सामग्री पर जाएँ

सुहृन्मित्रार्युदासीनम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु अपि च पापेषु समबुद्धिः विशिष्यते ॥

अन्वयः[सम्पादयतु]

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु पापेषु अपि च समबुद्धिः विशिष्यते ।

शब्दार्थः[सम्पादयतु]

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु = सुहृत् ,मित्रम्, उदासीनः, मध्यस्थः, द्वेष्यः, बन्धुः, इत्येतेषु,
साधुषु = सज्जनेषु
पापेषु अपि च = दुर्जनेषु च
समबुद्धिः = तुल्यमतिः
विशिष्यते = अतिरिच्यते ।

अर्थः[सम्पादयतु]

सुहृत् मित्रम्, शत्रुः, मध्यस्थः, द्वेष्यः, बन्धुः, साधवः, पापिनः च इत्येतेषु सर्वेषु अपि यः रागद्वेषशून्यः भवति सः योगारूढेषु उत्तमः । (सुहृत् स्वभावेनैव उपकर्ता, मित्रम् स्नेहेन उपकर्ता, अरिः स्वभावेन अपकर्ता, उदासीनः विवदमानयोः उभयोरपि तिरस्कारकः, मध्यस्थः विवदमानयोः उभयोरपि हिताकाङ्क्षी, द्वेष्यः कारणविशेषेण अपकर्ता, बन्धुः सम्बन्धेन उपकर्ता)

शाङ्करभाष्यम्[सम्पादयतु]

किंच-सुहृदित्यादिश्लोकार्धमेकपदम्। सुहृदिति प्रत्यपकारमनपेक्ष्योपकर्ता। मित्रं स्नेहवान्। अरिः शत्रुः। उदासीनो न कस्यचित्पक्षं भजते। मध्यस्थो यो विरुद्धयोरुभयोर्हितैषी।द्वेष्य आत्मनोऽप्रियः। बन्धुः संबन्धित्येतेषु साधुषु शास्रानुवर्तिष्वपि च पापेषु प्रतिषिद्धकारिषु सर्वेष्वेतेषु समबुद्धिः कः किंकर्मेत्यव्यापृतबुद्धिरित्यर्थः।विशिष्यते विमुच्यत इति वा पाठान्तरम्। योगारूढानां सर्वेषामयमुत्तम इत्यर्थः। विशिष्यते। 'विमुच्यते' इति वा पाठान्तरम्। योगारूढानां सर्वेषामयमुत्तम इत्यर्थः।।9।।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]