स्मृतिकाराः
स्मृतिसाहित्यकाराः स्मृतिग्रन्थानां रचनाम् अकुर्वन्। स्मृतिकाले मन्वादिप्रणीतानां समेषामपि धर्मशास्त्राणां प्रामाण्य मङ्गीक्रियते न कस्याप्यप्रामाण्यमिति महती गौरवावहेयं भारतीयपरम्परा । तेषु धर्मशास्त्रग्रन्थेषु मनुस्मृति: यथा सर्वमान्या तथैव सर्वप्राचीना । योगीश्वरेण धर्मशास्त्रकाराणां नामानि व्याहरता मनु: सर्वप्रथमं प्रदर्शितः। सर्वैः स्मृतिकारैरपि मनुः साक्षाद् वेदद्रष्टत्वात् सर्वज्ञत्वाच्च प्रथमधर्मशास्त्रकाररूपेणोद्घोषितः । मनुविरोधिस्मृतेः प्रामाण्यमपि न स्वीक्रियते ।
तत्र स्मृतिग्रन्थेषु मनु - याज्ञवल्क्य - पराशर - नारद -बृहस्पति कात्यायन- अङ्गिरो - कार्णाजिनि- दक्ष- पितामह- ऋष्यशृङ्ग - पुलस्त्य - प्रजापति - मरीचि - यम- लौगाक्षि- विश्वामित्र - व्यास-संवर्त-शङ्ख - लिखित काश्यप - व्याघ्रपाद - कपिल - भारद्वाज - जमदग्नि - गार्ग्य - हारीतादीनां स्मृतयः प्रसिद्धाः। केचिदपि स्मृत्युपस्मृतिभेदेनाधिकमपि विवृण्वन्ति । एतेषां कालस्तु परस्परमुदाहरतां धर्मशास्त्राणां पौर्वापर्यपरिज्ञानादाकलनीयम् । म मा भारतीयसमाजस्य व्यवस्थितरूपेण परिचालनमेव स्मृतिकाराणां प्रधानं कर्मासीत्। भारतीयसमाजस्य सुव्यवस्था तथा संघटनमेवास्य मूललक्ष्यमासीत्। चतुर्णां वर्णानामुत्पत्तिरपि मनोवैज्ञानिकरीत्या स्मृतिकारैः प्रतिपादिता। सामाजिक दृष्ट्याऽपि स्मृतीनां महत्त्वं सर्वाधिकम् । हिन्दूनां षोडशसंस्काराणां विस्तृतवर्णन स्मृतिष्वेवोपलभ्यते। व्यवहारज्ञानाय स्मृतीनामनुशीलनमनिवार्यम् ।
प्राचीनभारतीयस्मृतिकारा: समाजे सर्वेषामधिकारान् कर्त्तव्यानि च ध्यात्वा मानवस्याचारपरिपालनाय महत्त्वं ददति। स्मृतयः सामाजिकविकाशाय तथा सर्वेषामधिकाराणां सुरक्षायै सामाजिकनियमानां निर्माणं कुर्वन्ति । सुसमाज स्थापनमेवैतेषां सामाजिकनियमानां मुख्योद्देश्यमासीत् ।
स्मृतिसाहित्यस्य प्रतिपाद्यविषयाः
[सम्पादयतु]स्मृतीनां वर्ण्यविषयाः प्रधानत आचारव्यवहारप्रायश्चित्तभेदेन त्रिधा विभज्यन्ते । तत्र प्रथमत आचारकाण्डे ब्राह्मण- क्षत्रिय- वैश्य- शूद्राणां चतुर्णां वर्णानां चतुर्णामाश्रमाणाञ्च कर्त्तव्यानां विधानं, षोडशसंस्काराणां , तीर्थ स्नान- दानादीनां, देवपूजा- व्रतोपवासादीनां च वर्णनमस्ति। विशेषतः षड्विधधर्मेषु गुणधर्म- निमित्तधर्मव्यतिरिक्ता अन्ये सर्वे धर्माः आचार काण्डान्तर्गताः। मनुष्यजीवनस्याभ्युदयाय सामाजिकव्यवस्थायाः सुसंगठनाय च प्रणीता: नियमा: आचाराध्याये वर्णिताः। 'आचारः परमो धर्मः' इति नीतिमिमामेव भारतीयाः श्रेष्ठधर्मरूपेण स्वीकुर्वन्ति । आचारेणैव समाजस्य स्थापनं, समाजस्य विकाशः, व्यक्तेः समाजस्य च चारित्रिकबलस्योन्नतिः सम्भवेदिति कृत्वा सर्वे स्मृतिकारा: आचारसंहितां प्रथमं विचारयन्ति। मनु[१] याज्ञवल्क्यादय:[२] स्मृतिकारा: आचारं धर्मस्य तृतीयप्रमाणरूपेणोपस्थापयन्ति।
द्वितीये व्यवहारभागे सामाजिकनियमानां व्यावहारिकत्वं प्रतिपादितम् । प्राचीनभारतीयस्मृतिकाराः स्मृतिग्रन्थेषु सामाजिकनियमोल्लंघनकर्त्र व्यवहार माध्यमेन दण्डदानाय व्यवस्थां कृतवन्तः। मानवेषु जायमानानां मतभेदानां निराकरणोपाय एव व्यवहारपदेनोच्यते । अस्यैव व्यवहारस्य समुचितनिर्णयाय न्यायव्यवस्थायै च राजा स्वयं व्यवहारपदानि परमकर्त्तव्यबुद्ध्या पश्येत्। अध्यायेऽस्मिन् सर्वेषां विवादानां धार्मिकदृष्ट्या सामाजिकविधिना च समाधानोपाय: कथितः। सर्वेषां सामाजिकानां स्वस्वधर्मेषु कर्मसु च स्थापनार्थं, समस्तधनविषयकाणां विवादानां निराकरणोपायकथनमेव व्यवहारध्यायस्य मुख्योद्देश्यम् ।
तृतीये प्रायश्चित्तभागेज्ञानाज्ञानकृतकुकार्याणां कृते प्रायश्चित्तानि निरूपितानि। मनुष्यस्य कुकार्येभ्य: निवृत्त्यर्थं निर्दिष्टा उपाया: प्रायश्चित्तपदेनोच्यन्ते। तदेवं प्रायश्चित्तं मन्त्र- जप- दान- तपस्या- उपवास- अनुताप- तीर्थाटनप्रभृतिभिः कर्तुं शक्यते। प्राचीनभारतीयस्मृतिकाराः अमु कुकार्यकारिणं शान्तिदानार्थं प्रायश्चित्तविधानं कुर्वन्ति। स्वापराधानुभवेनापि कदाचित् प्रायश्चित्तसिद्धिः भवतीति स्मृतिकारा: कथयन्ति । स्मृतिकारा: समाजस्य विकाशाय तथा सर्वादौ व्यक्तेः विकाशाय च प्रायश्चित्तेन लोकसंव्यवहारिका शक्तिरागच्छतीति उद्घोषयन्ति । प्रायश्चित्तेन मनुष्य: परमसुखं शान्तिं चाप्नोति । प्रायश्चित्तमिदं सद्य: फलदमिति सर्वत्र स्मृतिषु कथितं वर्तते। मानवस्यान्तर्गतविकारभावोऽपि प्रायश्चित्तमाध्यमेन दूरीकर्तुं शक्यत इति स्मृतिकारा: रटन्ति ।
प्रायश्चित्तप्रकरणे स्मृतिकाराः कतिपयानां सामाजिकपरिस्थितीनां विवेचनमपि कुर्वन्ति । भारतीयसंस्कृतौ जन्माशौच - मरणाशौचयोः महत्त्वपूर्ण स्थानं वर्त्तते। नवजातसन्तानस्य सूतिकायाश्च सुरक्षायै सामाजिकपवित्रायै चाशौचं पाल्यते । अस्मिन् निर्दिष्टे काले समस्तधार्मिककार्यानुष्ठानं निषिद्धम् । प्रायश्चित्तानुष्ठानावधौ यथा सकलधार्मिककार्यानुष्ठानं समाजे संव्यवहरणं च निषिद्धं तथैवाशौचमध्येऽपि लोके संव्यवहरणं, धार्मिककार्यानुष्ठानमपि निषिद्धम्। अशौचादन्यत्र स्वकर्त्तव्यपालनविमुखो नरः प्रायश्चित्तीयत इति प्राचीनभारतीय स्मृतिकाराः कथयन्ति । अत: सामाजिकव्यवस्थायाः शृङ्खलायै तथा व्यक्तेः स्वकर्त्तव्यपालननिमित्तमपि प्रायश्चित्तप्रकरणमिदं स्मृतिकारैः परिकल्पितम् ।
शातातपस्मृतौ[३] जप - उपासना - यज्ञ - दारैरपि पापक्षयः भवतीति वर्णितमस्ति। प्राचीनस्मृतिकाराः समाजशास्त्रविदश्च मनुष्यस्य मनोवृत्तिं गभीराध्ययनपूर्वकं मनुष्यस्यापराधप्रवृत्तेः दूरीकरणाय प्रगाढोद्यम कृतवन्तः। मनसि पुनश्चापराधप्रवृत्ति: नोदेति ।
स्मृतिषु साधारणत: चतुर्णां वर्णानां विषये, चतुर्णामाश्रमाणां विषये, चतुर्णां पुरुषार्थानां विषये च वर्णनं प्राप्यते । एते विषया: धर्मशास्त्रेषु सर्वत्र विशिष्य गृहीताः। स्मृतयोऽपि युगानुसारं परिवर्तनीयाः भवन्ति । विभिन्नेषु युगेषु धर्मह्रासानुरूपं विभिन्नानां स्मृतिग्रन्थानां समादरणं श्रूयते -
कृते तु मानवो धर्मस्त्रेतायां गौतमः स्मृतः।
द्वापरे शंखलिखितौ कलौ पाराशरः स्मृतः॥[४]
चतुर्षु युगेषु चतुर्णां स्मृतिग्रन्थानां ग्रहणेऽन्येषां स्मृतिग्रन्थानां प्रणयनं वैयर्थ्यं स्यादिति मत्वा व्यासोऽपि[५] स्मृतीनां गुरुलघुभावं प्रदर्श्य सर्वदा सर्वासां स्मृतीनां ग्रहणायोपदिशति । बृहस्पतिरपि सर्वेषु कालेषु मनुस्मृति प्रशंस्य मनुस्मृतेः विरोधस्थले अन्यासां स्मृतीनां ग्रहणञ्च दृढं निषेधति ।
स्मृतिकाराणां संख्या
[सम्पादयतु]स्मृतीनां संख्या अद्यावधि अपरिमिता वर्त्तते । तासु स्मृतिषु सर्वासां सत्ता नोपलभ्यते । काश्चन स्मृतयः आंशिकाः प्राप्यन्ते । अत: स्मृतिकारा: भाष्यनिबन्धकाराश्च स्मृतीनां संख्याविषये एकमतं न प्रदर्शयन्ति । गौतमः केवलं मनो: नाम उद्धरति । बौधायनः सप्त धर्मशास्त्रकाराणां नामान्युद्धरति । ते च यथा - औपजघ्ननि - कात्य - काश्यप - गौतम - प्रजापति- मौद्गल्य - हारीताः। वसिष्ठेन गौतम - प्रजापति - मनु - यम - हारीतानां पञ्च धर्मशास्त्रकाराणां नामान्युद्धृतानि । आपस्तम्बः कण्व - कुणिक - कुत्स - कौत्स- पुष्कर - श्वेतकेतु - हारीतादीनां दश धर्मशास्त्रकाराणां नामानि उट्टङ्कयति । भृगुप्रोक्त - मनुस्मृतावुद्धृतानां धर्मशास्त्रकाराणां नामानि यथा - अत्रि - भृगु - वसिष्ठ - वैखानस - शौनकाः।
याज्ञवल्क्य:[६] विशंतिधर्मप्रयोजकानां नामान्युद्धरति। ते च धर्मप्रयोजकाः आपस्तम्ब- संवत - कात्यायन - बृहस्पति - पराशर - व्यास - शंख - लिखित दक्ष - गौतम - शातातप - वसिष्ठाश्च । पराशरोऽपि[७] ऊनविंशति धर्मशास्त्रकाराणां नामानि उठेंकयति। ते धर्मशास्त्रकारा: भवन्ति यथा मनु - वसिष्ठ - काश्यप - गार्गेय - गौतम - उशना - अत्रि - विष्णु - संवर्त - दक्ष - अङ्गिरा: - शातातप हारीत - याज्ञवल्क्य - आपस्तम्ब - शंख - लिखित - कात्यायन - प्राचेतसः । भरद्वाजोऽपि[८] एकविंशति धर्मशास्त्रप्रयोजकानां नामान्युद्धरति ।
पैठीनसिना[९] गृहीतानां षट्त्रिंशत्स्मृतिकाराणां नामानि यथा मनु - आङ्गिरस- व्यास - गौतम- लिखित - यम - वसिष्ठ - दक्ष - संवर्त - शातातप पराशर - विष्णु - आपस्तम्ब- हारीत - शंख - कात्यायन- बृहस्पति- योगीश्वर नारद - बौधायन - पितामह - सुमन्तु - काश्यप - बभ्रु - पैठीनसि - व्याघ्र - सत्यव्रत - भरद्वाज - गार्ग्य - कार्णाजिनि - जाबालि - जमदग्नि - लौगाक्ष्यः। अग्निपुराणे उल्लिखितानां विंशतिधर्मशास्त्रकाराणां नामानि यथा मनु - विष्णु - याज्ञवल्क्य - हारीत - अत्रि - यम- आङ्गिरस - वसिष्ठ - दक्ष - संवर्त - शातातप - पराशर - आपस्तम्ब - उशना: - व्यास - कात्यायन - बहस्पति - गौतम - शंख - लिखिताः । जम्मा
