भारते निर्मीयन्ताम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
भारते निर्मीयन्ताम्
Make in India
Make In India.png
भारते निर्मीयन्ताम् इत्यस्य प्रकल्पस्य प्रतीकः गिर-वनस्य सिंहः
दिनाङ्कः २५/०९/२०१४
स्थलम् नवदेहली, भारतम्
अनुष्ठातारः नरेन्द्र मोदी
भारतसर्वकारः
जालस्थानम् अधिकृतजालस्थानम्
क्रयणशक्तेः बाहुल्यम् अर्थात् अधिकाजीविका....

भारते निर्मीयन्ताम् ( /ˈbhɑːrətɛ nɪmjəntɑːm/) (हिन्दी: मेक इन इंडिया, आङ्ग्ल: Make in India) उत मेक् इन् इण्डिया इति कश्चन प्रकल्पः वर्तते । भारतसर्वकारस्य सुतरां महत्त्वपूर्णस्य प्रकल्पस्यास्य आरम्भः २०१४ तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे (२५/०९/२०१४) दिनाङ्के अभवत् [१] । समग्राभियानस्य मूलप्रेरणास्रोतः पण्डितः दीनदलायः उपाध्यायः अस्ति । भारते निर्मीयन्ताम् इत्याकारकस्य प्रकल्पस्य आरम्भं कुर्वन् श्रीनरेन्द्रः अवदत्,

जनसामान्यस्य क्रयणशक्तौ वृद्धिः आवश्यकी । यतः तेन अभ्यर्थनायां वृद्धिः भविष्यति । अभ्यर्थनायां वृद्धौ सत्यां विकासः वेगवान् भविष्यति । निर्धनाः जनाः यावच्छीघ्रं मध्यमवर्गे अन्तर्भविष्यन्ति, तावच्छीघ्रं वैश्विकव्यवसायस्य नवीनाः अवसराः समुत्पत्स्यन्ते । सर्वेषाम् आवश्यकता अल्पमूल्यस्य निर्माणस्य, मनसेप्सितक्रयणस्य च अस्ति । क्रयणशक्तेः बाहुल्यम् अर्थात् अधिकाजीविका इति ।

इतिहासः[सम्पादयतु]

२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८२०१४) दिनाङ्के (स्वातन्त्र्योत्सवपर्वणि) स्वस्य भाषणे श्रीनरेन्द्रः अघोषयत्, शीघ्रं हि वयं मेक् इन् इण्डिया इत्याकारकस्य प्रकल्पस्य आरम्भं करिष्यामः इति । तस्याः घोषणायाः एकमासानन्तरमेव २०१४ तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे (२५/९/२०१४) दिनाङ्के देहली-महानगरस्थिते विज्ञानभवने श्रीनरेन्द्रेण प्रकल्पस्यास्य घोषणा कृता । २०१४ तमस्य वर्षस्य दिसम्बर-मासस्य एकोनत्रिंशत्तमे (२९/१२/२०१४) दिनाङ्के प्रकल्पसम्बद्धायाः कार्यशालायाः आयोजनम् अभवत् । तस्याः कार्यशालायाः आयोजनं भारतसर्वकारस्य "औद्योगिकी नीतिः संवर्धनं च" इत्याख्यः विभागः (Department of Industrial Policy and Promotion) अकरोत् । तस्यां कार्यशालायां श्रीनरेन्द्रस्य आध्वर्यवे केन्द्रियमन्त्रिमण्डलं, सर्वेषां राज्यानां मुख्यमन्त्रिणः, अनेके उद्योगपतयः च भागं निरवहन् ।

क्षेत्राणि [२][सम्पादयतु]

