सुकन्यासमृद्धिलेखायोजना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
सुकन्यासमृद्धिलेखायोजना
सुकन्या समृद्धि लेखा योजना
देशः भारतम्
प्रधानमन्त्री नरेन्द्र मोदी
मन्त्रालयः महिलाबालविकासमन्त्रालयः, स्वास्थ्यपरिवारकल्याणमन्त्रालयः, मानवसंसाधनविकासमन्त्रालयः इत्येतेषां मन्त्रालयानां संयुक्ताभियानम्
उद्घोषणा  22, 2015; 4 years ago (2015-01-22)
जालस्थानम् betibachaobetipadhao
सक्रियताज्ञानम्: सक्रियम्

सुकन्यासमृद्धिलेखायोजना भारतसर्वकारस्य पुत्री रक्ष्यतां पुत्री पाठ्यताम् इत्येतस्याः योजनायाः अन्तर्गतातया वर्तते [१]। यतो हि पुत्री रक्ष्यतां पुत्री पाठ्यताम् इत्यस्याः योजनायाः उद्देशः न केवलं भ्रूणहत्यानिवारणम् अस्ति, अपि तु कन्यासशक्तिकरणम् अपि विद्यते। महिलानां सामाजिकतया, आर्थिकरीत्या च सशक्तिकरणं कर्तुम् एषा योजना वर्तते। गृहसत्यापने रता महिला गृहधनसंरक्षणम् अपि चापल्येन करोति। २००८ तमस्य वर्षस्य GDP इत्यस्मिन् तत् गृहधनसंरक्षणम् ३८% आसीत्, परन्तु २०१३ केवलं ३०% एव अभवत् [२] [३] [४]। एतस्याः योजनायाः माध्यमेन पितरौ गृहधनसंरक्षणकार्याय प्रोत्सहिष्येते। एतस्याः योजनायाः अन्तर्गततया एकस्याः बालिकायाः केवलम् एका एव लेखा उद्घाटयितुं शक्यते। एकः अभिभावकः एतस्यां योजनायां द्वयोः कन्ययोः कृते एव लेखाम् उद्घाटयितुं पारयति। केभ्यश्चन अपवादेभ्यः नियमाः निर्धारिताः सन्ति।

योजनायाम् अन्तर्भूतानां लेखानां व्याजप्रतिशतम् अधिकं भवति [५]

नियमाः[सम्पादयतु]