गरुडपुराणे स्वीकृतानामष्टादशस्मृतिकाराणां नामानि यथा मनु - विष्णु यम - आङ्गिरस - वसिष्ठ - दक्ष - संवत - शातातप - पराशर - आपस्तम्ब - उशना: - व्यास - कात्यायन - बृहस्पति - गौतम - शंख - लिखित - हारीत -अत्रि - याज्ञवल्क्या : ।
महाभारतस्याश्वमेधिकपर्वणि उट्टङ्कितानां त्रयोविंशति धर्मशास्त्रकाराणां नामानि यथा - उमा - महेश्वर - नन्दी - ब्रह्मा - कुमार - सुमन्तु - जैमिनि - शाकल - पुलस्त्य - पुलह - पावक - अगस्त्य - सुधन्वा - शाण्डिल्य - शालभञ्जन - बालखिल्या - व्याघ्र - व्यास - वितण्डक - शृङ्ग - आङ्गिरस - सप्तर्षि - वैशम्पायनाः। मित्रमिश्रस्य वीरमित्रोदये[१०] अष्टादशस्मृतिकाराणा मष्टादशोपस्मृतिकाराणां तथाऽन्येषामेकविंशति धर्मप्रयोजकानां नामानि उद्धृतानि वर्तन्ते। तेष्वष्टादशस्मृतिकाराणां नामानि यथा - मनु - बृहस्पति - दक्ष- गौतम यम - आङ्गिरस - योगीश्वर - प्रचेता: - शातातप - पराशर - संवर्त - उशना: - शंख-लिखित- अत्रि - विष्णु - आपस्तम्ब - हारीता:। अष्टादशोपस्मृतिकाराणां नामानि यथा जाबालि - नचिकेता - स्कन्द - लौगाक्षि - काश्यप - व्यास - सनत्कुमार - सुमन्तु - पितामह - व्याघ्र- कार्णाजिनि- जातूकर्ण्य- कपिञ्जल बौधायन - कणाद -विश्वामित्र - पैठीनसि - गोभिलाः । एकविंशतिधर्मप्रयोजकानां नामानि यथा वसिष्ठ - नारद - सुमन्तु - पितामह - वसु - कार्णाजिनि - सत्यव्रत- गार्ग - देवल- जमदग्नि - भरद्वाज - पुलस्त्य - क्रतु- पुलह- आत्रेय छागलेय - मरीचि - वत्स - पारस्कर - ऋष्यशृंग - वैजवापाः।
भविष्यपुराणे षट्त्रिंशत्स्मृतिकाराणां नामान्युद्धृतानि । षट्त्रिंशन्मतेऽपि षट्त्रिंशत्स्मृतिकाराणां मतानि चर्चितानि। प्रयोगपारिजाते अष्टादशस्मृतिकाराणा मष्टादशोपस्मृतिकाराणां , विंशतिधर्मप्रयोजकानांच नामान्यालोचितानि वर्तन्ते। नीलकण्ठभट्टस्य भगवन्तभास्कराख्ये महानिबन्धे सप्तनवते: (९७) स्मृतिकाराणां नामानि चर्चितानि ।
निर्णयसिन्धौ कमलाकर: १३१ स्मृतिकाराणां मतान्युपस्थापयति। संस्कारकौस्तुभे अनन्तदेवोऽपि १०४ स्मृतिकाराणां मतान्युद्धरति । कदाचित् स्मृतिकाराणां नामसु सामान्यपरिवर्त्तनेनापि अन्याः कृतयः प्राप्यन्ते । तानि नामानि यथा -
क) मनुः, वृद्धमनुः, बृहन्मनुः।
ख) याज्ञवल्क्यः ,वृद्धयाज्ञवल्क्यः, बृहद्याज्ञवल्कयः, योगियाज्ञवल्क्यः ।
ग) अङ्गिराः, मध्यमाङ्गिराः, लघ्वङ्गिराः।
घ) गौतमः, श्लोकगौतमः, वृद्धगौतमः।
ङ) पराशरः, लघुपराशरः, बृहत्पराशरः।
च) व्यासः, बृहद्व्यासः, वृद्धव्यासः, लघुव्यास:।
छ) हारीतः, लघुहारीतः, वृद्धहारीतः।
ज) शातातपः, वृद्धशातातपः।
झ) कात्यायन:, वृद्धकात्यायनः।
ञ) गार्ग्य:, वृद्धगार्ग्य:।
ट) यमः, वृद्धयमः।
ठ) विष्णुः, लघुविष्णुः, बृहविष्णुः।
ड) शंख: , लघुशंखः , शंखलिखितौ।
ढ) वसिष्ठः, वृद्धवसिष्ठः, श्लोकवसिष्ठः।
ण) बृहस्पतिः, वृद्धबृहस्पतिश्च ।
एतेषामुपनामसंयुक्तानां स्मृतिकाराणां संख्याऽपि अत्यन्तं विशाला भवति । एतेषामुपनाम्नां विषये शूलपाणि: कथयति -
वृद्धशातातप - लघुहारीतादीनामवस्थाभेदेन उक्त एवान्तर्भावः।[११]
एतान्युपनामानि केवलमवस्थाभेदेन प्रयुक्तानि, परन्तु न पृथगिति। सः शातातप हारीतादीनामवस्थाभेदेनैतादृशं नामेति विचारयति। मित्रमिश्रोऽपि ‘एते स्मृतिकारा अवस्थाभेदेन भिन्न भिन्नं नाम धारयन्ति-
वृद्धमनु-वृद्धवसिष्ठ-वृद्धशातातप-लघुहारीत-योगियाज्ञवल्क्यादयस्तु
अवस्थाभेदेन सविशेषेण संज्ञा व्यपदेशभाजो मन्वादय एवेति न पृथगुक्ताः।[१२]
परन्तु न पृथगि' ति यथायथं प्रमाणयति। कदाचिदेकस्यैव स्मृतिकारस्य सूत्रात्मक: श्लोकात्मकश्च ग्रन्थ: प्राप्यते। स्मृतयोऽपि भिन्नभिन्नशाखां तथा देशमनुसरन्ति। तत्र स्मृतीनां विरोधे प्रत्यक्षश्रुतिविरोधिस्मृतीनां वाक्यमप्रामाण्यं भवति तथा प्राचीनानां वाक्यानि पालनीयानि भवन्ति ।
मनुः
[सम्पादयतु]मनुः मानवजाते: मनुष्यसमाजस्य च परमपितृरूपेण परिगणितो भवति ।[१३] भारतवर्षे मनोः प्राधान्यं सर्वथा वरीवर्तते। ब्रह्मण: मानसपुत्रेषु अन्यतमोऽसौ मनुः। अतश्च ताण्ड्यमहाब्राह्मणे[१४] तैत्तिरीयसंहितायाञ्च[१५] मनुवाक्यानि भैषज्यरूपाणीति कथितमस्ति। शतपथब्राह्मणमपि मनोः वचनानि उद्धरति । निरुक्तकारोऽपि[१६] मनुप्रतिपादित-दायविभागमुट्टङ्कयति । गौतम - आपस्तम्ब[१७] बौधायन[१८] - वसिष्ठादिभिः धर्मसूत्रकारैरपि मनोः वैधानिकप्रभुत्वं स्वीकृतम् । महाभारतेऽपि[१९] मनोः, स्वायम्भुवमनोः, प्राचेतसमनोश्च नामानि बहुषु स्थलेषूद्धृतानि वर्तन्ते। वेदान्तसूत्रभाष्ये[२०] बृहदारण्यकोपनिषद्भाष्येऽपि[२१] शङ्कराचार्य: वारं वारं मनुस्मृति मानवमिति कथयति । वेदान्तसूत्रभाष्ये[२२] मनुं शिष्टत्वेनापि परिगणयति। कुमारिल्लोऽपि सर्वप्रथमस्मृतिकाररूपेण मनुं परिगणय्य बहूनि वाक्यान्युद्धरति। बृहस्पतिरपि[२३] वेदान्तर्गतविषयाणामुपस्थापक त्वान्मनुस्मृतेः श्रेष्ठत्वं प्रतिपाद्य मनुस्मृतेः विरुद्धा स्मृतिः नादरणीया भवतीति स्पष्टमुद्घोषयति।
मानवजाते: स्रष्टुत्वान्मनुः मानवानां कृते नियमान् प्रणीतवान् । सः स्वयमुत्पन्नस्य सर्वप्रधानस्य स्वायम्भुवोऽपत्यमासीत्। सृष्टिकर्तृत्वात् सोऽपि प्रजापतिरूपेण ख्यातः। कदाचिदपि ब्रह्मणा सह तस्याभिन्नता दृश्यते। उपर्युक्तनिदर्शनेभ्य: मनो: प्रतिष्ठा ज्ञायते। सोऽपि महर्षिरूपेण वर्णितः। महाभारते[२४] सः श्राद्धदेवरूपेण स्वीकृतः । आपस्तम्बोऽपि[२५] वैदिकोपाख्यानानि उद्धरन् श्राद्धविषये मनो: नूतना कल्पनां स्वीकरोति। मनुस्मृते: मूलोपदेष्टा मनुरेवाऽऽसीत्। परन्तु भृगुः मनुस्मृतेः संकलक आसीत् ।
स्मृतिसाहित्ये सर्वप्राचीना सर्वविख्याता स्मृति: मनुस्मृतिरिति सर्वैर्निर्विवादमुद्घोषितम्। मनुस्मृतेरादर्शमनुस्मृत्यागणितजनाः अपरिमितकालं व्याप्याद्यावधि स्वजीवनं वाहयन्ति । सामाजिकव्यवस्थायाः नियमनाय मनुस्मृते: महत्त्वं गुरुत्वपूर्णम् । ग्रन्थेऽस्मिन् सामाजिक - धार्मिक- नीतिशास्त्र अध्यात्मशास्त्र - शैक्षिक - राजनैतिक - व्यावहारिक - भौगोलिकशास्त्राणां समावेशोऽस्तीति कृत्वाऽस्य महत्त्वं सर्वथा वरीवर्त्तते। मनुस्मृतेः विरुद्धं मतं प्रतिपादयन्त्य: स्मृतयोऽग्राह्याः भवन्ति । मनुनोपदिष्टाः नियमा: स्मरणमाध्यमेन भृगुः स्वशिष्येभ्यः प्रोक्तवान् । सेयं स्मृतिरद्यावधि भृगुप्रोक्तमनुस्मृति रूपेणास्माभिः प्राप्यते।
मनुस्मृतिः भारतस्यागणितजनानामपरिमितकालं यावदसीमपुरुषं च यावत् प्रकृतिगठनं करोति । आदर्शनानुप्राणितञ्च करोति । प्राचीनकालेऽपि स्मृतिकारेषु मनुस्मृते: विशालत्वं, प्राधान्यमौदार्य, महत्त्वं, वैशिष्ट्यं च सर्वैरुररीकृतम् । मनुस्मृति: सरलया तथा प्रवहमानया शैल्या रचिता । अत्र पाणिनिव्याकरणस्य नियमाः स्वीकृताः। गौतम - वसिष्ठादीनां मतान्यत्रापि दृश्यन्ते। कौटल्योऽपि वाक्शैल्या मतेन च मनुस्मृते: वैशिष्ट्यं प्रदर्शयति।
स्मृतिषु मनुस्मृतेरेव श्रुत्युपग्रहेण प्राधान्यम् । तदेव मनुस्मृतिनामक ग्रन्थरत्नं वर्णाश्रमधर्मप्रतिपादकतयाऽस्माकं भारतीयानां धर्मप्राणानां प्रामाण्ये सर्वोत्कर्षण वर्त्तते । यतो ह्यस्यां मनुस्मृतौ पुरुषार्थचतुष्टयस्य प्रतिपादनं मनुना कृतम् ।
प्राच्यपाश्चात्यविद्वांसः प्राचीनाधुनिकविद्वांसश्च मनुस्मृतिविषये बहुलमालोचयन्ति । तथापि मनुस्मृते: महत्त्वदृष्ट्या विचारक्षेत्रमद्यावधि सीमितं वर्त्तते। आयङ्गरमहोदय:[२६] मनुस्मृतेः मुख्यवैशिष्ट्यं तथा विचक्षणतां पाण्डित्यञ्च प्रदर्शयन् कथयति यत् मनुस्मृतेः लोकप्रियतायाः कारणमेव तस्य प्रयोग कौशलम् । प्रयोगकौशलस्याभावात् मनुस्मृतिवत् नान्याः स्मृतयः लोकप्रिया: भवन्ति ।
मनुस्मृतेः काल:
[सम्पादयतु]स्मृतिषु मनुस्मृतिः सर्वप्राचीना सर्वप्रथमा च । भृगुसंकलितमनुस्मृतौ न क्वापि मनुस्मृतेः कालः निर्दिष्टः। अतः मनुस्मृतेः कालनिर्णयः दुरुहो भवति। तथापि ऐतिहासिका: पौर्वापर्यनिर्णयेन आभ्यन्तरबाह्यप्रमाणैश्च मनुस्मृते: सम्भावितकालमुपस्थापयन्ति ।
१. आभ्यन्तरप्रमाणानि -
क) उत्तरमीमांसका: ब्रह्मणो जगत्कर्तृत्वमीमांसायां[२७] मन्वादिस्मृतीनां प्रामाण्यमुद्घोषयन्ति ।
ख) शान्तिपर्वण्यपि[२८] भगवान् मनुः प्रशंसितः।
ग) आदिकाव्यं रामायणमपि रामभद्रस्य मुखेन मनुस्मृतेः[२९] श्लोकद्वयमुपन्यस्य धर्मशास्त्रस्य प्रामाण्यमुदघोषयत्।
