सर्गाणामादिरन्तश्च...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
- अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥३२॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वात्रिंसशत्तमः(३२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन। अध्यात्मविद्या विद्यानाम् वादः प्रवदताम् अहम्॥३२॥
अन्वयः
[सम्पादयतु]अर्जुन सर्गाणाम् आदिः मध्यं च अन्तः च एव अहम्, विद्यानाम् आध्यात्मविद्या, प्रवदतां वादः अहम्।
शब्दार्थः
[सम्पादयतु]- अर्जुन = हे पाण्डव!
- अहम् = अहम्
- एव = हि
- सर्गाणाम् = सृष्टीणाम्
- आदिः = उत्पत्तिः
- अन्तः = लयः
- मध्यम् च = स्थितिः च
- विद्यानाम् = सर्वासां विद्यानाम्
- अध्यात्मविद्या = आत्मज्ञानम्
- अहम् = अहम्
- प्रवदताम् = प्रवक्तृभिः वादः जल्पः वितण्डा च इति प्रयुक्तानाम् एतेषां त्रिप्रकाराणां वदनभेदानाम्
- वादः= अर्थनिर्णयहेतुः अस्मि
अर्थः
[सम्पादयतु]हे अर्जुन! अहमेव कृत्स्नानां सृष्टीणां मूलः स्थितिः लयः च अस्मि। अहं विद्यासु अध्यात्मविद्या अर्थात् आत्मज्ञानं अस्मि तथैव वक्तृद्वारा वादः जल्पः वितण्डा च इति प्रयुक्तानां एषां त्रिप्रकाराणां वदनभेदानां अर्थनिर्णयहेतुः वादः अस्मि अहम्।