  • पितरौ उत अभिभावकः अधिकतमं द्वयोः कन्ययोः कृते एतस्याः योजनायाः अन्तर्गततया लेखाम् उद्घायितुं शक्नोति। यदि द्वितीये प्रसवे अपत्ययुगलस्य उत अपत्यत्रयस्य जन्म भवति, तर्हि अधिकृतचिकित्सालयस्य प्रमाणपत्राधारेण तासां कन्यानाम् अपि लेखाम् उद्घाटयितुं शक्नोति।
  • जन्मतः दशवर्षीयानां बालिकानां योजनायाः अन्तर्गततया लेखोद्घाटनं शक्यते। एतस्याः सुविधायाः लाभम् अधिकाधिकाः जनाः स्वीकर्तुं शक्नुयादित्युद्देश्याय २ दिसम्बर २००३ दिनाङ्कात्, १ दिसम्बर २००४ दिनाङ्कं यावत् याः बालिकाः जन्म प्राप्तवत्यः, तासाम् अपि लेखा दिसम्बर २०१५ पर्यन्तम् उद्घाटयितुं शक्यते इति निर्धारितम्।
  • सुकन्यासमृद्धियोजनायां कन्यायाः नाम्ना लेखा भविष्यति। धनस्थापकः (अभिभावकः, पितरौ वा) तस्याः अल्पवयस्कायाः कन्यायाः लेखायां धनं स्थापियितुं शक्नोति। दशवर्षस्य वयसः जाते सति कन्या तस्याः लेखायाः उत्तरदायित्वं स्वयं वोढुं शक्नोति।
  • सुकन्यासमृद्धियोजनायाः अन्तर्गततया लेखा पत्रालयेषु, अधिकृतकोषागारेषु च उद्घाटयितुं शक्यते। अधिकृतकोषागारेषु एतानि नामानि प्रमुखानि सन्ति। यथा - भारतीय स्टेट बैंक, बैंक ऑफ बड़ौदा, पंजाब नेशनल बैंक, बैंक ऑफ इंडिया, कैनरा बैंक, आंध्रा बैंक, यूसीओ बैंक, इलाहाबाद बैंक च।
  • बालिका कदाचित् नगरपरिवर्तनम् उत राज्यपरिवर्तनं करोति, तदा भारते कुत्रापि लेखायाः स्थानान्तरणं शक्यते।
  • प्रतिवर्षं न्यूनातिन्यूनम् एकसहस्रं रूप्यकाणि लेखायां स्थापनीयानि। एकस्मिन् वित्तवर्षे अधिकाधिकं लेखायां १,५०,००० रूप्यकाणि स्थापयितुं शक्यन्ते। एकस्मिन् वित्तवर्षे यदा कदापि स्वेच्छया धनं स्थापयितुं शक्यते। तद्धनं नाणकरूपेण, चेक-माध्यमेन, ड्राफ्ट-द्वारा वा लेखायां स्थापियितुं शक्यते।
  • यदि एकस्मिन् वित्तवर्षे लेखायां १००० रूप्यकाणि न स्थापितानि, तर्हि प्रतिवर्षं ५० रूप्यकाणाम् अर्थदण्डः भविष्यति।
  • व्याजधनस्य प्रतिशतं प्रतिवर्षं परिवर्तनशीलम् अस्ति [६]। तस्य व्याजधनस्य प्रतिशतं प्रत्येकवर्षस्य अप्रैलमासे ज्ञातुं शक्यते। व्याजधनस्य गणना वर्षानुगुणं भविष्यति, तद्धनं साक्षात् लेखायां स्थापितं भविष्यति।
  • बालिका यावत् १४ वर्षीया भवति, तावता एव अभिभावकेन उत पितृभ्यां लेखायां धनं स्थापनीयम्। ततः लेखायां धनं स्थापयितुम् आवश्यकता न भविष्यति।
  • बालिकायाः १८ वयसि प्राप्ते सति अपक्वलेखायाः धनं निष्कासनीयं चेत्, स्थापितस्य धनस्य (पूर्ववित्तवर्षे स्थापिता धनराशिः) अर्धं धनं निष्कासयितुं शक्यते। तद्धनं कराधाननियमेषु नान्तर्भवति। बालिका यदा एकविंशा वर्षीया भवति, तदा लेखा पक्वा इति मन्यते। ततः सम्पूर्णं धनं स्वीकर्तुं शक्यते। परन्तु तदनन्तरम् अपि तस्यां लेखायां धनं स्थापितं चेत्, वर्षानुगुणं व्याजः प्राप्स्यते। लेखापिधानस्य अन्तिमः अवधिः कन्यायाः विवाहं यावत् निर्धारितः। विवाहोत्तरं सा लेखा सुकन्यासमृद्धिलेखायोजनायाः बहिः मंस्यते [७] [८]। यदि बालिकायाः विवाहः एकविंशतेः वर्षेभ्यः प्रागेव भवति, तर्हि लेखायाः दायित्वं सा वोढुं न शक्नोति। विंशतेः वर्षेभ्यः पूर्वम् उत विवाहात्पूर्वं कन्यायाः मृत्यौ सति लेखायाः मूलधनराशिं, व्याजं च निष्कासयित्वा लेखां पिधानं कर्तुं शक्नोति अभिभावकः।
  • आयकरस्य ८० तमायाः धारायाः अधिनियमानुसारम् एतस्यां लेखायां स्थापितं धनं कराधाननियमेभ्यः मुक्तम् अस्ति। प्रतिवित्तवर्षं १,५०,००० रूप्यकाणि एव कराधाननियमेभ्यः मुक्तानि। व्याजधनराशिः, पक्वधनराशिः च कराधाननियमेभ्यः मुक्ता वर्तते।

लेखायै प्रपत्राणि[सम्पादयतु]

सुकन्यासमृद्धिलेखायोजनायां लेखाम् उद्घायितुं पत्रालयाधिकारिणे उत वित्तकोषाधिकारिणे आवश्यकानि प्रमाणपत्राणि, निश्चितेन प्रपत्रेण सह दातव्यानि।

१) बालिकायाः जन्मप्रमाणपत्रम्

२) अभिभावकस्य पेन-पत्रम्

३) अभिभावकस्य चित्रसहितं निवासप्रमाणपत्रम् (आधारपत्रं, पारपत्रम्)

४) अभिभावकस्य, बालिकायाः च त्रीणि चित्राणि

उक्तानि सर्वाणि पत्राणि अनेन पत्रेण सह योजयित्वा अधिकारिणे दातव्यानि।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]