सुधा चन्द्रन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Sudha Chandran
Chandran at Rabindranath Tagore's 150th birth anniversary celebrations
जन्म Sudha Chandran
(१९६५-२-२) २७ १९६५ (आयुः ५८)[१][२]
Mumbai, Maharashtra, India
शिक्षणस्य स्थितिः मीठीबाई महाविद्यालय Edit this on Wikidata
वृत्तिः अभिनेता, टेलीविज़न अभिनेता&Nbsp;edit this on wikidata
भार्या(ः) Ravi Dang (m. 1994)[३]

सुधा चन्द्रन् (Tamil: சுதா சந்திரன்) परिपूर्णा भरतनाट्यस्य नृत्याङ्गना । अपि च भारतस्य चलच्चित्रलोके दूरदर्शनकार्यक्रमेषु च अभिनयं नृत्यं च कृतवती । क्रि.श.१९८१तमे वर्षे तमिऴ् नाडु त्रिचीसमीपे सम्भूतात् सञ्चारवाहनस्य अपाघातात् एकपादेन हीना अपि कृतकपादयुक्ता एषा नृत्यक्षेत्रे अभिनयक्षेत्रे च यशः प्राप्तवती ।

बाल्यं शिक्षा च[सम्पादयतु]

सुधा चन्द्रन् क्रि.श.१९६४तमे वर्षे सञ्जाता । [४] मितिबायी महाविद्यालयात् सा स्नातकपदवीम् अवप्नोत् । मुम्बै नगरे सा स्नातकोत्तरपदवीं समापितवती । क्ति.श.१९८११तमे वर्षे यदा सा तीर्थयात्राप्रसङ्गेफ़्न दक्षिणभारते तमिऴ् नाडु प्रान्ते गच्छन्ती सञ्चारयानस्य अपघातात् दक्षिणटङ्का नष्टा। तदनन्तरं तस्याः तत् दौर्बल्यं कृतकटङ्कां योजयित्वा भारतदेशस्य अग्रगण्यनृत्याङ्नासु अन्यतमा अभवत् । दैहिकमानसिकत्रासेन मध्ये वर्षद्वयं यावत् नर्तनस्य अभ्यासः त्यक्तः । तस्याः परिश्रमसाध्यम् उपलब्धिं परिगणयन्तः वैदेशिकाः तां नृत्यप्रदर्शनार्थम् आहूतवन्तः । यूरोप केनडा मध्यप्राच्येत्यादिषु विविधस्थानेषु नृत्यं प्रदर्श्य पुरस्कारान् सम्माननानि च प्राप्तवती । तस्याः प्रसिद्धिं परिगणयन्तः चलच्चित्रदूरदर्शनजनाः तां कार्यक्रमेषु योजितवन्तः ।

जीवनयात्रा[सम्पादयतु]

क्रि.श.१९८४तमे वर्षे तेलुगुभाषायाः मयूरी इति चलच्चित्रे कथया आकृष्टा सुधा चन्द्रन् तस्मिन् नटति । क्रि.श.१९८६तमे वर्षे एतत् एव चलच्चित्रं हिन्दीभाषया नाचि मयूरी इति नाम्ना पुनर्निर्मितम् । तस्मिन् एव वर्षे अनेन चलच्चित्रे अभिनयार्थम् इयं राष्ट्रियपुरस्कारं प्राप्तवती । एकता कपूरु इत्यनया निर्मिते दूरदर्शनवाहिन्याः कहीं किसी रोज़् हिन्दीभाषायाः कथामालिकायां रामोला सिकण्ड इति पात्रं निरूढवती यत् बहुखातमभवत् । भारतस्य दूरदर्शनवाहिनीषु अतिप्रसिद्धा अभिनेत्रिषु इयम् अन्यतमा इति परिगण्यते । यत्रापि अन्यस्मिन् क्षेत्रे कार्यं कुर्वती प्रसिधा अभवत् चेत् अपि अस्याः अनुरक्तिः भरतनाट्यम् एव । अतः सा मुम्बैनगरे सुधाचन्द्रन् अकादेमी अफ् डान्स् इति इति नृत्याकादमीम् अस्थापयत् । इदानीम् अस्याः संस्थायाः पुण्यपत्तनम् (पुणे) मध्ये अपि शाखा अस्ति । रविकुमार दङ्ग् इतेषः अस्याः पतिः अस्य नृत्यकलाशालायाः निदेशाकः अस्ति । आहत्य सुधा चन्द्रन् विश्वेऽस्मिन् आत्मविश्वासस्य मूर्तिरिव अस्ति ।

