सारस्वत-निकेतनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सारस्वतनिकेतनम् इत्येतत् संस्कृतसम्बद्धं जालपुटं वर्तते ।

उद्देश्यम्[सम्पादयतु]

इयं संस्कृतगङ्गा पुरा कदाचित् इह भारते अजस्रं प्रवहन्ती पुनरपि लोकहिताय देवलोकात् अवतारणीया इति धिया एव अयं प्रयासः। इदं (सारस्वत-निकेतनम् इत्याख्यम् जालपुटं संस्कृत-प्रेमिभि: संस्कृत-प्रेम्णा संस्कृत-प्रेमिणां कृते निर्मितम्। अत: यदि भवति संस्कृत-प्रेम अस्ति तर्हि इदं भवत: कृते एव। संस्कृत-प्रेम-मात्रम् अपेक्षते न तु पाण्डित्यं । आयान्तु, वत्सा: इव संस्कृतकपिलां प्रति पुनरपि उन्मुखा: भवाम। तदैव वयं भारतीया: संस्कृत-मातु: दिव्येन पयसा पुन: पुष्टा: भारतं परम-वैभवं प्रापयन्त: विश्व-कल्याणं साधयिष्याम:। जालपुटेऽस्मिन् सर्वे संस्कृत-प्रेमिण: एकत्रीभविष्यन्ति। संस्कृत-गीतानि, संस्कृत-नाटकानि, संस्कृत-साहित्यं, चर्चा:,संस्कृत-लेखनं, पठनं, तथा च यद् यद् वयं चिन्तयितुं शक्नुम: तत् तद् अत्र मिलित्वा कर्तुं शक्येत इति एव अस्माकं दृष्टि: अस्ति। सर्वेऽपि अस्य जालपुटस्य माध्यमेन सोत्साहं संस्कृत-संवर्धनाय कार्यरता: भविष्यन्ति इति विश्वासेन इदम् आह्नवानम्। सारस्वत-निकेतनम् इत्यस्यान्तर्गतविविधजालपुटानाम् अन्वितिः अस्ति। प्रकारान्तरेण इदं सारस्वत-निकेतनम् इत्याख्यं जालपुटं केन्द्रीयजालपुटरूपे विद्यते। येषाम् अन्वितिः संजाता ते सन्ति- संस्कृतम् (ब्लाग), जाह्नवी (Sanskrit Online Journal) , अभिव्यक्ति मंजरी (गूगलसमूहरूपे), अपन श्रोत्रियसमाज (भारतीय संस्कृतिद्योतकः)।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सारस्वत-निकेतनम्&oldid=481848" इत्यस्माद् प्रतिप्राप्तम्