घ) धर्मशास्त्रं श्लोकात्मकं सूत्रात्मकं चेति द्विधा विभक्तम् । तेष मन्वादिस्मृतयः श्लोकात्मका: , गौतम - आपस्तम्बादिग्रन्थास्तु सूत्रात्मकाः। तत्र श्लोकात्मकशास्त्रेभ्यः सूत्रात्मकानि गौतमादिप्रणीतानि शास्त्राणि प्राचीनानीति नव्यविदुषां मतं भ्रान्तम् । सूत्रं श्लोकात् पूर्वमिति प्रमाणाभावाद नुष्टबादिच्छन्दोबद्धानामृचा सर्वप्राचीनत्वेन सर्वैरप्यङ्गीकृतत्वाद् योगीश्वरेण[३०] क्रमविवक्षायां सूत्रात् पूर्वं श्लोकस्य कीर्त्तितत्वाच्च।
ङ) प्रायेण सर्वेषु शास्त्रेषु धर्मशास्त्रकारत्वेन मनोरभिहितत्वात् सर्वत्र मनुवचनान्यु द्धृतत्वाद् धर्मशास्त्रकारगणनावसरे मनोः प्रथममुपस्थापितत्वाच्च मनुस्मृतिरेव सर्वप्राचीना। योगीश्वरो याज्ञवल्क्योऽपि[३१] स्वीयग्रन्थमुखे धर्मशास्त्रप्रयोजक नामकीर्तनवेलायां मनुमादौ स्मृतवान्। यमस्मृतावपि[३२] धर्मशास्त्रकारनिर्देशावसरे मनुरेव प्रथममभिहितः। शंखलिखितावपि[३३] धर्मशास्त्रप्रणेतृमालामन्त्रे मनुमेव प्रणवं निर्दिदेश । पराशरोऽपि[३४] तथैव मनुमादौ पपाठ । एतैः सर्वैः धर्मशास्त्रकारैः मनुः प्रथम स्मृत इति मनो: सर्वप्राचीनत्वे नास्ति संशयलेशः।
च) गौतमधर्मसूत्र[३५] - अत्रिस्मृति[३६]- वसिष्ठधर्मसूत्र[३७] - अङ्गिरस्स्मृति[३८] - आपस्तम्बधर्मसूत्र [३९]- बृहस्पतिस्मृतिषु[४०] अपि मनो: नामोद्धृतमस्ति। मनोर्नाम निर्देशपुर:सरं मनुः स्मृतिपथमानीत इति तस्य प्राचीनत्वे कारणम् । नारदोऽपि[४१] ग्रन्थारम्भे महताऽऽडम्बरेण मनुं प्रशंस्य तदपेक्षया मनोः प्राचीनत्वं प्रमाणीकरोति।
छ) पुनश्च मनुस्मृते: महाभारतात् प्राचीनत्वे बहूनि प्रमाणानि[४२] वर्तन्ते । व्यासस्य महाभारतकर्तृत्वेन महाभारतीयपुरुषत्वेन च तत्कृता स्मृतिरपि मनुस्मृत्य पेक्षयाऽर्वाचीनेति स्वत: सिद्ध्यति। स्वयं भगवती तैत्तिरीयश्रुतिरपि[४३] मनुं प्रशंसतीति मनो: लोकातिशायि गौरवं सर्वस्मृतिमूर्धन्यत्वं परिस्फुटमेव । एक
ज) धर्मसूत्राणि मनुस्मृत्यपेक्षया प्राचीनानीति पाश्चात्यविदुषां तदनुवर्त्तमानानां भारतीयनव्यविदुषाञ्चाभिमतं न शोभते। गौतमधर्मसूत्रं सर्वपुरातनं धर्मशास्त्रमिति वदतां विपश्चितां मतमपि न समीचीनम् । धर्मशास्त्रवाङ्मये पूर्णाङ्गग्रन्थमुपनिबध्य मनुः कांश्चन विषयान् न प्रतिपादयति । किन्तु परवर्त्तित्वेन गौतमोऽनेकान् समुपादेयान् विषयान् निवेशयति । यदि मनुस्मृतिस्तदपेक्षयाऽर्वाचीना स्यात्तर्हि एतत् सर्वं स्वग्रन्थस्य न्यूनतापूरकत्वेनोपाहृतं स्यात् । पुनश्च गौतमस्य[४४] चतुदवादिता तस्य ग्रन्थात् स्फुटैव। ततोऽपि त्रैविद्यवादिन्या मनुस्मृतेरर्वाचीनैव ।
झ) अन्यदपि सूत्रात्मकमापस्तम्बधर्मसूत्रं[४५] स्वयं मनुं व्याहृत्य स्वस्यार्वाचीनतां साधयति । एतेन धर्मशास्त्राकरे मनुस्मृति: सर्वप्राचीना, तदनुयायिन्य: अपरा: स्मृतयः क्वचित् क्वचित् किमपि आवश्यकं संयोजयन्ति मनुं चोदाहरन्ति ।
ञ) मनुस्मृतेः वर्त्तमानेषु टीकाग्रन्थेषु नवमशतकस्य प्रथमभागोत्पन्नस्य मेधातिथे: प्राचीना टीका वर्तते। वेदान्तसूत्रभाष्येऽष्टमशतकोत्पन्नः शङ्कराचार्योऽपि मनुमतान्युद्धरति। जैमिनिसूत्रस्य प्रथमशतकोत्पन्न: भाष्यकार: शबराचार्य: मनुमतमुद्धरति । तन्त्रवार्तिके कुमारिल्लोऽपि मनुमतमुद्धरति । वर्तमाना मनुस्मृतिः याज्ञवल्क्यस्मृतेः प्रागेव निर्मिता ।
ट) आधुनिकप्राच्यपाश्चात्यविद्वांसः नानाप्रमाणप्रदर्शनपुर:सरमस्य ग्रन्थस्य विविधं कालं प्रतिपादयन्ति । तेषां मतानि साम्प्रतमुपस्थाप्यन्ते ।
मैक्समूलरमहोदय:[४६] - ख्रीष्ट्रियचतुर्थशतकमध्ये,
मैकडोनलमहोदय:[४७] - ख्रीष्टियद्वितीयशतकमध्ये ,
जूलियसजोलिमहोदय:[४८] - ख्रीष्टियप्रथमशतकात्परम् ,
के. पी. ज्यायसवालमहोदय:[४९] - ख्रीष्टात्पूर्वं द्वितीयशतकत: ख्रीष्टियप्रथमशतकमध्ये ,
डङ्करमहोदय:[५०] - ख्रीष्टात् पूर्वं षष्ठशताब्द्यनन्तरमेव,
एल्फिनष्टोनमहोदय:[५१] - ख्रीष्टात् पूर्वं नवमशताब्द्यामेव,
हण्टरमहोदय:[५२] - ख्रीष्टियप्रथमशतकात् पञ्चमशतकमध्ये,
आयङ्गरमहोदय: - मास ख्रीष्टात् पूर्वं चतुर्थशतक एव ,
सार् उइलियम जोन्समहोदय:- ख्रीष्टात् पूर्वं द्वादशशतकानन्तरम् ,
किलिगेलमहोदय: - ख्रीष्टात् पूर्वं दशमशतकानन्तरमेव ,
सार् मोनियर् उइलियम्समहोदयः - ख्रीष्टात् पूर्वं पञ्चमशतक एव ,
जर्जबूहलरमहोदय:[५३] - बाख्रीष्टात्पूर्वं द्वितीयशतकत: ख्रीष्टात्परं पलाय की द्वितीयशतकमध्ये
सिमकालीबायका पि. भि. काणेमहोदय:[५४] - ख्रीष्टात् पूर्वं द्वितीयशतकत: ख्रीष्टात् नामा सहजीनामा परं प्रथमशतकमध्ये स्थापयन्ति ।
मनुस्मृतेः विषयाः
[सम्पादयतु]लाफार चाक मनुस्मृतौ द्वादशाध्यायाः , २६९४ श्लोकाश्च सन्ति। तत्राध्यायानुसारं प्रतिपादितविषया:[५५] यथा -
प्रथमाध्याये - ११९ श्लोकाः, भृगुप्रभृतीन् महर्षीन् मनोः धर्मशास्त्राध्यापनं , सृष्टिप्रक्रिया, कालपरिमाणानि , वर्णानुसारं कर्त्तव्यानि , ग्रन्थान्तर्गत
विषयाणां संक्षेपत: कथनं चेति।
द्वितीयाध्याये -२४९ श्लोकाः, धर्मप्रमाणानि, जातकर्मादय उपनयनान्तसंस्काराः, ब्रह्मचारिण: जीवनवृत्तिश्च ।
तृतीयाध्याये -२८६ श्लोकाः, समावर्त्तनम्, विवाहभेदाः, विवाहानां स्वरूपाणि, वधूवरयोः गुणाः, गृहस्थस्य जीवनम् , गृहस्थस्य दैनन्दिन- सामयिक
कर्त्तव्यानि च ।
चतुर्थाध्याये - २६० श्लोकाः, ऋतप्रमृतादीनां गृहस्थनिर्दिष्टानां जीविकानां लक्षणानि , स्नातकनियमाश्च।
पञ्चमाध्याये - १६९ श्लोकाः, भक्ष्याभक्ष्यद्रव्याणां वर्णनम् , जननमरणाशौचम्, द्रव्यशुद्धिः, स्त्रीधर्मश्च। षष्ठाध्याये - ९७ श्लोकाः, वानप्रस्थसंन्यासिनोः जीवनधारणविधिः।
सप्तमाध्याये -२२६ श्लोकाः, राजधर्मः, राज्यस्य सप्ताङ्गानि, षाड्गुण्यम्, उपायाः, राज्ञः नैत्यककर्त्तव्यानि च ।
अष्टमाध्याये -४२० श्लोकाः, व्यवहारनिर्णय: , व्यवहारभेदाः , तेषां नामानि , लक्षणानि, व्यवहारपदानां कृते न्यायविचारदानविधिः, साक्षिग्रहणम् ,
दण्डविधि:, अपराधाश्च।
नवमाध्याये -३३६ श्लोकाः, स्त्रीपुरुषधर्माः, सम्पत्तिविभाजन - द्यूतसमाह्वय -स्तेयादीनि व्यवहारपदानि।
दशमाध्याये -१३१ श्लोकाः, वर्णसङ्करजातयः, अनुलोमज - प्रतिलोमजादीनां विवरणानि , तेषां जीविकावृत्तयः, आपद्धर्मश्च।
एकादशाध्याये-२६५ श्लोकाः, पापक्षयाय कृच्छ्र-सान्तपन-चान्द्रायणादिविधयः, महापातकोपपातकादीनां प्रायश्चित्तानि च ।
द्वादशाध्याये -१२६ श्लोकाः, कर्मानुसारं त्रिविधा सांसारिकगतयः, मोक्षायात्मज्ञानम्, देशधर्म - जातिधर्मादीनां विवरणं च ।
मनुस्मृतावेते विषया: विस्तरश: प्रतिपादिताः सन्ति। अस्या स्मृतौ सृष्टिः, वर्णधर्म:, आश्रमधर्म:, वर्णाश्रमधर्म:, गुणधर्म:, निमित्तधर्म:, सामान्यधर्मश्चेति षड्विधो धर्मः, आचार - व्यवहार - प्रायश्चित्तादयो मानवस्योपयोगिनः सर्वे विषयाः प्रतिपादिताः सन्ति। मनुः राज्यरक्षणार्थं राजयोग्यक्षत्रियपुरुषस्य नियमान् विस्तरश उपस्थापयति। श्रुतिप्रतिपादित मात्मज्ञानमपि मोक्षोपायत्वेन मनुः द्वादशाध्याये वर्णयामास ।
मनुस्मृते: टीकाकारा:
[सम्पादयतु]मनुस्मृते: टीकाकाराणामाविर्भाव: नवमशतकानन्तरमेवाभवत्। अतस्ते आत्मानं महामानवत्वेन ऋषित्वेन वा न प्रमाणयन्ति । ते भाष्यकारा: प्रदेशगतान् परिवर्तिताचारानपि स्मृतिव्याख्याने संयोजयन्ति । ते भाष्यकारा: . समाजस्य शृङ्खलकरूपेण वर्तमानत्वात्तेषां सामाजिकनीतिनियमानां ज्ञान मासीत् । ते टीकाकारा: आर्षवाक्यरूपेणोपदेशमाध्यमेन समाजानुसारमाचारस्य परिवर्तनाय स्वव्याख्याने समाजे प्रचलितानामाचाराणां सन्निवेशं कृतवन्तः। ते च स्मृतिकाराणां मतान्युद्धृत्य समाधानाय स्वस्वपक्षान् सिद्धान्तरूपेणो पस्थापयामासुः। स्मृतिवाक्यानि क्वचित् क्वचित् परस्परविरोधीनि दृश्यन्ते।
अतः भाष्यकाराः तेषां स्मृतिग्रन्थानां व्याख्यानावसरे समेषु स्थलेषु विना विचारं ग्रहणं कृत्वा विषमेषु स्थलेषु स्मृतिवाक्यानामेकवाक्यतारक्षणाय बहुप्रयत्नं कृतवन्तः ।
मनुस्मृतेः बहवः टीकाकारा: वर्तन्ते । तेषु टीकाकारेषु विश्वनाथनारायण माण्डलिकमहोदयेन सप्त टीकाकारा: समुद्धृताः । ते टीकाकारा: भवन्ति यथा-
१. मेधातिथिभट्टः - मनुभाष्यस्य प्रणेता ।
२. गोविन्दराजः - मनुटीकाया: कर्ता।
३. सर्वज्ञनारायणः - मन्वर्थविवृत्तिकारः।
४. कुल्लुकभट्टः - मन्वर्थमुक्तावलिकारः।
५. राघवानन्दः - मन्वर्थचन्द्रिकाकारः।
६. नन्दनाचार्य: - मनुव्याख्यानकारः।
७. रामचन्द्रः - मनुभावार्थचन्द्रिकाकारश्च ।
भारतीयविद्याभवन, बम्वेद्वारा नवटीकोपेता मनुस्मृतिः प्रकाशिता विद्यते. यत्रातिरिक्तं टीकाद्वयं संयोजितं दृश्यते । तच्च टीकाद्वयं यथा -
१. भारुचिकृता मनुटीका ।
२. मणिरामदीक्षितकृता सुखबोधिनीटीका ।
