सामग्री पर जाएँ

सुखं त्विदानीं त्रिविधं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ३६ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

सुखं तु विदानीं त्रिविधं शृणु मे भरतर्षभ अभ्यासात् रमते यत्र दुःखान्तं च निगच्छति ॥

अन्वयः

[सम्पादयतु]

भरतर्षभ ! इदानीं मे (वचनात्) त्रिविधं सुखं तु शृणु यत्र अभ्यासात् रमते दुःखान्तं च निगच्छति ।

शब्दार्थः

[सम्पादयतु]
रमते = सन्तुष्टिं प्राप्नोति
दुःखान्तम् = दुःखोपशमम्
निगच्छति = प्राप्नोति

भरतश्रे ! यथा क्रियाणां कर्तृकर्मकरणानां च गुणभेदात् त्रिविधत्वं तथा तत्फलस्य सुखस्यापि तत् त्रिविधत्वं सम्भवति । तच्च सुखं तादृशं भवति यत्र पुरुषः समाधिवशात् अधिकां प्रीतिं प्राप्नोति, दुःखस्य अवसानं च । तदिदं कथयामि आकर्णय ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]