सेवफलरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सेवफलरसः
कुपीषु सेवफलरसस्य पूरणम्
सेवफलम्
सेवफलानि फलरसः च

सेवफलस्य रसः एव सेवफलरसः । एतत् सेवफलम् आङ्ग्लभाषायां Apple इति उच्यते । अस्य रसः Apple Juice इति उच्यते । सेवफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य सेवफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि सेवफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं सेवफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।

फलरसस्य निर्माणम्[सम्पादयतु]

अस्य सेवफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् सेवफलं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलाम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=सेवफलरसः&oldid=345374" इत्यस्माद् प्रतिप्राप्तम्