कुल्लूकोऽपि मनुस्मृतिव्याख्याने[५६] असहाय - भोजदेव - धरणीधरान मनुटीकाकाररूपेण प्रकाशयति। मनुस्मृते: सर्वेषां टीकाकाराणां कृतयः नोपलभ्यन्ते। कस्यांशिकरूपेण , कस्य च मतानि केवलं चर्चितानि दृश्यन्ते । अतस्तेषां नामग्रहणमेव सारः। ते च सर्वे भवन्ति असहाय - उदयकर- भागुरि- धरणीधर -माधवाचार्य - श्रीधरस्वामि - रुचिदत्त - विश्वरूपाः। काणेमहोदयेनापि एतेषु टीकाकारेषु केषाञ्चन नामानि उद्धृतानि सन्ति ।
भारतस्य प्राय: सर्वासु मुख्यभाषासु मनुस्मृतिरियमनूदिता दृश्यते । भारताद बहिरपि आङ्ग्ल-जर्मनि - फरासी - रुषियाद्यनेकासु भाषास्वपि इयमनूदिताऽस्ति।
याज्ञवल्क्यः
[सम्पादयतु]वैदिकमहर्षिषु ख्यातनामा आसीदसौ याज्ञवल्क्यः । महर्षियाज्ञवल्क्य: शुक्लयजुर्वेदस्य साक्षाद् द्रष्टा, आत्मतत्त्वज्ञः, वैदिकऋषिपरम्परायातश्चासीत् । बृहदारण्यकोपनिषदि वर्णितोऽध्यात्मज्ञानसंबन्धिसंवाद: महर्षियाज्ञवल्क्यनाम्ना सर्वत्र प्रसिद्धः। याज्ञवल्क्यस्य पितुर्नाम देवरातः, मातुर्नाम माहेश्वरीदेवी। भार्याद्वयं[५७] यथा - कात्यायनी, मैत्रेयी च । पुत्रस्य नाम कात्यायन आसीत् । महाभारतानुसारं[५८] याज्ञवल्क्य: वैशम्पायनस्य शिष्य आसीत्। केनापि कारणेन रुष्टः याज्ञवल्क्यस्तं गुरुं त्यक्त्वा सूर्याराधनं च कृत्वा तस्माद्ययजुर्वेदमधीतवान्। तत्पठित: वेदः शुक्लयजुर्वेदनाम्ना लोके प्रसिद्धिमगात् ।
शतपथब्राह्मणे कियत्सुस्थलेषु याज्ञवल्क्यजनकयोर्मध्ये अग्निहोत्रसम्बन्धी वार्तालाप: संकलितः। बृहदारण्यकोपनिषदि याज्ञवल्क्य: दार्शनिकरूपेण विख्यातः । याज्ञवल्क्य: महर्षिजनकं परमात्मज्ञानं चाध्याप्य सहस्रं गा: दक्षिणारूपेण गृहीतवान्[५९] । पाणिनीयवार्तिके [६०]कात्यायन: याज्ञवल्क्यस्य नाम गृह्णाति । याज्ञवल्क्यः आरण्यकादिकमपि आदित्यादधीतवानिति स्वयं प्रतिपादयति[६१] ।
महर्षियाज्ञवल्क्य: मिथिलाप्रान्ते न्यवसत्। जनकस्याध्यात्मगुरुत्वेनासौ सर्वजनविदितः। मिथिलाप्रान्ते मधुवनीमण्डले नेपालसीम्नि कस्मिंश्चिद् ग्रामेऽसावुदपद्यत इति ऐतिहासिकानामभिमतम् । याज्ञवल्क्यस्मृतेराचाराध्यायस्य द्वितीयश्लोकादपि तस्य मैथिलत्वं प्रकाशितं भवति [६२]। जनकसान्निध्यात् महर्षियाज्ञवल्क्य: त्रेतायुग एव वर्तमान आसीदिति ज्ञायते। परन्तु याज्ञवल्क्यस्मृतेः संकलनं परवर्तिनि काले एवाभवदिति तत्स्मृत्यनुशीलनाज्ज्ञायते। ऐतिहासिकानां मतानुसार याज्ञवल्क्यस्मृतिः ख्रीष्टात् पूर्वं प्रथमशतकादारभ्य ख्रीष्टीयप्रथम शतकाभ्यन्तर एव संकलिता । याज्ञवल्क्यस्मृतौ विश्वरूपाचार्येण ख्रीष्टीय नवमशतके बालक्रीडाटीका विरचिता। अतोऽस्या: कालः ततः पूर्वमेव स्थापयितुं शक्यते । मनु - कौटल्ययोः वचनमुद्धरन् याज्ञवल्क्यस्मृति: ख्रीष्टात् पूर्वं प्रथमशतकात् पूर्ववर्ती न भवेत्। डा. जुलीयस जोलीमतानुसारं याज्ञवल्क्यस्मृति: तन्त्रवार्त्तिकप्रणयनकालात् शतकत्रयात् पूर्वमन्यूनं भवेत् । अतः ख्रीष्टीयतृतीय शतकात् परं न सम्भवेत् । याज्ञवल्क्य: मुद्राभेदेषु नाणकं प्रतिपादयति । नाणकस्य व्यवहारः कुषाणयुगे प्रारब्धोऽभवत्। एभिः प्रमाणैरैतिहासिका: अमुमेव कालं स्थिरीकुर्वन्ति ।
याज्ञवल्क्यस्मृतौ निर्णयसागरसंस्करणे १००९ श्लोकाः, त्रिवेन्द्रम् संस्करणे १००३ श्लोकाः, आनन्दाश्रमसंस्करणेऽपरार्कटीकायां १००६ श्लोकाः तथा दीपकलिकाटीकायां १०१० श्लोकाश्च सन्ति । याज्ञवल्क्यस्मृतेः विषया: त्रिष्वेवाध्यायेषु विभक्ताः। ते चाध्यायाः यथा - आचाराध्यायः, व्यवहाराध्यायः, प्रायश्चित्ताध्यायश्चेति। ते चाध्यायाः पुनः प्रकरणेषु विभक्ताः सन्ति । तत्र प्रथमतः आचाराध्याये त्रयोदशप्रकरणानि, ३६८ श्लोकाश्च वर्त्तन्ते । तानि यथा उपोद्धातप्रकरण - ब्रह्मचारिप्रकरण - विवाहप्रकरण - जातिविवेकप्रकरण - गृहस्थधर्मप्रकरण- स्नातकव्रतप्रकरण- भक्ष्याभक्ष्यप्रकरण- द्रव्यशुद्धिप्रकरण दानधर्मप्रकरण - श्राद्धप्रकरण - गणपतिकल्पप्रकरण - ग्रहशान्तिप्रकरण - राजधर्मप्रकरणानि ।
द्वितीये व्यवहाराध्याये पञ्चविंशतिप्रकरणानि, ३०७ श्लोकाश्च वर्तन्ते। तानि यथा- साधारणव्यवहारमातृका - असाधारणव्यवहारमातृका - ऋणादान उपनिधि- साक्षि - लेख्य- दिव्य-दायविभाग- सीमाविवाद - स्वामिपालविवाद अस्वामिविक्रय - दत्ताप्रदानिक-क्रीतानुशय- अभ्युपेत्याशुश्रूषा- संविद्व्यतिक्रमवेतनादान- द्यूतसमाह्वय- वाक्पारुष्य- दण्डपारुष्य - साहसप्रकरण विक्रीयासंप्रदान- संभूयसमुत्थान-स्तेयप्रकरण- स्त्रीसंग्रहण - प्रकीर्णकप्रकरणानि।
तृतीये प्रायश्चित्ताध्याये चतुर्दशप्रकरणानि,३३४ श्लोकाश्च विद्यन्ते। तानि यथा - सूतकप्रकरणम्, आपद्धर्मप्रकरणं, वानप्रस्थप्रकरणं, यतिधर्मप्रकरणं, प्रायश्चित्तप्रकरणं, कर्मविपाकप्रकरणं, महापातकादिनिमित्तपरिगणनप्रकरणं, महापातकप्रायश्चित्तान्यातिदेशिकसहितानि इति प्रकरणं, उपपातकप्रायश्चित्त प्रकरणं, प्रकीर्णकप्रायश्चित्तप्रकरणं, पतितत्यागविधिप्रकरणं, व्रतग्रहणविधि प्रकरणं, रहस्यप्रायश्चित्ताधिकारप्रकरणं, कृच्छ्रादिलक्षणप्रकरणं चेति।
याज्ञवल्क्यस्मृतेः शैली सरला , धाराप्रवाहा, निगूढार्था, संक्षिप्ता च दृश्यते। याज्ञवल्क्यस्मृति: मनुस्मृत्यपेक्षया अधिकं व्यवस्थिता वर्त्तते। मनुना प्रतिपादिताः सर्वे विषयाः संक्षेपतोऽत्र वर्णिता: सन्ति । वेदातिरिक्तानां षण्णां वेदाङ्गानां चतुर्दशविद्यानां च चर्चा याज्ञवल्क्यस्मृतौ[६३] प्राप्यते। याज्ञवल्क्यस्मृतौ[६४] याज्ञवल्क्यव्यतिरिक्तानामन्येषामूनविंशतिधर्मशास्त्रप्रयोजकानां नामान्युद्धृतानि। अत्राध्यात्मशास्त्र - दण्डनीतिविषययोः विपुलं वर्णनं विद्यते। धर्मशास्त्रार्थशास्त्रयोः विरोधे धर्मशास्त्रस्य प्राधान्यं याज्ञवल्क्येन प्रतिपादितम्[६५]। मनुस्मृति - कौटल्यार्थशास्त्र - विष्णुधर्मसूत्राणां विषयसाम्यं याज्ञवल्क्यस्मृतौ केषुचित् स्थलेषु प्राप्यते। याज्ञवल्क्यस्मृतेः शुक्लयजुर्वेदेन सह निविडसम्बन्धः दृश्यते। बहुषु स्थलेषु वाजसनेयिसंहिताया: मन्त्रा: याज्ञवल्क्यस्मृतावुद्धताः। कियन्तः श्लोका: बृहदारण्यकोपनिषद: केवलमन्वयरूपाः। पारस्करगृह्यसूत्र- कात्यायनीय श्राद्धकल्पयोः कियन्तः विषया अत्रापि दृश्यन्ते । मित्र याज्ञवल्क्यस्मृतिः पूर्णरूपेण अनुष्टुब्छन्दसा रचिता ।
याज्ञवल्क्यः चतुर्दशविद्यानां परिचयं प्रददाति । सः योगशास्त्रमारण्यकं च प्रणीतवानिति स्वयं प्रतिपादयति । प्रथमाध्याये इतिहास- पुराण- वाकोवाक्य- नारसिंहीगाथा आन्वीक्षिकी - दण्डनीतिप्रभृतीनुद्धरति । गौतमोक्त[६६] अष्टावात्मगुणान् याज्ञवल्क्य:[६७] प्रतिपादयति । दोन याज्ञवल्क्यस्मृतेरनेके टीकाकाराः सन्ति । ते भवन्ति यथा -
१. ख्रीष्टीयनवमशतकोत्पन्न: विश्वरूपाचार्य: - बालक्रीडाटीकाकर्ता । त्रिवेन्द्रम् संस्कृतसिरिजद्वारा इयं टीका प्रकाशिताऽस्ति ।
२. ख्रीष्टीयदशमशतकोत्पन्न: अपरादित्यः - अपरार्कधर्मनिबन्धाख्यटीकाया: कर्ता। आनन्दाश्रममुद्रणालयः, पुनाद्वारा इयं टीका १९०४ ख्रीष्टाब्दे प्रकाशिता।
३. ख्रीष्टीयैकादशशतकोत्पन्न: आचार्य: विज्ञानेश्वर:- मिताक्षराटीकाया: प्रणेता । सर्वप्रथममियं टीका निर्णयसागरमुद्रणालय, बम्वेद्वारा १८९२ ख्रीष्टाब्दे मोघेमहोदयानां सम्पादनया प्रकाशिता विद्यते ।
४. चतुर्दशशतकोद्भवः भट्टशूलपाणिः - दीपकलिकाटीकाकारः। इयं टीका आनन्दाश्रममुद्रणालयः , पुना द्वारा १९३९ ख्रीष्टाब्दे प्रकाशिता आसीत् ।
५. षोडशशतकोद्भव: महामहोपाध्यायमित्रमिश्रः - वीरमित्रोदयटीकाकारः। इयं टीका चौखम्बा संस्कृत सिरिज, वाराणसीद्वारा प्रकाशिता विद्यते। ६. षोडशशतकोत्पन्न: नन्दपण्डितः - प्रमिताक्षराटीकाकारः। याज्ञवल्क्यस्मृतिव्यतिरिक्ता याज्ञवल्क्यनाम्ना अन्याः तिस्रः स्मृतय उपलभ्यन्ते। यथा - १)योगियाज्ञवल्क्यस्मृतिः, २)बृहद्योगियाज्ञवल्क्यस्मृतिः, ३) ब्रह्मोक्तयाज्ञवल्क्यसंहिता च। तुलनात्मकदृष्ट्या एताः तिस्रः स्मृतयः याज्ञवल्क्यस्मृतितः प्राचीना: मन्यन्ते । विश्वरूपाचार्य - विज्ञानेश्वर - अपरार्काः वृद्धयाज्ञवल्क्यस्य उद्धरणानि प्रददति। मिताक्षरायां बृहद्याज्ञवल्क्यस्योद्धरणानि प्राप्यन्ते। वाचस्पतिमिश्रोऽपि योगसूत्रभाष्ये योगियाज्ञवल्क्यस्य श्लोकार्धमुद्धरति। अपरार्क- माधवाचार्य - कुल्लूका अपि योगियाज्ञवल्क्यस्योद्धरणानि आलोचयन्ति।
बृहद्योगियाज्ञवल्क्यस्मृतौ मनुस्मृते:, भगवद्गीतायाः, उपनिषदां च साक्षाच्छ्लोका उद्धृता: दृश्यन्ते। पराशरमाधवीये आचारकाण्डे वृद्धयाज्ञवल्क्यस्य मतानि वारत्रय, व्यवहारकाण्डे च वारमेकमुद्धृतमस्ति। अधुना तासां स्मृतीनां सामान्य परिचय: प्रदीयते।।
१. योगियाज्ञवल्क्यस्मृति:
[सम्पादयतु]स्मृतिरियं त्रिवेन्द्रम् संस्कृत सिरिजद्वारा १९३८ ख्रीष्टाब्दे प्रकाशिता। अत्र द्वादशाध्यायाः , ५०६ (४९६ मूलश्लोकाः + १० प्रक्षिप्तश्लोकाः) श्लोकाश्च विद्यन्ते । अत्राध्यायानुसारं विषयाश्च यथाक्रमं -
प्रथमाध्याये - ऋषीणां समवायः , मैत्रेयी गार्गी चोपस्थिते । गार्गी याज्ञवल्क्यं योगशिक्षां दातुमनुरोधं कृतवती। योगः, तदङ्गानि च, ब्रह्मसान्निध्य लाभोपयोगिशिक्षादानार्थं च याज्ञवल्क्यस्य प्रतिश्रुतिः , प्रवृत्तिनिवृत्तिकर्माणि च ।
द्वितीये - आश्रमचतुष्टयम् , ऋणत्रयप्रतिपादनम्, वर्णभेदेनाश्रमस्वीकरणम्,
यमनियमाः, योगस्याष्टाङ्गानि च ।
तृतीये - आसन - नाडीप्रभृतीनां विवरणम् ।
चतुर्थे - शरीरस्थिताः दशवायवः , तेषां कर्माणि च ।
पञ्चमे - नाडीशुद्धिः।
षष्ठे - पूरक-कुम्भक-रेचकानां स्वरूपम्, प्राणायामः, तत्र पठनीया: वैदिकमन्त्राश्च।
सप्तमे - प्रत्याहारः , योगस्य त्रीणि आभ्यन्तराङ्गानि च ।
अष्टमे - पञ्चविधधारणा , प्राणवायुनियन्त्रणं च ।
नवमे - ध्यानम् ।
दशमे - समाधिः।
एकादशे - विस्तृतभावेन योगस्याष्टाङ्गानि प्रतिपादितानि ।
द्वादशे - योगाङ्गानां प्रतिपादनञ्च।।
पराशरमाधवीये आचारकाण्डे एकविंशतिस्थलेषु योगियाज्ञवल्क्यस्य उद्धरणानि प्राप्यन्ते ।
२. बृहद्योगियाज्ञवल्क्यस्मृतिः
[सम्पादयतु]जाण इयं स्मृति: १९५१ ख्रीष्टाब्दे पण्डितरघुनाथशास्त्रिकोक्जेमहोदयानां सम्पादनया स्वामिकुवलयानन्देन कैवल्यधाम, लोनावला, बम्वेद्वारा प्रकाशिता । अस्याः प्रणयनकाल: ख्रीष्टीयतृतीयशतकादारभ्य सप्तमशतकाभ्यन्तरे निश्चीयते। कृत्यकल्पतरुकार: लक्ष्मीधरभट्टः बृहद्योगयाज्ञवल्क्यस्मृते: मोक्षकाण्डस्य दशश्लोकान्, ब्रह्मचारिकाण्डस्य च षोडशश्लोकानुद्धरति । श्रीदत्त: छन्दोगाह्निके तस्याः स्मृतेः पञ्चदशश्लोकानुढेंकयति ।
अत्र द्वादशाध्यायाः, ९३० श्लोकाश्च सन्ति । स्मृतेरस्या: अध्यायानुसार विषयाः यथाक्रमः -
प्रथमाध्याये - ४४ श्लोकाः , वेदाः , स्मृतयः , चतुर्दशविद्याः , आत्मज्ञानं, मन्त्रजपकर्मणि पञ्च पालनीया: नियमाः, ऋषि -छन्द:- देवता - विनियोगोद्देश्यानि ।
द्वितीये - १५८ श्लोकाः, प्रणवस्य सर्वमन्त्रेषु श्रेष्ठत्वं, मात्राया अष्टभेदाश्च।
तृतीये - ३२ श्लोकाः, व्याहृतिभेदाः।
चतुर्थे - ८२ श्लोकाः, गायत्रीस्वरूपम् , तस्याः ऋषि - छन्दः - देवता - विनियोगाश्च।।
पञ्चमे - सार्द्ध १२ श्लोकाः, मन्त्रशरीरे प्रणव-व्याहृति-गायत्रीणां न्यासः।
षष्ठे - ३१ श्लोकाः, सन्ध्योपासनाविधिः।
सप्तमे - १९६ श्लोकाः, स्नान - तर्पण - सन्ध्योपासना - जपाः।
अष्टमे - ५६ श्लोकाः, प्राणायाम - प्रत्याहारौ ।
नवमे - १९८ श्लोकाः, ध्यानस्वरूपं , तस्येतिकर्तव्यता च ।
दशमे - सार्द्ध २० श्लोकाः, सूर्योपस्थानम् ।
एकादशे - ५६ श्लोकाः, योगधर्माभ्यासः।
द्वादशे - ४९ श्लोकाः, शास्त्राणां मूलोत्स: वेदः , चतुर्दशविद्याः , मनोः प्रशंसा च ।
३. ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[सम्पादयतु]नागप्रकाशिते स्मृतिसन्दर्भे चतुर्थखण्डे एका ब्रह्मोक्तयाज्ञवल्क्यसंहिता संकलिताऽस्ति । इयं च संहिता ब्रह्मणा प्रणीता वर्त्तते । सप्तर्षीणां सन्निधौ परमेष्ठी पितामहः अखिलवैदिकज्ञानोपेतं शास्त्रमिदमुपदिष्टवान् । अत्राष्टादशधर्म प्रयोजकानां नामानि प्रदत्तानि सन्ति । ते भवन्ति यथा - मनु-अङ्गिरा:- व्यास गौतम-उशना:-यम-वसिष्ठ-दक्ष-संवर्त्त-शातातप-पराशर-आपस्तम्ब-हारीत शंख-कात्यायन- बृहस्पति- ब्रह्मा- विष्णवः। तत्र त्रयोदशाध्यायाः, १३५३ श्लोकाश्च सन्ति । तत्र प्रतिपादिता: विषया: अध्यायक्रमेण यथा -
प्रथमाध्याये - ४७ श्लोकाः, चतुर्वेदानां शाखावर्णनम् , वेदप्रमाणोपन्यासवर्णनं च ।
द्वितीयाध्याये - २११ श्लोकाः, नित्यनैमित्तिककर्मवर्णनं, प्राणायामवर्णनं, त्रैकालिकसन्ध्याविधिवर्णनं, तर्पणविधिवर्णनं, देवपूजाविधानं, बलिवैश्व का देववर्णनं, भोजनविधिवर्णनं, श्वकाकोच्छिष्टभक्षणप्रायश्चित्तवर्णनञ्च ।
तृतीयाध्याये - ७६ श्लोकाः, नैमित्तिकश्राद्धविधिवर्णनं, श्राद्धकर्मवर्णनं, नैमित्तिकश्राद्धविधिवर्णनं, नैमित्तिक एकोच्छिष्टश्राद्धविधिवर्णनञ्च ।
चतुर्थाध्याये - १६४ श्लोकाः, श्राद्धविधिवर्णनं ।
पञ्चमाध्याये - २९ श्लोकाः, आत्मकल्पनाशशस्त्रहते यजुषां निरग्निश्राद्धविधिवर्णनम् ।
षष्ठाध्याये - २५ श्लोकाः, यजुषां निरग्निश्राद्धविधिवर्णनम् ।
सप्तमाध्याये - ६० श्लोकाः, यजुषां निरग्निके वृद्धिश्राद्धप्रकरणम् ।
अष्टमाध्याये - ३६१ श्लोकाः, ब्रह्मचारिधर्मवर्णनं, विवाहप्रकरणं, संस्कारवर्णनञ्च।
नवमाध्याये - ५५ श्लोकाः, तिथिप्रकरणम् ।
दशमाध्याये - १६० श्लोकाः, विनायकशान्तिवर्णनं, ग्रहशान्तिवर्णनञ्च ।
एकादशाध्याये - ७० श्लोकाः, दानप्रकरणम् ।
द्वादशाध्याये - ६३ श्लोकाः, प्रायश्चित्तप्रकरणं, शुद्धिप्रकरणञ्च ।
त्रयोदशाध्याये - ३२ श्लोकाः, अशौचवर्णनञ्च ।
पराशरः
[सम्पादयतु]महर्षिपराशरः वैदिकमन्त्रद्रष्टषु सप्तर्षिषु अन्यतम आसीत् । पराशरः महाभारते वासिष्ठज - शक्तिपुत्र - व्यासपितृ - सत्यवतीपतीत्यादिनामभिः परिचितो भवति । सोऽपि वसिष्ठस्य शिष्येषु शाखासु चान्यतम आसीत् । पराशरस्य प्रसिद्धपुत्रः कृष्णद्वैपायनोऽन्तिमव्यासरूपेण परिचितः। कृष्णद्वैपायन: महाभारतस्य प्रणेतृत्वेन सर्वजनविदितः। ऋग्वेदे[६८] वसिष्ठस्य पौत्रत्वेन पराशरः वर्णितः। असौ ऋग्वेदानुयायी आसीत् ।
पाणिनिः[६९] पाराशर्य्यसम्बन्धिनं भिक्षुसूत्रमेकं प्रणयति । निरुक्तमपि[७०] पाराशर्य्यस्य प्रशंसां करोति । तैत्तिरीयारण्यके[७१] व्यासपाराशर्य्यस्योल्लेखो प्राप्यते। बृहदारण्यकोपनिषद्यपि[७२] पराशरः स्मर्यते। कौटल्योऽपि[७३] पाराशरीयशब्देन पराशरस्य मतानि षड्वारं प्रतिपादयति। अस्मादनुमीयते यत् पराशरस्य व्यवहारविषयोपरि काचित् कृतिरासीदिति । महाभारतस्य[७४] शान्तिपर्वणि पराशर जनकयोर्मध्ये विस्तृत सम्भाषणं परिदृश्यते। याज्ञवल्क्योक्तविंशतिधर्मप्रयोजकेषु[७५] पराशरोऽन्तर्भवति। गरुडपुराणेऽपि[७६] ऊनचत्वारिंशद्भिः श्लोकैः पराशरस्मृतेः संक्षिप्तसार: प्रतिपादितः।
महर्षिपराशरः उत्तरभारतीय आसीत् । विशेषत: वद्रिकाश्रमे निवासं कृतवानिति पराशरस्मृतेरनुशीलनाज्ज्ञायते । धर्मज्ञानार्थं व्यासप्रभृतीनां महर्षीणां पराशरसमीपं वद्रिकाश्रमगमनमेव तत्स्पष्टं सूचयति। पराशरः तैत्तिरीयारण्यक - बृहदारण्यकोपनिषत् - कौटल्यार्थशास्त्र - पाणिनिसूत्र- निरुक्त- महाभारतादिषु प्रसिद्धत्वात्तस्य प्राचीनत्वे न काऽपि विप्रतिपत्तिः। किन्तु पराशरस्मृते: प्रणयनकाल: पौर्वापर्याकलनया ऐतिहासिकैः ख्रीष्टीयप्रथमशतकाभ्यन्तर एव निश्चितः। याज्ञवल्क्यस्मृतौ पराशरस्य नामोद्धृतत्वात् पराशरः तस्मात् प्राचीनोऽपि सम्भवेत् ।
पराशरस्मृतेः प्रतिपाद्यविषयाः -
[सम्पादयतु]पराशरस्मृतौ द्वादशाध्यायाः, ६०६ श्लोकाश्च विद्यन्ते। अत्राध्यायानुसार प्रतिपादितविषयाः यथा -
प्रथमे - ७० श्लोकाः, धर्मज्ञानार्थमृषीणां व्याससमीपमागमनम् , स्वपितुः पराशरस्य समीपं गन्तुं व्यासस्योपदेशः, पराशरस्य धर्मशास्त्रविषयकथनम्, चतुर्वर्णानां चतुराश्रमिणां कर्त्तव्यानि।
द्वितीये - २० श्लोकाः, गृहस्थधर्माः।
तृतीये - ५० श्लोकाः, जननाशौचं, मृतकाशौचं च ।
चतुर्थे - ३३ श्लोकाः, विविधप्रकाराणि प्रायश्चित्तानि ।
पञ्चमे - २५ श्लोकाः, श्वदष्टप्रायश्चित्तम् , अन्त्येष्टिक्रिया:।
षष्ठे - ७५ श्लोकाः, विविधप्रायश्चित्तानि, कर्महानौ प्रायश्चित्तानि च।
सप्तमे - ४२ श्लोकाः, शुद्धिस्वरूपम् , प्रायश्चित्तस्वरूपं च।
अष्टमे - ४९ श्लोकाः, परिषत्स्वरूपम्, परिषदा पापिन: प्रायश्चित्तनिर्णयः, वेदपठनफलञ्च।
नवमे - ६२ श्लोकाः, गोषु रोधबन्धनादिषु प्रायश्चित्तानि, प्राजापत्यविधयश्च ।
दशमे - ४३ श्लोकाः, विभिन्नपापानां कृते प्रायश्चित्तानि ।
एकादशे - ५७ श्लोकाः, वर्णसङ्करजातीनां कृते प्रायश्चित्तानि।
द्वादशे - ८० श्लोकाः, विविधप्रायश्चित्तानि चेति।
पराशरस्मृतौ पराशर विहाय तदतिरिक्तानां द्वाविंशतिमहर्षीणां नामानि वचनानि च गृहीतानि सन्ति । ते भवन्ति यथा - अत्रि- आङ्गिरस- आपस्तम्ब उशनाः - कात्यायन - काश्यप - गागेय- गौतम - दक्ष - प्रजापति- प्राचेतस मन - याज्ञवल्क्य - मानवधर्म - लिखित - वसिष्ठ - विष्णु - व्यास - शङ्ख - शातातप- संवर्त्त- हारीताः। पराशरस्मृतौ विशेषत आचार- प्रायश्चित्त विषययोरवतारणा भवति । यद्यपि धर्मनिबन्धग्रन्थेषु पराशरनाम्ना कानिचन व्यवहारविषयकवचनानि दृष्टिपथमायान्ति तथापि तेषां वचनानां सूचनाऽपि स्मृतावस्यां नोपलभ्यते।
संस्करणानि -
