सावनदुर्गम्
सवनगदुर्गः | |
---|---|
ग्रामः | |
सवनगदुर्गः उत्तर दिशितः | |
देशः | भारतम् |
राज्यम् | कर्णाटकम् |
भाषाः | |
• अधिकृताः | कन्नड |
Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
बेङ्गळूरु भारतदेशस्य कर्णाटकराज्यस्य राजधानी । सावनदुर्गं बेङ्गळूरुनगरस्य पश्चिमस्यां दिशि वर्तमानस्य मागडिमार्गस्य पुरतः स्थितः कश्चन शैलः अस्ति । सः शैलः तस्योपरि वर्तमानेन देवस्थानेन प्रसिद्धः जातः अस्ति । तत् दुर्गं अस्मिन् जगति वर्तमानेषु एकशिलापर्वतेषु बृहत्तमम् अस्ति । एतत् समुद्रसमतलात् १२२६ मीटर् औन्नत्ये अस्ति । दक्षिणप्रस्थभूमेः केनचित् भागरुपेण तिष्ठति एषः प्रदेशः । समीपे अर्कावतीनदी तिप्पेगोण्डनहळ्ळीजलाशयद्वारा मञ्नबेलेजलबन्धं प्रति प्रवहति ।
नामोत्पत्तिः
[सम्पादयतु]स्तानिकजनैः कृष्णगिरिः (कप्पुबेट्ट) श्वेतगिरिः (बिळिबेट्ट) इति उच्यमानाभ्यां गिरिभ्यां सावनदुर्गं साकारभूतम् अस्ति । अस्य गिरेः विषये प्रथमाभिलेखः क्रि.श. १३४० तमे वर्षे माडबलुप्रदेशस्य तृतीयस्य बल्लाळस्य अवधौ दृश्यते । यत्र एतत् ‘सावण्डि’ इत्युच्यते । नामधेयमिदम् अच्युतरायाधीनस्य मागडिप्रदेशस्य गवर्नर् –सामन्तरायसम्बद्धम् इति कथ्यते । सामन्तदुर्गात् सावन्तदुर्गशब्दस्य व्युत्पत्तिः अभवत् इति चिन्तनम् अस्ति । तथापि एतस्य दृढीकरणार्थं प्रमाणं किमपि नास्ति । एतत् मागडिराजानां द्वितीया राजधानी आसीत् ।१६३८ तः १७२८ पर्यन्तं मैसूरुराज्यस्य वशे आसीत् । सेनापतिः देवराजः पर्वतस्य अधोभागे प्रासादं निर्माय न्यवसत् । १७१२ तमे वर्षे लार्ड कार्नवालिस् महशयः तृतीये आङ्ग्लो –मैसूरु युध्दावसरे टिप्पुसुल्तानात् इदं वशीकृतवान् । राबर्ट होम्स् स्वस्य सिलेक्ट व्यूस् इन् मैसूरु (Select views in Mysore) नामके ग्रन्थे (१७१४) अस्य पर्वतस्य दृश्यानि दूरे स्थितात् बेङ्गलूरु नगरात् दर्शयति । सः एतत् साविन दुर्ग (मृत्युदुर्गम्) अथवा फोर्ट् आफ् डेथ् (Fort of Death) इत्यवदत् । अस्य पर्वतस्य शिखरं प्राप्तुं सोपानानि न आसन् । एतत् परितः वंशवृक्षाः सर्वतः आवृताः आसन् । एतेन कश्चन अवरोधः निर्मितः आसीत् । अस्मिन् प्रदेशे महाशिलायाः निखातानि शवस्मारकाणि प्राप्तानि सन्ति । संस्कृते “ सावण” इत्युक्ते त्रिवारं क्रियमाणं विधिविहितकर्म इत्यर्थः ।
प्रवासोद्यमः
[सम्पादयतु]मञ्चनबेलेजलशयात् दृश्यमानान् सावनदुर्गशैलान् प्रति यात्रार्थिनः तदा तदा आगच्छन्तः भवन्ति । एते पर्वतमूले स्थितं वीरभद्रेश्वरस्वामिदेवस्थानं प्रति तथा नरसिंहस्वामिदेवस्थानं प्रति सन्दर्शनार्थम् आगच्छन्ति । विहारेच्छुकाः प्रवासिनः पर्वतस्य निर्मले प्रशान्ते परिसरे कालं हर्तुम् आगच्छन्ति । शिलरोहिणः गुहान्वेषकाः साहसिनः च एतत् स्थलम् आगच्छत्सु अन्यतमाः ।
लोकयानमार्गः
[सम्पादयतु]बेङ्गळूरुनगरस्य मेजेस्टिक्लोकयानस्थानकात् मागडिमार्गेण गच्छन्ति यानानि आरोढव्यानि । इदं लोकयानं प्रायेण अस्मान् नगरपरिधौ एव मागडिमार्गे स्थितं किञ्चित् निर्दिष्टं स्थलं प्रापयति । ततः अस्माभिः मागडिसन्धिस्थानं(Junction) प्रति अन्यत् लोकयानम् आरोधव्यम् । ततः सावनदुर्गं प्रति गन्तुं वामभागे १२ कि.मी. दूरे अस्ति होसपेटेगेट् । ततः सावनदुर्गम् आगन्तुं KSRTC अथवा अन्य सर्वकारीयेतरलोकयानानि लभ्यन्ते । बेङ्गळूरुतः सावनदुर्गं गन्तुं आहत्य सपाद- द्विघण्टाः आवश्यकाः । यदि लोकयानं न लभ्यते तर्हि १२ कि.मी. दूरमिदं त्रिचक्रिकया अपि गन्तुम् अर्हन्ति । डेविड् लीन् महोदयस्य (A passage to India) नाम चलनचित्रस्य निर्माणे रामनगरेण सह उपयुक्तः अन्यः प्रदेशः नाम सावनदुर्गम् ।
प्रणिसङ्कुलम्
[सम्पादयतु]विनाशस्य सीमायां वर्तमानानां पीतकण्ठवतां बुलबुल् पक्षिणां आश्रयाः भवन्ति एते शैलाः । पूर्वम् एते पर्वताः दीर्घचञ्चूपेतगृध्राणां तथा श्रेतपृष्ठगृध्राणाम् आश्रयस्थानानि आसन् । अत्र वर्तमानाः अन्ये जीविनः नाम स्लात् भल्लूकाः चित्रकाः च ।
सस्य सम्पत्तिः
[सम्पादयतु]एतं प्रदेशं परितः गुल्मयुक्तं वनम् अस्ति । वर्षे सकृत् एव पर्णानि पातयद्भिः वृक्षैः २७ च.कि.मी विस्तीर्णोपपेतः प्रदेशः व्याप्तः अस्ति । आनोजैसस् –क्लोरोक्सिलान् -अकेशियाजातीनां गुल्मैः तथा शाद्वलम् इति परिगण्यमानेन वृक्षैः अयं प्रदेशः विविधतावैशिष्ट्यसम्पन्नः अस्ति । अवनतिं प्राप्तमिदं वनं प्रायेण ५९ वृक्षजातिभिः तथा ११९ गुल्मजातिभिः युक्तम् अस्ति ।