दूरदर्शनवाहिन्यां कलासेवा[सम्पादयतु]

कताशीर्षमकम् पात्रम् वाहिनी
अन्तरालम् - दूरदर्शनम् राष्ट्रियप्रसारः
अरसि मधुरै तिलवती सन् TV
बहुरानियाँ - राष्ट्रियदूरदर्शनम् Metro
चन्द्रकान्ता - राष्ट्रियदूरदर्शनम्
चस्मे बदूर् - ज़ी TV
हमारी बहू तुलसी तुलसि राष्ट्रियदूरदर्शनम्
हम पाञ्च आनन्दस्य पत्नी ज़ी TV
जाने भी दो यारो - राष्ट्रियदूरदर्शनम् Metro
कि.स्ट्रीट् पाली हल्ली गायत्री कौल स्टार् प्लस्
कहीं किसी रोज़् रोमोला सिकण्ड स्टार् प्लस्
कैसे कहूँ - ज़ी TV
कलसम् चन्द्रमति सन् TV
कसौटी मासी स्टार् प्लस्
कुच् इस् तरहा मल्लिका नन्दा Sony TV
क्या दिल् में है राजेश्वरी देवी ९X
क्या सास भी कभी बहू थी आरक्षकाधिकारिणी स्टार् प्लस्
साथ् साथ् - राष्ट्रियदूरदर्शनम् Metro
सोलह सिङ्गार् राजेश्वरी देवी सहारा वन्
तुम्हारी दिशा दिशायाः माता ज़ी TV
कश्मकश् ज़िन्दगी की राजलक्ष्मी राष्ट्रियदूरदर्शनम्
कथापरयुम् कव्याञ्जली राजलक्ष्मी सूर्यTV
सौन्दर्यवल्ली अखिलाण्डेश्वरी जयाTV
जैयम् पद्मा जयाTV
पोण्डट्टि तेवै राजलक्ष्मी सन् TV
थक थिमि था सा स्वयम् जया TV

चलच्चित्रजगति कलासेवा[सम्पादयतु]

वर्षम् चलच्चित्रम् पात्रम् टीका
क्रि.श.२००६ शादी करके फँस गया यार - हिन्दीभाषा न्यायाधीशा
क्रि.श.२००६ मालामाल वीकली ठकुराइन
क्रि.श.२००० तूने मेरा दिल ले लिया
क्रि.श.१९९९ हम आपके दिल में रहते हैं
क्रि.श.१९९५ रघुवीर आरती वर्मा
क्रि.श.१९९५ मिलन जया
क्रि.श१९९४ बाली उमर को सलाम
क्रि.श.१९९४ अंजाम
क्रि.श.१९९३ फूलन हसीना रामकली
क्रि.श.१९९२ इन्तेहा प्यार की
क्रि.श.१९९२ इंसाफ की देवी सीता एस प्रकाश
क्रि.श.१९९२ निश्चय
क्रि.श.१९९१ जान पहचान हेमा

प्रशस्तिपुरस्काराः[सम्पादयतु]

National Film Awards, १९८६

The Indian Television Academy Awards, २००५

उल्लेखाः[सम्पादयतु]

  1. "Sudha Chandran Herself". Indiatimes. आह्रियत 16 June 2016. 
  2. Madon, Vimala (7 March 2016). "Women's Day special – against all odds". Gulf News. Archived from the original on 8 March 2016. आह्रियत 16 June 2016. 
  3. Farook, Farhana (21 November 2007). "I view the accident as a blessing: Sudha Chandran". DNA. आह्रियत 16 June 2016. 
  4. Never-say-die attitude: BACK ON THE BIG SCREEN - Sudha Chandran 'The Hindu'

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुधा_चन्द्रन्&oldid=481094" इत्यस्माद् प्रतिप्राप्तम्