पराशरस्मृति: बहुवारं प्रकाशिता । तासां विवरणमिदानी प्रस्तूयते ।
१. ठाकुरप्रसाद एण्ड सन्स , वारणासी द्वारा प्रकाशितायां शिवदत्तीभाषा टीकासहितायां पराशरस्मृतौ ६११ श्लोकाः प्राप्यन्ते।
२. एसियाटिक सोसाइटि आफ् वेङ्गल, कलिकताद्वारा प्रकाशितायां पराशरमाधवीयटीकासहितायां पराशरस्मृतौ ५७९ श्लोकाः विद्यन्ते ।
३. चौखम्बा विद्याभवन, वाराणसीद्वारा प्रकाशितायां हिन्दीटीकासहितायां पराशरस्मृतौ ६०९ श्लोकाः सन्ति ।
४. परिमल पब्लिकेशन्स, दिल्लीद्वारा प्रकाशितायां पराशरस्मृतौ ६११ श्लोकाः विद्यन्ते ।
वैशिष्ट्यम् -
पराशरस्मृतौ कानिचन विलक्षणतत्त्वान्यपि दृश्यन्ते। यथा -
१. पराशर: चतुर्विधान् पुत्रान् स्वीकरोति । ते यथा- औरस- क्षेत्रज- दत्तकृत्रिमाः।
२. अत्र सतीप्रथायाः प्रशंसा क्रियते।
३. मनुवचनैः साकमन्येषां केषाञ्चन धर्मशास्त्रकाराणां मतान्यपि असावुद्धरति। मनोरनेके श्लोकाः पराशरस्मृतौ साक्षादुद्धृताः दृश्यन्ते।
४. पराशरस्मृतावेकादशाध्याये बहवः ऋग्वेदोक्ता: मन्त्राः उद्धृताः सन्ति।
५. अनुष्टुब्छन्दोऽतिरिक्तमत्र कियन्त: श्लोकाः इन्द्रवज्राछन्दसा रचिताः दृश्यन्ते।
६.आग्नेय- वारुण- ब्राह्म- वायव्य- दिव्यसंज्ञका: पञ्चस्नानभेदा: प्रतिपादिताः।
७. ब्राह्मणोऽत्र जंगमतीर्थरूपेणाभिहितः।
८. सन्ध्यास्नान - जप - होम - देवपूजन - आतिथ्य - वैश्वदेवाख्यानि षट् कर्माणि ब्राह्मणनिमित्तमुद्दिष्टानि सन्ति।
पराशरस्मृतौ माधवाचार्यकृता पराशरमाधवीयटीका सुप्रसिद्धा। सा च एसियाटिक सोसाइटि अफ् वेङ्गल, कलिकताद्वारा १९७२ ख्रीष्टाब्दे प्रकाशिता विद्यते ।
एतदतिरिक्ताऽन्यैका कृतिः बृहत्पराशरसंहितानाम्ना प्राप्यते। अस्याः संकलक: महर्षिसुव्रत आसीत् । इयं च जीवानन्दविद्यासागरेण प्रकाशिताऽस्ति । सुव्रतस्यानुरोधेन पराशरेणेयं स्मृतिरुपदिष्टेति तत्र लिखितमस्ति । अस्यामनुष्ट बतिरिक्तमिन्द्रवज्रा- वसन्ततिलकछन्दांसि प्रयुक्तानि दृश्यन्ते। अस्याः वचनानि चतुर्विंशतिमत - दत्तकमीमांसादिषट्टङ्कितानि सन्ति । वृद्धपराशरनाम्ना कानिचन वचनानि अपरार्क - माधवाचार्यावुद्धरतः। ज्योति:पराशरनाम्ना कानिचन वचनानि हेमाद्रि- स्मृतिचन्द्रिकादिषूद्धृतानि सन्ति। पराशरहोरानाम्ना कश्चन ग्रन्थ: चौखम्बा संस्कृत संस्थान, वाराणसीद्वारा प्रकाशितोऽस्ति । कृषिपराशरग्रन्थोऽपि पराशरस्यान्या कृतिः, या एसियाटिक सोसाइटि अफ वेंगलद्वारा प्रकाशिताऽस्ति।
बृहत्पराशरसंहितायां द्वादशाध्यायाः, ३३०० श्लोकाश्च विद्यन्ते। अत्राध्यायानुसारं प्रतिपादितविषयाः यथा -
प्रथमे - ६२ श्लोकाः, उपक्रमः , आर्यावर्त्तपरिसीमा , ऊनविंशतिधर्मशास्त्रकाराणां नामानि, स्मृतेरस्याः प्रतिपाद्यविषयाणां संक्षिप्तपरिचयश्च।
द्वितीये - ४६० श्लोकाः, द्विजातीनां षड्विधकर्मणां विस्तृतविवरणम् , अन्यजातीनां कर्त्तव्यानि च । अत्र मनु - याज्ञवल्क्य - गोभिल - शङ्ख - सनन्दन- सनत्कुमाराणां नामान्युद्धृतानि ।
तृतीये - १८४ श्लोकाः, चतुर्वर्णान्तर्गतानां गृहस्थानां कर्तव्यानि, गृहस्थस्य कर्षणवपननियमकथनं , गोसेवा च।
चतुर्थे - ३७२ श्लोकाः, विवाहभेदाः, तेषां स्वरूपञ्च, स्त्रीधर्माः, पतिधर्माः, संस्काराः, दान, दानाधिकारिणश्च, ब्रह्मचारिकर्त्तव्यानि, स्नातकभेदाश्च ।
पञ्चमे - ३९० श्लोकाः, पितृपुरुषेभ्य: तिलतर्पणपिण्डदानविधयः।
षष्ठे - ३३९ श्लोकाः, जननमरणाशौचम् , प्रायश्चित्तानि च ।
सप्तमे - ४१२ श्लोकाः, कृच्छ्र- चान्द्रायणादीनि व्रतानि।
अष्टमे - ३७६ श्लोकाः, गोदानविधि:, अन्यदानानि च।
नवमे -३३६ श्लोकाः, अरिष्टशान्त्यर्थं गणेश्वर-ग्रह-रुद्रादीनां पूजनं, होमाश्च।
दशमे - १४५ श्लोकाः, राजधर्मः।
एकादशे - २९ श्लोकाः, चतुराश्रमिणां कर्त्तव्यानि, भेदाश्च।
द्वादशे - १९५ श्लोकाः, प्राणायाम: , योगस्याष्टाङ्गमार्गाश्चेति ।
नारदः
[सम्पादयतु]वृद्धयाज्ञवल्क्यस्मृतौ परिगणितेषु धर्मशास्त्रकारेषु नारदः स्थान प्राप्नोति। परन्तु याज्ञवल्क्यकथितेषु , पराशरोक्तेषु धर्मप्रयोजकेषु च नारदः नान्तर्भवति। नारदः संस्कृतसाहित्येऽत्यन्तं प्राचीनं नाम । मनुः[७७] नारदं प्रजापतिष्वन्तर्भावयति। महाभारते नारदः यत्र क्वचन दृश्यते । नारदः पर्वतस्य मातुल आसीदिति शान्तिपर्वणि[७८] उच्यते । महाभारतयुद्धात् परं नारदः युधिष्ठिरसमीपमागत्य तं ज्ञातिसोदराणां मरणे नानुशोचितुं सान्त्वनां प्रदत्तवान् । पुराणेषु सर्वत्र कलहप्रिय महर्षिरूपेणासौ परिचितः। तथा च देव- ऋषि- नृपाणां वार्तावहरूपेण प्रसिद्धः। महर्षिनारद उत्तरभारतीय आसीत्। तत्कृतस्मृतौ मथुरा-कान्यकुब्जादीनामुद्धरणं बहुत्रोपलब्धत्वादेवं तर्कयितुं शक्यते। नारदस्मृतिः याज्ञवल्क्यस्मृतेः परमेव प्रणीताऽभवत् । याज्ञवल्क्यः पञ्चविधानि दिव्यानि प्रतिपादयति । परन्त नात सप्तविधानि दिव्यानि स्वीकरोति । व्यवहारविधौ नारदः याज्ञवल्क्यापेक्षयाऽधिकः शृङ्खलितः दृश्यते । अस्मादनुमीयते यत् नारदस्मृतिः याज्ञवल्क्यस्मृतेः प्रणयनात् परमेव संकलिताऽऽसीत् । के. पी. ज्यायसवालस्य मतानुसारं नारदस्मृतौ दीनारशब्दस्य प्रयोगान्नारदस्मृतिः गुप्तयुगस्य समकालमर्थात् ख्रीष्टीयचतुर्थशतके एव प्रणीता भवेत् । नारदस्मृतेः भाष्यकारः असहायोऽष्टमशतकात् पूर्वं विद्यमान आसीत् । दीनारशब्दप्रयोगस्याधारेण नारदस्मृतेः कालः ख्रीष्टीयद्वितीयशतके तत्परवर्त्तिकाले वा सम्भवेत् । बाणभट्टस्य कादम्बा नारदीयराजधर्मः विवृतः। अतः नारदस्मृतिः बाणभट्टकालात् पूर्वं लिखिता भवेत् । विक्रमोर्वशीयस्यैकं पदं नारदस्मृतावपि समानतया प्रतिपादितं दृश्यते। अतः कालिदासस्य समयाधारण नारदस्मृतेः कालः ख्रीष्टीयपञ्चमशतकात् पूर्वमवश्यं सम्भवेत् । कौटल्यार्थशास्त्रे उद्धृतः नारदः पिशुननाम्ना ख्यातः, यदि स एवासौ नारद इत्युच्येत तर्हि तस्य कालः ख्रीष्टात् पूर्वमपि सम्भाव्येत।
नारदस्मृतेः प्रतिपाद्यविषयाः
[सम्पादयतु]प्रकाशितायां नारदस्मृतौ १०२८ श्लोकाः, चत्वारोऽध्यायाश्च विद्यन्ते। चतुर्थेऽध्याये सर्वविधाः व्यवहाराः विचारिताः सन्ति । तत्राध्यायक्रमेण प्रतिपादितविषयाः यथा -
प्रथमाध्याये - ७४ श्लोकाः - विचारदर्शनम् ।
द्वितीयाध्याये - ४४ श्लोकाः - व्यवहारमातृका।
तृतीयाध्याये - १८ श्लोकाः - सभालक्षणम् ।
चतुर्थाध्याये - क - ३४८ श्लोकाः - ऋणादानप्रकरणम् ।
ख - १५ श्लोकाः - उपनिधिः।
ग - १८ श्लोकाः - सम्भूयसमुत्थानम् ।
घ - १२ श्लोकाः - दत्ताप्रदानिकम् ।
ङ - ४३ श्लोकाः - अभ्युपेत्याशुश्रूषा ।
च - २२ श्लोकाः - वेतनस्यानपाकर्म ।
छ - ८ श्लोकाः - अस्वामिविक्रयः।
ज - १२ श्लोकाः - विक्रीयासम्प्रदानम् ।
झ - १६ श्लोकाः - क्रीतानुशयः।।
ञ - ७ श्लोकाः - समयस्यानपाकर्म ।
ट - ४३ श्लोकाः - सीमाविवादः । गणित
ठ - ११३ श्लोकाः - स्त्रीपुंधर्मः।
ड - ५२ श्लोकाः - दायभागः ।
ढ - २७ श्लोकाः - साहसम् ।
ण - ३२ श्लोकाः - वाक्पारुष्य-दण्डपारुष्ये ।
त - ८ श्लोकाः - द्यूतसमाह्वयौ ।
थ - ५५ श्लोकाः - प्रकीर्णकम् ।
(अष्टादशप्रकरणानि)परिशिष्टम् - ६१ श्लोकाः- चौरप्रतिषेधश्च।
नारदः मनुस्मृति बहुलभावेनानुसरति । व्यवहारपदेषु कियत्सु स्थलेषु नारदः भिन्नां संज्ञा प्रयुङ्क्ते । यथा - निक्षेपनामकं विवादपदं नारद उपनिधिनाम्ना कथयति । स्त्रीसंग्रहणाख्यं विवादपदं नारदः साहसेऽन्तर्भावयति । ततोऽधिकतया नारदः त्रीणि विवादपदानि संयोजयति। यथा- अभ्युपेत्याशुश्रूषा, विक्रीया सम्प्रदानम्, प्रकीर्णकं चेति । नारदस्मृतेः सप्तशतश्लोकाः विभिन्ननिबन्धग्रन्थेषुद्धताः दृश्यन्ते । विश्वरूप- मेधातिथि- विज्ञानेश्वराश्चाचारप्रायश्चित्तयोः विषययोः नारदस्यैकमपि वचनं नोपस्थापयन्ति। अग्निपुराणप्रतिपादित-व्यवहाराध्याये[७९] बहवः श्लोकाः नारदोक्तश्लोकैः सह सादृश्यं भजन्ते। मिताक्षराकारः नारदस्मृतेः प्रायः २४० श्लोकान् समुद्धरति। स्मृतिचन्द्रिका - पराशरमाधवीय- विवादरत्ना करप्रभृतिषु निबन्धग्रन्थेषु भूयांसि नारदवचनानि दृश्यन्ते।
नारदः ऋणादानविषये वसिष्ठमतं[८०], पुराणोक्तश्लोकद्वयं चोपस्थापयति। मनोः नाम नारदस्मृतावपि[८१] बहुत्रोद्धृतमस्ति। मनुस्मृतेः प्रायः पञ्चाशत् श्लोकाः नारदस्मृतौ यथावद् दृश्यन्ते। कियन्ति वचनानि याज्ञवल्क्यस्मृतिवचनैः सहापि सादृश्यं भजन्ते । यद्यपि नारदस्मृति: मनुस्मृतावेवाधारिता तथापि बहुषु स्थलेषु मनो: मतानि तेनादृतानि । मनुरग्निदिव्यं जलदिव्यं वा कदाचिद् ग्रहीतुमुपदिशति। परन्तु नारदः पञ्चविधदिव्यानि । ऋणादानप्रकरणे तण्डुलदिव्यं तप्तमाषदिव्यं च प्रदर्शयितुं प्रतिपादयति । मनुः नियोगविधिं निन्दति , नारदस्तु नियोगविधि मनुमिनुते। मनुः पुनर्विवाहं निराकरोति, नारदस्तु पुनर्विवाहं स्वीकुरुते। मनुः सप्तविधान् दासान्, नारदश्च पञ्चदशविधान् दासान् कथयति। नारद: शुक्ल-शबल कृष्णभेदेन धनस्य त्रैविध्यमङ्गीकरोति। षोडशवर्षपर्यन्तं बालत्वं तिष्ठति। तत: व्यवहारज्ञो भवतीति नारदेनोच्यते । नारदोऽष्टोत्तरैकशतविधान व्यवहारान् कथयति, मनुस्तु अष्टादशविधान् व्यवहारान् प्रस्तौति । नारद: मनुस्मृत्यपेक्षया शृङ्खलितरीत्या व्यवहारविषयान् प्रतिपादयति । नारदः दानविधिं चतुर्विभागः, द्वात्रिंशद्भिपविभागैश्च विभजति[८२] ।
