सामाजिकमाध्यमानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अन्तर्जालस्य आविष्कारेण विषयवैविध्यस्य महान् प्रवाहः एव परिदृश्यते । एकमुखप्रवाहः अपर्याप्तः इत्यतः अधुना सम्भाषणचर्चादयः द्विमुखप्रवाहः आरब्धः अस्ति । न केवलम् एतावत्, अन्तर्जाले प्रत्येकस्य वैयक्तिकाभिज्ञानं स्वाभिप्रायाभिव्यक्तेः अवसराः अपि उपलभ्यन्ते ।

अद्यत्वे सामाजिकमाध्यमम् अन्तर्जालग्राहकाणाम् आवश्यकतामात्रं न अपि च समग्रस्य समाजस्य अभिप्रायरूपणे, सर्वकारस्य जीवितावधेः निर्णायकरणे अपि महत्त्वभूतं पात्रं निर्वहति । सद्यः जातस्य ईजिप्ट्क्रान्तिः इदं द्रढीकरोति । एतानि सामाजिकमाध्यमानि कानि इति अत्र किञ्चित् विव्रियते ।

सामाजिकमाध्यमानि नाम अन्तर्जालस्थानानि यत्र जनाः विषयविवरणानि प्राप्नुयुः स्वाभिप्रायाणां संविभागं कुर्युः च । प्रत्येकं जालस्थानञ्च विभिन्नविधानि सौलभ्यानि कल्पयन्ति इत्यतः तेषां व्याख्यानं समानतया कर्तुं न शक्यते । उदाहरणार्थं मुखपुस्तिका (फेस्बुक्), ब्लागर्, विकिपीडिया इत्यादीनि सर्वाणि सामाजिकमाध्यमजालस्थानानि एव । मुखपुस्तिकायां व्यक्तिः स्वस्य व्यक्तिपरिचयं विलिख्य सुहृदः योजयितुं नूतनसुहृदान् अन्वेष्टुञ्च च अर्हति, स्वस्य विषयं कथयितुं, दृश्यानि निवेशयितुं च अर्हति । ’ब्लागर्’मध्ये स्वरचिताः काथाः, लेखनानि, पद्यानि च निवेशयितुं, श्रव्यनि दृश्यानि संयोजयितुं, चर्चयितुञ्च च शक्यते । किन्तु विकिपीडियायां तु जागतिकस्तरे उपयुक्ताः विषयाः योजयितुं शक्याः, अन्यैः योजिताः विषयाः विस्तारयितुं शक्याः च ।

सामाजिकसम्पर्काणां वर्धनं, लेखनानां प्रकाशनं, विषयवर्धनं, परस्परं चर्चाकरणम् इत्यादीनि सामाजिकसंवहनानि अत्र साध्यानि इत्यतः सामाजिकमाध्यमानि सामाजिकसंवहनसाधनानि इति कथयितुं शक्यम् । वार्तामाध्यमानि सामाजिकमाध्यमानि च भिद्यन्ते । पत्रिका, आकाशवाणी, दूरदर्शनम् इत्यादीनि प्रसिद्धानि वार्तामाध्यमानि एकमुखविषयप्रसारसाधनानि । किन्तु सामाजिकमाध्यमस्थानेषु यःकोपि स्वाभिप्रायं सङ्कोचं विना अभिव्यञ्जयितुम् अर्हति ।

जागतिकस्तरे प्रसिद्धानि फेस्बुक्, ट्विट्टर्, सद्यःकालीनं गूगल्प्लस् नामकानि सामाजिकस्थानानि विहाय अन्यानि सेवास्थानानि विद्यन्ते । ’फ्लिक्स्टर्’ इत्येतस्मिन् स्थाने अन्यैः ग्राहकैः प्रदत्तान् प्राशस्त्याङ्कान् दृष्ट्वा स्वेन दर्शनीयानि चित्राणि निर्णेतुम् अर्हति कश्चित् ।

प्रकाराः[सम्पादयतु]

