सिद्धेश्वरः चट्टोपाध्यायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
सिद्धेश्वरः चट्टोपाध्यायः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः धरित्रीपतिनिर्वाचनम्, अथकिम्, ननाविताडनम्, स्वर्गीय-हसनम्

सिद्धेश्वरः चट्टोपाध्यायः पूर्ववङ्गे १९१८ ई० वर्षे जातः । अध्यापनकर्मणि संलग्नोऽयं वर्धमान-विश्वविद्यालयसंस्कृतविभागाध्यक्षः प्राध्यापकपदमलंकृतवान् । आङ्ग्ल-बंगला-संस्कृत-भाषासु बहवो निबंधा अनेन रचिताः । नाटकलक्षणरत्नकोशम् अधिकृत्यास्य प्रबन्धः सुप्रथितः । तस्य संस्कृतेन चत्वारि रूपकाणि विरचितानि प्रसिद्धिङ्गतानि ।

धरित्रीपतिनिर्वाचनम्[सम्पादयतु]

१९६९ ई० वर्षे रचितमिदं रूपकं कोलकाता-नगर्यायाः संस्कृत-साहित्य-परिषदा १९७१ ई० वर्षे प्रकाशितम् । तदनुसारं काल्पनिकं कथावस्तु प्रवर्तते -

भवपान्थशालायामीश्वरः कर्णयोः कर्पासं निधाय वधिरयति । विश्वकर्मा तस्य कर्णप्रदाहनिवारणाय गुडसुधालेपं करोति । ईश्वरस्य कन्या धरित्री विवाहयोग्या विद्यते । तस्याः पत्युर्निर्वाचनाय स्वयंवरार्थिनां सभा सज्जिता । तत्र ते परस्परं कलहायन्ते । व्यंग्यगर्भाया अस्या नाटिकाया निहितार्थः अनायासं परिचेयः । अत्र नान्दी-प्रस्तावनाभरतवानां प्रयोगो विहितः । तथापि लेखकानुसारमत्र आधुनिकी नाट्यरीतिराश्रिता।

अथकिम्[सम्पादयतु]

आधुनिकीं नाट्यरीतिम् अनुसृत्य रचिता द्वितीयेयं नाटिका चट्टोपाध्यायस्य विद्यते । आशाकमलयोः कलकलेन प्रथमदृश्यं प्रवर्तते । तदनु खडग-गण्डक-घनक-ङकाराणां मध्ये निर्वाचनमधिकृत्य विवादो भवति । अत्राधिकपात्राणां सम्मर्दः रंगपीठे नोचितः ।

ननाविताडनम्[सम्पादयतु]

अस्मिन् प्रहसने सूत्रधारो रंगं प्रविश्य आह - अभिनयो न भविष्यतीति । सामाजिकाः तम् अभिनयाय प्रेरयन्ति । सूत्रधारस्तान् आहूय मञ्चे विवादं प्रवर्तयति । सूत्रधारः कथयति — नना मे अधुनापि न मृता, परं मरिष्यत्येव । एतदर्थं स्वस्ववैद्यानानेतुं पण्डित-शिक्षक-तरुणाः गच्छन्ति । तदनु नना उत्तरा पूरवी विदेशिनी च प्रविशन्ति । सुत्रधारो निर्गच्छति | ननाया दायमधिकृत्य द्वयोः पक्षयोर्विवादो जायते । ततश्च स्वकुम्भ-भकुम्भ-वसुकुम्भनामानो वैद्यास्तां परीक्षितुं समायान्ति । अनन्तरं तां मृतामाकलय्य सर्वे अन्त्येष्टिविषये परामृशन्ति । तदानीमेव नना उत्तिष्ठति । तां प्रेताविष्टां मत्वा वैद्याः पलायन्ते ।

स्वर्गीय-हसनम्[सम्पादयतु]

रवीन्द्रनाथस्य स्वर्गीय-प्रहसनम् अनुकृत्य चट्टोपाध्यायेन यथानामेदं प्रहसनं रचितम् । सूत्रधारो ब्रूते -

स्वर्गे लोके वसतिमधुना राजनीतिरवाप्ता।

मत्ता देवाः सतत-कलहे कुत्र नाट्यावकाशः।।

अत्र स्वर्गे राजनीतिः कथं खेलतीति प्रदर्शितम् । बृहस्पतिर्देवराजो भवितुमिच्छति । अशोकाकबरौ मन्त्रिपदं वाञ्छतः । विविधहास्यमयसंवादैः संविधानैश्च देवलोकस्थानि पात्राणि आनन्दयन्ति रसिकान् । निर्वहणे वैतालिको गायति -

जयतु जयतु देवराजो जयतु जन कल्याणकारि।

ध्वस्तो भेदः स्वर्गनरकयोर्लब्धा सहायता धुन्धपुङ्गयोः।।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

अशोकः

संस्कृतम्

उद्धरणम्[सम्पादयतु]