संस्करणानि
[सम्पादयतु]नारदस्मृतेरनेकानि संस्करणान्यस्माभिः प्राप्यन्ते। ते भवन्ति यथा -
१. डा. जुलियसजोलीमहोदयेन १८७६ ख्रीष्टाब्दे Sacred Book of the East मध्ये त्रयस्त्रिंशत्तमे भागे नारदस्मृति: प्रकाशिता।
२. असहायभाष्यसमन्विता कल्याणभट्टसंशोधिता नारदस्मृति: भण्डारकरप्राच्यविद्यासंशोधनागार, पूनामध्ये प्रकाशिता ।
३. कालिकापत्तनसंस्कृतमहाविद्यालयेन १८७३ शकाब्दे पण्डितनारायणचन्द्रस्मृतितीर्थेन संपादिता नारदस्मृति: प्रकाशिता।
४. तिलोत्तमाहिन्दीटीकोपेता प्रो.व्रजकिशोरस्वाईमहोदयेन संपादिता नारदस्मृतिः १९९६ ख्रीष्टाब्दे चौखम्बा संस्कृत भवन, वाराणसीद्वारा प्रकाशिता।
५. त्रिवेन्द्रम् संस्कृत सिरिजद्वारा १९२९ ख्रीष्टाब्दे के. साम्बसदाशिवशास्त्रीद्वारा आभा भवस्वामिभाष्यसहिता नारदीयमनुसंहिता प्रकाशिता।
नारदस्मृते: टीकाद्वयमद्यावधि दृष्टिपथमागतम् । तच्च भवति यथा -
१) असहायकृता टीका ।
२) भवस्वामिकृता टीका च ।
एतदतिरिक्तः कश्चन ज्योतिर्नारद: भट्टोजीदीक्षितेन चतुर्विंशतिमते उद्धृतः। रघुनन्दनस्य कालविवेके बृहन्नारदवचनं, निर्णयसिन्धौ संस्कारकौस्तुभे च लघुनारदवचनान्युपलब्धानि भवन्ति।
अङ्गिराः
[सम्पादयतु]याज्ञवल्क्योक्तधर्मप्रयोजकेषु अङ्गिराः परिगणितः। स च ऋग्वेदानुयायी आसीत् । असौ बृहस्पति-संवर्त्तयोः पिता, भरद्वाजस्य च पितामह आसीत्। प्रवराध्यायानुसारमङ्गिरा: प्रवरप्रवर्तक आसीत् । अस्य च काल: ख्रीष्टात् पूर्वं प्रथमशतकादारभ्य ख्रीष्टीयप्रथमशतकाभ्यन्तर एव ऐतिहासिकैः निश्चीयते । असावुत्तरभारतीय आसीत् ।
इयं च स्मृति: नागप्रकाशनद्वारा प्रकाशिते स्मृतिसन्दर्भे स्थान प्राप्नोति। परन्तु तत्राङ्गिरसस्मृतिद्वयं प्रतिपादितमस्ति। तच्च स्मृतिद्वयमाड्यारलाइब्रेरी, माड्रासप्रकाशनानुसारं पूर्वाङ्गिरसोत्तराङ्गिरसभेदेन एकत्रैव सम्पादितमस्ति । इयं च स्मृति: १९५३ ख्रीष्टाब्दे आड्यार लाइब्रेरीद्वारा ए. एन्.कृष्ण आयङ्गार महोदयानां सम्पादनया प्रकाशिता विद्यते।
अत्र पूर्वाङ्गिरसे १११३ श्लोकाः वर्तन्ते । तत्र श्राद्धाशौचविषययोः विस्तरं वर्णनमस्ति । तत्र प्रमुखविषयाः यथा - धर्मस्वरूपं , जातकर्माद्यतिक्रमे प्रायश्चित्तं, दीक्षावृद्धौ श्राद्धं, आशौचे नित्यनैमित्तिकादीनि कर्माणि, श्राद्धाधिकारः, श्राद्धकर्तारः, मृताहस्य परित्यागे प्रायश्चित्तम् , कर्माङ्गस्नानम्, ग्रहणादिषु श्राद्धं,चाक्रिकश्राद्धं, दत्तपुत्रविधिः, अलर्क श्राद्धं, षण्णवतिश्राद्धस्वरूपं, सापिण्ड्यनिरूपणम्, जीवपितृकश्राद्धं , श्राद्धदिने वानि कर्माणि चेति ।
उत्तराङ्गिरसे द्वादशाध्यायाः, १६४ श्लोकाश्च सन्ति। तत्राध्यायानुसारं प्रतिपादिता: विषयाः यथा -
प्रथमाध्याये - १० श्लोकाः। धर्मस्य पर्षदः प्रायश्चित्तस्य च विधिः।
द्वितीयाध्याये - १० श्लोकाः। परिषदुपस्थानम् ।
तृतीयाध्याये - ११ श्लोकाः। प्रायश्चित्तविधानम्।
चतुर्थाध्याये - १० श्लोकाः। प्रायश्चित्तलक्षणम् , परिषल्लक्षणं, तद्भेदाश्च।
पञ्चमाध्याये - १४ श्लोकाः। दशावरापरिषदः स्वरूपम् , प्रायश्चित्तनियन्तृकथनञ्च ।
षष्ठाध्याये - १६ श्लोकाः। प्रायश्चित्ताचारकथनम्।
सप्तमाध्याये - ९ श्लोकाः। पापपरिगणनं, पञ्चमहापातकिनः, पतिताश्च।
अष्टमाध्याये - २० श्लोकाः । प्रतिग्रहे शूद्रान्नभोजने च प्रायश्चित्तम्, प्रतिग्राह्याणि च ।
नवमाध्याये - १६ श्लोकाः। अभक्ष्यभक्षणप्रायश्चित्तम् , शुना दष्टप्रायश्चित्तञ्च।
दशमाध्याये - २१ श्लोकाः। हिंसाप्रायश्चित्तकथनम् ।
एकादशाध्याये - ११ श्लोकाः। गोवधप्रायश्चित्तम् ।
द्वादशाध्याये - १६ श्लोकाः। कृच्छ्रादिस्वरूपकथनम् ।
आङ्गिरसस्मृतौ मनु -हारीत - कात्यायन- गोभिल-शाकलानां नामान्यु भूतानि सन्ति । एतदतिरिक्ता आङ्गिरसनाम्ना द्विविधा कृतिरुपलभ्यते। यथा -
१) आङ्गिरसस्मृति: -
[सम्पादयतु]स्मृतावस्यां ७२ अनुष्टुप्श्लोकाः सन्ति । अत्र मुख्यत: प्रायश्चित्तविषयः विवेचितोऽस्ति । यथोक्तम् -
गृहाश्रमेषु धर्मेषु वर्णानामनुपूर्वशः ।
प्रायश्चित्तविधिं दृष्ट्वा अङ्गिरामुनिरब्रवीत् ॥
अस्या अष्टमश्लोक: यमस्मृत्युक्तश्लोकेन सह, सप्ततितमः श्लोकश्चापस्तम्बेन सह साम्यं दधाति । चतुःपञ्चाशत्तमे श्लोके आपस्तम्बस्य नामोद्धृतमस्ति ।
२) आङ्गिरसधर्मशास्त्रम् -
[सम्पादयतु]धर्मशास्त्रेऽस्मिन् १६८ अनुष्टुप्श्लोकाः सन्ति । धर्मशास्त्रमिदं भरद्वाजादीनां मुनीनामनुरोधेन अङ्गिरसा कथितमासीत् । अत्र प्रायश्चित्त - द्रव्यशुद्धि - अशौचादयः विषयाः प्रतिपादिताः सन्ति ।
शङ्खः
[सम्पादयतु]याज्ञवल्क्येन शङ्खः धर्मप्रयोजकेषु परिगणित:[८३] । शङ्खः शुक्लयजु र्वेदानुयायी आसीत्। युगानुसारं द्वापरयुगे शङ्खस्मृतेः प्रामाणिकता प्रतिपादिता[८४]। शङ्खस्मृतिं शुक्लयजुर्वेदानुयायिनोऽनुसरन्ति। महाभारतस्य शान्तिपर्वणि[८५] शङ्खलिखितयो: वृत्तान्तमुपाख्यानमाध्यमेन वर्णितमस्ति । तदनुसारं महर्षिशङ्खः लिखितमहर्षेरग्रज आसीत् । पालिभाषायां दीघनिकायग्रन्थे[८६] 'शङ्खलिखित ब्रह्मचारीयं चरितुम्' इति लिखितमस्ति । महाभारतोक्तमिदं शङ्खलिखितवृत्तान्तं दीघनिकाये उद्धृतमस्ति।
राज्ञः सुद्युम्नस्य शासनकाले शङ्खः स्वभ्रात्रा लिखितेन सहोत्कलस्य गजाममण्डलान्तर्गत - बाहुदानदीतीरे एव निवासं कृतवान् । उभौ च तौ भ्रातरौ धर्मज्ञानसंपन्नावास्ताम् । महर्षिशङ्खः शङ्खस्मृतिं , भ्रात्रा सह मिलित्वा शङ्खलिखितधर्मसूत्रं च लिखित्वा राज्ञा सुद्युम्नेन बहुसम्मानितोऽभवत् । शङ्खः महाभारतकाले विद्यमानोऽपि तत्प्रणीता स्मृति: कालान्तरे संकलिताऽभवत्। तस्याः स्मृते: काल: ख्रीष्टात् पूर्वं तृतीयशतकादारभ्य ख्रीष्टीयप्रथमशतकाभ्यन्तरे एव ऐतिहासिकैः स्थाप्यते ।
शङ्खस्मृतावाचारप्रायश्चित्तविषययो: वर्णनं प्राप्यते। परन्तु शङ्खलिखित धर्मसूत्रे व्यवहारविषय: सन्निविष्टोऽस्ति । इयं च स्मृति: जीवानन्दसंग्रहे, आनन्दाश्रममुद्रणालयप्रकाशित- स्मृतिसमुच्चये, नवरंगप्रकाशन, दिल्लीद्वारा प्रकाशिते धर्मशास्त्रसंग्रहे , नागप्रकाशिते स्मृतिसन्दर्भे च प्रकाशिता विद्यते । प्रकाशितशङ्खस्मृतावष्टादशाध्यायाः, ३४३ श्लोकाश्चोपलभ्यन्ते। स्मृतिसन्दर्भानुसारं शङ्खस्मृतौ १८ अध्यायाः, ३७५ श्लोकाश्च विद्यन्ते।
अध्यायानुसारं शङ्खस्मृतौ प्रतिपादिताः विषयाः यथा -
प्रथमाध्याये - ८ श्लोकाः। चतुर्णां वर्णानां नैत्यककर्त्तव्यानि ।
द्वितीयाध्याये - १३ श्लोकाः । द्विजानां संस्कारवर्णनम् ।
तृतीयाध्याये - १३ श्लोकाः। ब्रह्मचर्याद्याचारवर्णनम्, ब्रह्मचारिधर्माः।
चतुर्थाध्याये - १६ श्लोकाः। विवाहसंस्कारवर्णनम् ।
पञ्चमाध्याये - १८ श्लोकाः । पञ्चमहायज्ञाः, गृहस्थप्रशंसा, अतिथिपरिचरण विधिश्च।
षष्ठाध्याये - ७ श्लोकाः। वानप्रस्थधर्माः।
सप्तमाध्याये - ३३ श्लोकाः। यतिधर्माः, प्राणायामलक्षणं, धारणाध्यानयोगादीनां वर्णनम्।
अष्टमाध्याये - १५ श्लोकाः। स्नानभेदाः, स्नाननियमाश्च।
नवमाध्याये - २० श्लोकाः। क्रियास्नानविधिः।
दशमाध्याये - ६ श्लोकाः । आचमनविधिः।
एकादशाध्याये - २९ श्लोकाः। पापनाशकमन्त्रवर्णनम् ।
द्वादशाध्याये - ९ श्लोकाः । गायत्रीजपविधिः।
त्रयोदशाध्याय - २६ श्लोकाः। तर्पणविधिः ।
चतुर्दशाध्याये - ७ श्लोकाः। श्राद्धे ब्राह्मणपरीक्षावर्णनम् ।
पञ्चदशाध्याये - २४ श्लोकाः। जननमरणाशौचवर्णनम् ।
षोडशाध्याये - २३ श्लोकाः। द्रव्यशुद्धिः।
सप्तदशाध्याये - ६२ श्लोकाः। विविधप्रायश्चित्तवर्णनम् ।
अष्टादशाध्याये - १४ श्लोकाः। पराक - कृच्छ्र - सान्तपन - चान्द्रायणादीनां व्रतानां वर्णनम् ।
शङ्खस्मृतेः पञ्चाशदधिकवचनानि मिताक्षरायामुद्धतानि सन्ति । अपरार्कटीकायां शङ्खवचनं ९९ वारं , कल्पतरौ ब्रह्मचारिकाण्डे शङ्खवचनं १९ वारं च गृहीतमस्ति ।
लिखितः
