समं सर्वेषु भूतेषु...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
- विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २७ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत्सु अविनश्यन्तं यः पश्यति सः पश्यति ॥ २७ ॥
अन्वयः
[सम्पादयतु]सर्वेषु भूतेषु समं तिष्ठन्तं विनश्यत्सु अविनश्यन्तं परमेश्वरं यः पश्यति सः पश्यति ।
शब्दार्थः
[सम्पादयतु]- भूतेषु = प्राणिषु
- समम् = समानम्
- तिष्ठन्तम् = विद्यमानम्
- सः पश्यति = स एव सम्यक् जानाति
- विनश्यत्सु अविनश्यन्तम् = म्रियमाणेषु अपि अम्रियमाणम् ।
अर्थः
[सम्पादयतु]निखिलेषु प्राणिषु अविशेषेण विद्यमानम्, प्राणिषु म्रियमाणेष्वपि अम्रियमाणम्, परमात्मानं मानवः पश्यति सः एव सम्यक् पश्यति । स एव ज्ञानी, नान्यः।