क्षेत्राणां नामानि
  1. स्वयंप्रेरितवाहनम् - ऑटोमोबाइल्
  2. खाद्यनिर्माणम् - फूड् प्रोसेसिंग्
  3. अक्षय्या उर्जा
  4. स्वयंप्रेरितवाहनस्य साधनानि
  5. सूचनाप्रौद्योगिकी - आईटी,
    व्यावसायिकप्रक्रियाप्रबन्धनं - बीपीएम् च
  6. मार्गः, राजमार्गश्च
  7. वैमानिकव्यवहारः एविएशन्
  8. चर्मोद्योगः
  1. अन्तरिक्षम्
  2. जैवप्रौद्योगिकी
  3. प्रचारमाध्यमानि, मनोरञ्जनञ्च
  4. वस्त्रम्
  5. रासायणिकम्
  6. खननम्
  7. औष्ण्यबलम् - थर्मल पावर
  8. निर्माणम्
  1. तैलं, रासायणिकवायुः - गैस् च
  2. पर्यटनम्, आतिथ्यं च
  3. रक्षाविनिर्माणम्
  4. औषधिनिर्माणम् - फार्मास्यूटिकल्स्
  5. कल्याणम्
  6. वैद्युतयन्त्राणि इलेक्ट्रिकल् मशीनरी
  7. पोताश्रयाः
  8. वैद्युती प्रणाली
  9. रेल्-मार्गः

उक्तेषु सर्वेषु क्षेत्रेषु भारते निर्मीयन्ताम् इति प्रकल्पेन क्रान्तिः भूयात् इति आशा अस्ति । अनेन भारतस्य आर्थिकवृद्धेः, करराजस्वस्य (Tax revenue) च स्थितिः सुदृढा भविष्यति इत्यपि मन्यते । सामान्यतः विकासस्य कालक्रमेण सह पर्यावरणस्य स्थितिः अति दयनीया, अवहेलिता च भवति । परन्तु प्रकल्पेऽस्मिन् पर्यावरणसंरक्षणस्यापि प्रावधानम् अन्तर्भवति ।

उद्देश्यानि[सम्पादयतु]

१. आर्थिकवृद्धिः

२. विदेशिनिवेशकानां भारते निर्माणकार्यारम्भः

३. भारतीयनिवेशक्षेत्रे वृद्धिः

४. नूतनप्रौद्योगिकीनाम् आगमनम्

५. कौशलविकासस्य अवसराः

६. मध्यमावधेः तुलनायां विनिर्माणस्य क्षेत्रे १२-१४ प्रतिशतं वृद्धिः

७. भारते स्वदेशीयनिर्माणस्य सहभागिता २०२२ पर्यन्तं १६ तः २५ प्रतिशतं भवेत्

८. २०२२ पर्यन्तं भारते विनिम्राणक्षेत्रेण दशकोटिः नूतनाजीविकानां निर्माणम्

प्रोत्साहनात्मकम्[सम्पादयतु]

भारते निर्मीयन्ताम् इत्यस्मिन् प्रकल्पे सर्वे सुलभरीत्या निवेशं कर्तुं प्रभवेयुः इत्युद्देशेन भारतसर्वकारेण अनेके नवीननियमाः उद्घोषिताः । अधिकारपत्रस्य (Licence) निर्माणम् अन्तर्जालमाध्येन आरब्धम् । अधिकारपत्रस्य वैधतायाः समयसीमां वर्धयित्वा वर्षत्रयं निर्धारितम् । अनेके अन्ये नियमाः अपि निवेशकेभ्यः अनुकूलिताः भारतसर्वकारेण ।

२०१४ तमस्य वर्षस्य अगस्त-मासे भारतीयमन्त्रिपरिषदा प्रत्यक्षविदेशिनिवेशस्य (Foreign Direct Investment (FDI)) नियमेषु अनेकानि परिवर्तनानि कृतानि । रक्षाक्षेत्रे ४९ प्रतिशतं, रेल-मार्गक्षेत्रे १०० प्रतिशतं च प्रत्यक्षविदेशिनिवेशाय अनुमतिः प्रदत्ता ।

