सामग्री पर जाएँ

सवाई माधोपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सवायीमाधोपुरमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
सवाई माधोपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये सवाई माधोपुरमण्डलम्
राजस्थानराज्ये सवाई माधोपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थानम्
Area
  Total १०,५२७ km
Population
 (२०११)
  Total १३,३८,११४
Website http://sawaimadhopur.nic.in

सवाई माधोपुरमण्डलं (हिन्दी: सवाई माधोपुर जिला, आङ्ग्ल: Sawai Madhopur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सवाई माधोपुरम् इत्येतन्नगरम् ।

भौगोलिकम्

[सम्पादयतु]

सवाई माधोपुरमण्डलस्य विस्तारः १०५२७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे टोङ्कमण्डलम्, उत्तरे दौसामण्डलं, दक्षिणे कोटामण्डलम् अस्ति । अस्मिन् मण्डले चम्बल इत्येषा एका एव नदी प्रवहति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं सवाई माधोपुरमण्डलस्य जनसङ्ख्या १,३३८,११४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.७९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९४ अस्ति । अत्र साक्षरता ६६.१९ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि -

  • सवाई माधोपुरम्
  • चौत का बडवारा
  • गङ्गापुर सिटी
  • खानदार
  • बौनली
  • मलरना डुङ्गर
  • वझीरपुरम्
  • बमनवास

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • रणथम्बोर राष्ट्रियोद्यानम्
  • रामेश्वरमन्दिरम्
  • रणथम्बोर किला
  • अन्नपूर्णामन्दिरम्
  • बत्तीस खम्बे

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सवाई_माधोपुरमण्डलम्&oldid=464762" इत्यस्माद् प्रतिप्राप्तम्