सर्वधर्मान्परित्यज्य...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
- अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षट्षष्टितमः(६६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ॥१८.६६॥
अन्वयः
[सम्पादयतु]सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ।
शब्दार्थः
[सम्पादयतु]- सर्वधर्मान् = सकलकर्माणि
- परित्यज्य = विसृज्य
- शरणम् = आश्रयम्
- व्रज = गच्छ
- त्वा = त्वाम्
- सर्वपापेभ्यः = सकलकिल्बिषेभ्यः
- मोक्षयिष्यामि = विमोचयिष्यामि ।
अर्थः
[सम्पादयतु]अर्जुन ! तस्मात् त्वं सर्वाणि कर्माणि परित्यज्य मां शरणं प्राप्नुहि । अहं त्वां कर्मत्यागजन्यात् सर्वस्मात् अपि पापात् विमोचयिष्यामि । शोकं मा कुरु ।