सामाजिकमाध्यमानां केचन प्रकाराः अत्र उदाह्रियन्ते –

  • ब्लागिङ्ग् – सामाजिकमाध्यमेषु ब्लागिङ्ग् इत्येतत् महत्त्वपूर्णं स्थानं वहति । अन्तर्जाले विषयाणां प्रस्तुतीकरणं ’वेब्लागिङ्ग्’ अथवा ’ब्लागिङ्ग्’ इति कथ्यते । इदम् अन्तर्जालपत्रिका, दिनचर्या इति वा निर्देष्टुं शक्या । यःकोपि विना शुल्कं स्वीयाम् अन्तर्जालपत्रिकाम् संरचय्य तस्यां स्वीयं विचारं, सर्जनात्मकाः लेखाः, भावचित्राणि, दृश्यानि च योजयितुम् अर्हति । ’ब्लाग् पोस्टर्’ इति कथ्यमानानि एतानि आसक्ताः येकेऽपि पठितुं प्रतिस्पन्दं दर्शयितुं, सामाजिकस्थानेषु च संविभक्तुं च अर्हन्ति । ’वर्डप्रेस्’, ’ब्लागर्’, ’कन्नडसम्पद’ इत्यादीनि स्थानानि ब्लागिङ्ग्-सेवां कल्पयन्ति ।
  • मैक्रोब्लागिङ्ग् – अद्यत्वे जगत्प्रसिद्धमस्ति मैक्रोब्लागिङ्ग् । ब्लागिङ्ग्स्थानेषु लेखनस्य परिमितिः नास्ति । किन्तु अत्र कैश्चिदेव अक्षरैः (उदाहरणार्थं ’ट्विट्टर्’इत्यत्र १४० अक्षरैरेव लेखनीयम्) लेखनीयं भवति । नूतनम् आविष्कारांशं जगति अनुपदं वार्ताविषयत्वेन घोषयितुम् अस्य उपयोगः क्रियते । फेस्बुक्, टम्ब्लर्, गूगल्-प्लस् इत्येतेषु स्थानेषु च मैक्रोब्लागिङ्ग् कर्तुं शक्यम् । अद्यत्वे ट्विट्टर् इत्येतस्य उपयोगः अभिनेतारः, क्रीडाताराः, वार्तामाध्यमानि, वृत्तिपरव्यक्तयः, विद्यार्थिनः, उद्यमसंस्थाः, सामाजिकसंस्थाः इत्यादिभिः व्यापकरूपेण क्रियते ।
  • सामाजिकसम्पर्कस्थानानि – सामाजिकसम्पर्कस्थानानि युवजनैः, उद्योगिभिः, उद्यमैश्च नितराम् उपयुज्यमानानि अति प्रसिद्धानि च सन्ति । ऐतेषु स्वस्य व्यक्तिविवरणम् आरचयितुं , सुहृदः प्राप्तुं, नूतनान् गणान् च निर्मातुं, नूतनेषु गणेषु आत्मानं योजयितुं च शक्यम् । न केवलम् एतावत् वार्ताः ज्ञातुं, मनोरञ्जनसूचनाः प्रसारयितुं, प्रतिस्पन्दान् प्रतिक्रियाश्च प्राप्तुं च शक्यम् । अस्य उदाहरणानि सन्ति – फेस्बुक्, आर्कुट्, गूगल् प्लस्, हैफै इत्यादीनि । प्रत्येकः अपि स्वस्य देश-भाषा-ग्राम-आसक्तीः च अधिकृत्य स्वीयं सामाजितसम्पर्कस्थानानि, गणान् च रचयितुम् अर्हति ।
  • सामाजिकोल्लेखार्हस्थानानि (बुक्मार्किङ्ग्) – ऐतेषु स्थानेषु अस्माभिः बहुधा उपयुज्यमानानि इष्टानि अन्यानि स्थानानि उल्लेखितुम् अर्हति । स्वस्य आसक्तेः अनुसारम् उल्लिखितानि स्थानानि वीक्षितुम् अर्हति । उदा - Del.icio.us, Blinklist, Simpy इत्यादयः ।
  • सामाजिकवार्तास्थानानि – एषु वार्ताः लेखनानि च पठितुं शक्यते । तेषां विषये मतदानाय स्वाभिप्रायकथनाय चर्चाकरणाय च अवसराः विद्यन्ते । उदा - Digg, Propeller, Reddit इत्यादयः ।
  • सामाजिकभावचित्रदृश्यसंविभागः – एषु स्थानेषु भावचित्राणि दृश्यं च निवेश्य विश्वे आसक्तैः सुहृद्भिः सह संविभक्तुं शक्यम् । उदा – फ्लिक्सर्, पिकासावेब् इत्यादयः प्रसिद्धाः ।
  • उद्योगव्यवहाराश्च – सामाजिकमाध्यमेषु उद्योगानाम् उद्योगाकांक्षिणां च अन्वेषणं सुलभसाध्यमस्ति । अल्पकालीनानां गृहे कर्तुं योग्यानां च उद्योगानां च अन्वेषणम् एतेषां सामाजिकमाध्यमानां साहाय्येन सुलभसाध्यं जातमस्ति । उद्योगाकांक्षिणां वृत्तिनिरतानाञ्च परस्परसम्पर्कवर्धनाय चर्चायै च ब्राञ्चौट्, लिङ्कडिन् इत्यादीनि स्थानानि साहायकानि भवन्ति । लघ्वुद्यमानाम् आरम्भकर्तॄणां स्वस्य उद्यमविषये आवश्यकानि विवरणानि प्राप्तुम्, आत्मना दीयमानानां सौलभ्यानां विषये च ज्ञापयितुं प्रचारं कर्तुं च अत्र सुलभाः निश्शुल्काः अवसराः उपलभ्यन्ते ।

एवं येषु स्थानेषु ग्राहकानां संवहनं शक्यं तानि सर्वाणि सामाजिकमाध्यमस्थानानि इति निर्दिश्यन्ते । सामाजिकमाध्यमानां परिचयः उपयोगश्च अधुनातने जीवने अत्यगत्यं वर्तते । तेषां विवेकपूर्णः उपयोगः च अनिवार्यः वर्तते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सामाजिकमाध्यमानि&oldid=481081" इत्यस्माद् प्रतिप्राप्तम्