प्रतिक्रियाः[सम्पादयतु]

२०१५ तमस्य वर्षस्य जनवरी-मासे स्पाइस् इत्याख्या संस्था अकथयत्, सा स्वजङ्गमदूरभाषयन्त्रस्य निर्माणकार्याय एकस्याः कार्यशालायाः आरम्भम् उत्तरप्रदेशराज्येषु करिष्यति इति । तस्यै कार्यशालायै ५०० कोटिरूप्यकाणां निवेशं करिष्यति सा संस्था । सहमतिज्ञापकपत्रे (Memorandum of understanding)

PM Modi and PM Shinzo Abe witness the signing of the Varanasi-Kyoto Partner city affiliation MoU.jpg

हस्ताक्षरं कृत्वा पक्षद्वयेन अर्थात् स्पाइस्-संस्थया, उत्तरप्रदेशस्य सर्वकारेण च कार्यशालायाः निर्माणप्रक्रियायै कटिबद्धता प्रदर्शिता । [३]

२०१५ तमस्य वर्षस्य जनवरी-मासे सैम्सङ्ग-संस्थायाः प्रशासकः ह्युंगचिंग होंग कालराज मिश्र-महोदयश्च एम् एस् एम् ए इत्यस्य सहभागित्वं स्वीकृत्य १० "MSME-Samsung Technical"-शालानां भारते आरम्भविषयिणीं मीमांसां कर्तुम् अमिलताम् [४] । फरवरी-मासे सैमसङ्ग-संस्थायाः प्रतिनिधिः अवदत्, उत्तरप्रदेशराज्यस्य नोयडा-महानगरे वयं 'सैमसङ्ग झेड् १'-जङ्गमदूरवाण्याः निर्माणाय कार्यशालायाः आरम्भं करिष्यामः इति [५]

२०१५ तमस्य वर्षस्य फरवरी-मासे हिटाचि-आख्या संस्था प्रत्यजानात्(प्रतिज्ञाम् अकरोत्), अस्माकं संस्था भारते १०,००० तः १३,००० सङ्ख्याकान् वृत्त्यवसरान् उद्भाविष्यति । २०१३ तमे वर्षे भारतात् अस्माकं संस्थायाः आयः १०० अर्बुदम् (बिलयन्) आसीत्, तस्मिन् वृद्धिं कृत्वा वयं २१० अर्बुदं (बिलयन्) करिष्यामः । २०१६ तमे वर्षे ओटो-कोम्पोनट्स्-कार्यशाला अस्माभिः चेन्नै-महानगरे आरप्स्यते [६]

२०१५ तमस्य वर्षस्य फरवरी-मासे बेङ्गळुरु-महानगरे "संशोधनम् एवं निर्माणकार्यम्" इत्याख्यायाः कार्यशालायाः आरम्भं हौरी-नामिका संस्था अकरोत् । तस्यै कार्यशालायै सा संस्था १७० कोट्यात्मक (मिलियन् डॉलर्) धनराशिं व्ययीकृतवती [७][८]

फरवरी-मासे 'मरिन् प्रोट्यूस् एक्स्पोर्ट् टेवलोपमेन्ट् ऑथोरिटि'-संस्थया उद्घोषितम् यत्, वयं भारतीयेभ्यः जलवृश्चिकस्य (shrimp) अण्डान् दातुम् उद्युक्ताः स्मः [९] इति ।

२०१५ तमस्य वर्षस्य मार्च-मासे सोनि-संस्थायाः अध्यक्षः केनिचिरो हिबि अवदत्, वयम् अस्माकम् एकां जङ्गमदूरभाषयन्त्रस्य निर्माणकार्यशालां भारते स्थापयिष्यामः इति [१०]

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

भारते निर्मीयन्ताम्

"https://sa.wikipedia.org/w/index.php?title=भारते_निर्मीयन्ताम्&oldid=424725" इत्यस्माद् पुनः प्राप्तिः