सोमनाथपुरम्
दिखावट
सोमनाथपुरम् | |
|---|---|
|
नगरम्/ग्रामः(अग्रहारः) | |
|
सोमनाथपुरे केशवमन्दिरम् (होय्सालशैलि) | |
|
| |
| राष्ट्रम् |
|
| राज्यानि | कर्णाटकराज्यम् |
| मण्डलम् | मैसूरुमण्डलम् |
| भाषाः | |
| • अधिकृत | कन्नडभाषा |
| Time zone | UTC+5:30 (भारतीय समान्यकालमनम्) |
| समीपस्थिम् नगरम् | टी. नर्सिपुर |
सोमनाथपुरं (Somanathapura) कर्णाटकस्य मैसूरुमण्डले स्थितः प्राचीनः अग्रहारः अस्ति । अत्र १३ शतकीयः प्रसन्नकेशवः अथवा लक्ष्मीकेशवदेवालयः अस्ति । एषः देवालयः विशालः अस्ति । अस्य प्राङ्गणम् २१५ X १७७ पादपरिमितम् अस्ति । प्रवेशाय महाद्वारमस्ति। गर्भगृहं परितः भवनेषु ६४ गुहा इव रचनाः सन्ति । तासु प्रत्येकस्मिन् देवदेवतानां शिल्पं स्यात् इति अभिप्रायः । एषः देवालयः होय्सळशौल्या अस्ति । उन्नतं प्राङ्गणं नक्षत्राकारकम् अस्ति । एषः त्रिकूटाचलः। अस्य आवारेषु स्थितानि शिल्पानि अद्भुतानि मनमोहकानि च सन्ति । देवालये ३ गर्भगृहाणि सन्ति । एकस्मिन् वेणुगोपालः, अन्यस्मिन् जनार्दनः, मध्ये केशवः च सन्ति । प्राचीनः केशवविग्रहः केनचित् चोरितः । इदानीं नूतनविग्रहः स्थापितः अस्ति ।
मार्गसूची
[सम्पादयतु]- मैसूरुतः ४२ कि.मी
वसतिः -के.एस्.टि.डि.सि प्रवासिनिलयं , होटेलमयूर , केशव च।
बाह्यानुबन्धाः
[सम्पादयतु]- Somnathpur.com
- Somanathapura description Archived २००९-०४-०६ at the Wayback Machine
- Somnthapura Archived २०११-०७-१३ at the Wayback Machine
वीथिका
[सम्पादयतु]- देवालयस्य दृश्यम्
- प्रवेशभागात् देवालयदृश्यम्
- भगवतः विष्णोः चित्रम्
- नरसिंहदेवस्य चित्रम्
- देवालये शिल्पकलाकृतिः
- केशवदेवालये वेसरशिखरम्
- केशवदेवालयस्य काचित् शिल्पकलाकृतिः