्भिके ११ मीटरमिते मार्गे भूमेः ६५ अंशस्य कोणं निर्मातुं प्रार्तते । तस्य पदसञ्चाराः क्रमशो दीर्घा दीर्घतराश्च भवन्ति तथा १५ मीटरसमाप्तिं यावत् सामान्यप्रलम्बतां भजन्ते ।
  6. प्रारम्भिकाः पदसञ्चाराः पूर्णरुपेण प्रलम्बताम् अवलम्बन्ते परं ततोऽधिकं तीव्रतायै न प्रयत्यते ।
  7. ईदृशे धावने शरीरस्य गुरुत्वाकर्षणम् एकस्यां समानायां रेखायां धावनस्यान्तं यावद् गतिशीलं भवति ।
  8. अस्मिन् धावने सन्तुलनस्य भङ्गः पुनः प्राप्तिश्चेति क्रम एकं महत्त्वपूर्णं रहस्यम् अस्ति । शरीरस्याग्रेऽवनमनं स्फूर्त्या प्रस्थातुम् आवश्यकम् ।
  9. शिरोदृष्टिश्च शरीरस्याग्रे वर्धनस्य कुञ्चिके स्तः । यद्येते समुचिते भवेतां तदा शरीरस्य कोणमपि समीचीनं भवति । शिरो दृष्टिश्च क्रमेणा शनैः शनैरुन्नमतः प्रत्येकं पदसञ्चारश्च प्रलम्बतां स्वीकरोति ।
  10. प्रस्थानसमये बाह्वोः क्रियायां सन्तुलन-समन्वय-सारल्यानाम् अतीव वैशिष्टयं विद्यते । पदसञ्चरणे भूस्पर्शकाले भारो न दीयते । अग्रे वर्धनसमये पादस्य वलनं नोचितम् भूमिसम्पर्कक्रिया स्वल्पकालिकी च भवति ।

धावनस्य मध्यावस्थायामम् अग्रे गमनस्य द्वौ मुख्यभागौ स्तः (अ) पुनः प्राप्तये पदसञ्चारक्रिया (ब) गतिसञ्चाराय पदक्रिया च । प्राकृतिकरीत्या सर्वेषाम् अङ्गानां समुचितरूपेण परिचालनं तथा क्रियासामञ्जस्येन साहसस्य शक्तेश्च विकासपूर्वकं धावनमत्र हितावहम् । बाह्वोः प्रक्रियाया उद्देश्यं सन्तुलनस्थापनं विद्यते । भुजयोः पदयोश्च प्रक्रियायां साम्ये सति धावनक्रिया सम्यग् भवति । गतिसंवर्धनकाले शरीरस्यावनतिर्नेचिता ।

धावनसमाप्तिकालिकी गतिः समापनकाले पदयोर्गतौ तीव्रता नापेक्षिता परं या गतिस्तदानीं भवेत् साऽपि शिथिला न कर्तव्या । सन्धावनान्तरेखापर्यन्तं समुचितां गतिं सञ्चारं तथा शरीरस्यावनतिं संरक्ष्य सप्ताष्टगजमिते पथि दृष्टिं विन्यस्य रेखासूत्रं विदीर्य चाग्रे गमनं विधीयते ।

चित्रमुद्रिका

[सम्पादयतु]

अभिनवक्रीडातरङ्गिणी

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=लघुधावनम्&oldid=484753" इत्यस्माद् प्रतिप्राप्तम्