[सम्पादयतु]याज्ञवल्क्योक्तधर्मप्रयोजकेषु महर्षिलिखितः परिगणितः। शङ्खस्मृतावपि लिखितः धर्मप्रयोजकरूपेण स्वीकृतः। स च शुक्लयजुर्वेदानुयायी आसीत् । तन्त्रवार्त्तिकानुसारं शुक्लयजुर्वेदानुयायिनः शङ्खलिखितधर्मसूत्रमनुसरन्ति । महर्षिलिखित: महर्षिशङ्खस्यानुज आसीत् । महाभारतस्य शान्तिपर्वणि वर्णित वृतान्तानुसारं सुद्युम्नस्य नृपतेः राजत्वकालेऽसौ स्वभ्रात्रा शवेन सहोत्कल प्रदेशस्य गञ्जाममण्डलान्तर्गत - बाहुदानदीतीरवर्तिस्थाने निवासं कृतवान् ।
शङ्खलिखितयोः प्रामाणिकता द्वापरपुगे एवासीदिति पराशरेणोक्तम् । तत्कृतेः प्रणयनकाल: ख्रीष्टात् पूर्वं तृतीयशतकादारभ्य ख्रीष्टीयप्रथमशतकाभ्यन्तरे एव ऐतिहासिकै: निश्चीयते । लिखितस्मृतौ त्रिनवतिश्लोका: प्राप्यन्ते । अत्राध्याय विभाग: नास्ति। अत्र प्रतिपादितविषयाः यथा - इष्टापूर्तयोरनुष्ठानं स्वरूपं च, वृषोत्सर्गविधिः, गयापिण्डदानफलं, श्राद्धविधिः, एकोद्दिष्ट - पार्वण - वृद्धिश्राद्धादीनि, नवश्राद्धं, ब्रह्मघातकस्य प्रायश्चित्तानि, अशौचं चेति।
लिखितस्मृतौ मनुयमयो: नाम दृश्यते । इयं च स्मृतिः पद्यात्मिका। लिखितः स्वभ्रात्रा सह मिलित्वा शङ्खलिखितधर्मसूत्रं रचितवान् । अस्य धर्मसूत्रस्य प्रामाण्यं धर्मनिबन्धकारैः सर्वैः स्वीकृतमस्ति। धर्मसूत्रस्यास्य कश्चन भाष्यकार आसीत्। स च भाष्यकार: कल्पतरुकार- चण्डेश्वर- वाचस्पतिप्रभृतिभिः स्मृतः। शङ्खलिखितधर्मसूत्रस्य प्रमाणवचनान्यपरार्केण त्रिषष्टि(६३) वारं, लक्ष्मीधरभट्टेन ब्रह्मचारिकाण्डे षट्त्रिंशद्(३६) वारं, पराशरमाधवीये आचारकाण्डे एकादश(११)वारं, व्यवहारकाण्डे पञ्च(५)वारं, प्रायश्चित्तकाण्डे च पञ्चविंशति(२५)वारं, स्मृतिचन्द्रिकाया: व्यवहारकाण्डे चतुर्विंशतिवारं (२४), प्रतापरुद्रस्य सरस्वतीविलासे त्रयोदश(१३) वारं, गदाधरराजगुरोराचारसारे षोडशवारं(१६) च गृहीतानि सन्ति । अस्मिन् धर्मसूत्रे नियोगविधिः स्वीकृत:। शङ्खलिखितधर्मसूत्रं गद्यपद्यात्मकम्। लिखितमतं कृत्यकौमुद्यां पञ्च(५)वारं, पराशरमाधवीये आचारकाण्डे एकवारं , प्रतापरुद्रस्य सरस्वतीविलासे चैकवारमुद्धृतानि भवन्ति।
दक्षः
[सम्पादयतु]याज्ञवल्क्यस्मृतौ परिगणितेषु धर्मशास्त्रप्रयोजकेषु दक्षोऽन्तर्भवति। कोलब्रूकमहोदयः द्वौ दक्षनामानावुपस्थापयति। अस्यैव दक्षस्य महती प्रतिभा ऽऽसीदिति नि:सन्देहेन वक्तुं शक्यते । याज्ञवल्क्यस्मृतौ, शङ्खलिखितधर्मसूत्रे, देवलस्मृतौ, पराशरस्मृतौ, पैठीनसिस्मृतौ च दक्षस्य नामोल्लेख: दृश्यते। पुराणदृष्ट्या दक्षः महान् पुरुषः प्रतीयते । दक्षस्य तत्त्वपर्यालोचनावसरे बहुतथ्यं पुराणेभ्यः ज्ञायते । श्रीमद्भागवतपुराणानुसारं[८७] हिरण्यगर्भस्य ब्रह्मणोऽङ्गष्ठाद् दक्षोऽजायत। दक्षस्योत्पत्तिः रहस्यपूर्णा । स शुद्ध ऋषिस्तथा पितृदेवतादीनां मिश्रित: प्राणरूप:। पुराणानुसारं दक्ष: मैथुनीसृष्टेः प्रारम्भकर्ता । विष्णुपुराणानुसारं प्रचेतामारिषयोः मिलनेन दक्ष उत्पन्नः । दक्षः प्रजापतिरूपः देवतानामुत्पादकश्च। सोऽदितिपिता तथा देवानामादिपुरुषः।
शतपथब्राह्मणानुसारं दक्षः सृष्टिपालक: पोषक: साक्षाद् विष्णुस्वरूपश्च । गरुडपुराणानुसारं दक्ष: दशकन्यानां जनकः। यासुकन्यासु सती अन्यतमाऽऽसीत्। सा च सती रुद्रं परिणीतवती। विष्णुपुराणानुसारं दक्ष: चतुर्विंशतिकन्यानां जनकः। तस्मिन् समये तस्य स्त्री भवति स्वायम्भुवमनोः पुत्री प्रसूतिः। द्वितीयजन्मनि चाक्षुषमन्वन्तरस्यान्तिमभागे प्रजाः स्रष्टुमिच्छन् स प्रजापतिकन्यामसिकनी परिणीतवान् । तस्याः साहाय्येन स सहस्रपुत्रान् षष्टिकन्याश्चोत्पादितवान् । चित्रसेनायाः पुत्रः तथा मीढवानाया पिताऽऽसीदसौ दक्ष इति भागवते प्रतिपादितमस्ति[८८]।
वायुपुराणे दक्षः सर्वेषां प्रजापतीनामधिपतिरिति उच्यते[८९] । विश्वदेवेषु दक्षोऽन्यतम इति वायुपुराणे[९०] मत्स्यपुराणे[९१] च प्रतिपाद्यते। मत्स्यपुराणे १ वायुपुराणे९२ च सुरूपायाः तथाऽऽङ्गिरस: दशपुत्रेष्वन्यतमोऽसौ दक्ष इति कथ्यते। सोऽपि प्रवरप्रवर्तक आसीत् । दक्षविषये पुराणे बहुलं पर्यालोचितम्। स्मृतिशास्त्रे तु दक्षस्य परिचय: सम्यग् नोपलभ्यते। अत एतदेव कथयितुं शक्यते यद् दक्षः स्मृतिकारेष्वन्यतमः सर्वपुराणप्रसिद्धश्च।
असावुत्तरभारतीय आसीत् । तत्रापि हिमालयपादनिवासी आसीदिति तत्कृतेरनुमातुं शक्यते । ऐतिहासिकाः दक्षस्मृतेः कालं ख्रीष्टीयप्रथमशतक एव स्थापयन्ति ।
इयं च स्मृति: आनन्दाश्रममुद्रणालयप्रकाशिते स्मृतिसमुच्चये, नवरंगप्रकाशन, दिल्लीद्वारा प्रकाशिते धर्मशास्त्रसंग्रहे , नागप्रकाशनद्वारा प्रकाशिते स्मृतिसन्दर्भे च प्रकाशिता वर्त्तते । स्मृतावस्यां सप्ताध्यायाः , २२७ श्लोकाश्च सन्ति। तत्राध्यायानुसारं प्रतिपादितविषया: यथा -
प्रथमे - १४ श्लोकाः। वर्णाश्रमधर्माः।।
द्वितीये - ७५ श्लोकाः। द्विजातीनां दैनन्दिनकर्मनिरूपणम् ।
तृतीये - ३३ श्लोकाः। गृहस्थस्य नव सुनीतयः, नव कुनीतयः, नव गोपनीयकर्माणि, नव कथनीयकर्माणि, नवादानयोग्या: पदार्थाश्च।
चतुर्थे - २१ श्लोकाः । स्त्रीधर्माः।
पञ्चमे - १३ श्लोकाः। शौचाशौचनियमाः।
षष्ठे - १५ श्लोकाः। जननाशौचं , मृतकाशौचं च ।
सप्तमे - ५६ श्लोकाः। योगस्य मूलतत्त्वं , योगानुष्ठाननियमाः, संन्यासिनः विविधकर्त्तव्यानि चेति ।
दक्षस्मृते: वचनानि हेमाद्रिकृत-चतुर्वर्गचिन्तामणौ दानखण्डे, नीलकण्ठ भट्टकृताचारमयूखे[९२], मित्रमिश्रकृत- वीरमित्रोदयस्याह्निकप्रकाशे[९३], देवण भट्टकृत-स्मृतिचन्द्रिकायाः आह्निककाण्डे[९४], व्यवहारकाण्डे[९५], लक्ष्मीधरभट्टकृतकृत्यकल्पतरो: नियतकालकाण्डे[९६], गदाधरराजगुरोराचारसारे[९७], चण्डेश्वरठक्कुरस्य कृत्यरत्नाकरे[९८], जीमूतवाहनस्य कालविवेके[९९], अनन्तभट्टस्य संस्कारसारे[१००], नरसिंहवाजपेयिनः नित्याचारप्रदीपे[१०१], वाचस्पतिमिश्रस्याचारचिन्तामणौ[१०२], माधवाचार्यस्य कालमाधवे[१०३] च प्राप्यन्ते। एतदतिरिक्तं दक्षमतं कृत्यकौमुद्यां वारमेकं, पराशरमाधवीये आचारकाण्डे चत्वारिंशद्वार, व्यवहारकाण्डे वारमेकं, प्रायश्चित्तकाण्डे च वारद्वयमुद्धृतमस्ति । तदतिरिक्तं विश्वरूप-मिताक्षराकार
अपरार्कटीकादिभिरपि दक्षमतं प्रतिपादितमस्ति ।
कात्यायनः
[सम्पादयतु]याज्ञवल्क्योक्तेषु धर्मप्रयोजकेषु कात्यायनः परिगणितो भवति । असौ शुक्लयजुर्वेदानुयायी आसीत् । वैदिकमहर्षिषु अन्यतम आसीदसौ कात्यायनः। स्कन्दपुराणानुसारं महर्षियाज्ञवल्क्यस्य कात्यायन्याश्च पुत्रः कात्यायन: वैदिकग्रन्थानां श्रौतसूत्रादीनां च रचयिताऽऽसीत्। रामायणकाले रामस्य परिषदि एकः कात्यायनः प्रतिवसति स्मेति रामायणस्योत्तरकाण्डे लिखितमस्ति।
महर्षियाज्ञवल्क्यस्य पुत्रत्वेन परिचितत्वादसौ मैथिल आसीदिति निर्विवादं कथयितुं शक्यते । कात्यायनः मनु - याज्ञवल्क्य - नारद - बृहस्पतिप्रभृतीनां परवर्ती आसीत्। कात्यायनस्य मतं विश्वरूप - मेधातिथि - अपरार्क - विज्ञानेश्वरप्रभृतिभिः प्राचीनधर्मनिबन्धुभिः ससम्मानमुट्टङ्कितम् । अतोऽस्यानुमानिककालः ख्रीष्टीयप्रथमशतकाभ्यन्तर एव स्थापयितुं शक्यते । कात्यायनस्य नाम बहुभिः ग्रन्थैः सह सम्बद्धम् । कात्यायनस्य नाम शुक्लयजुर्वेदस्य श्रौतसूत्रेण, सामवेदस्य परिशिष्टरूप - कर्मप्रदीपग्रन्थेन, पाणिनीयव्याकरणस्य वार्तिकग्रन्थेन, ऋग्वेद - यजुर्वेदयोः सर्वानुक्रमैश्च साकं संलग्नमस्ति।
प्राचीनव्यवहारविधौ नारद - बृहस्पति - कात्यायनानां स्वतन्त्रं स्थानं विद्यते । धर्मप्रयोजकत्वेन शंखलिखितधर्मसूत्रे, पराशरस्मृतावसौ परिगणितः। कात्यायन: बृहस्पते: मतं वारम्वारमुत्थापयति स्वीकरोति च । व्यवहारविषये स्पष्टं मतं प्रतिपाद्य धर्मनिबन्धकारैः कात्यायन: श्लाघनीयो भवति। अनेन षड्विधं स्त्रीधनं प्रतिपादितम् । प्रायः एकविंशतिसंख्यकाः धर्मनिबन्धकाराः व्यवहारविषयोपरि कात्यायनस्य ११०० श्लोकानुद्धरन्ति । केवलं स्मृतिचन्द्रिकाकार: देवणभट्टः कात्यायनस्य ६०० श्लोकानुद्धरति। कात्यायनः बहुषु स्थलेषु मनो: मतानि उद्धृत्य स्वीकरोति ।
इयं च स्मृति: जीवानन्दसंग्रहे, आनन्दाश्रमसंस्करणे, नाग प्रकाशनसम्पादिते स्मृतिसन्दर्भे च प्रकाशिता विद्यते। स्मृतावस्यां व्यवहारसम्बन्धी न कश्चन श्लोक: दृश्यते । इयं च प्रकाशिता कात्यायनस्मृति: प्रपाठकत्रयेण विभक्ता। प्रपाठकत्रयमपि २९ खण्डैः विभक्तम् । तत्र क्रमेण प्रतिपादिता: विषयाः यथा- प्रथमप्रपाठकस्य प्रथमखण्डे - १८ श्लोकाः, संस्कारपूजोत्सवादीनां साधारणनियमाः।
द्वितीयतः पञ्चमखण्डेषु - यथाक्रमं १४,१४,१२,११ श्लोकाः, श्राद्धविचारः। षष्ठखण्डत: नवमखण्डेषु - यथाक्रम १४,१४,२४,१५ श्लोकाः, अग्न्याधानं, तस्य पूजनञ्च ।
दशमखण्डे - १४ श्लोकाः , अग्निपरिचरणार्थं दैनन्दिनकर्त्तव्यानि च । द्वितीयप्रपाठके एकादशखण्डे - १७ श्लोकाः - त्रिसन्ध्याविधयः।
द्वादशखण्डे - ५ श्लोकाः - देवेभ्य: जलप्रदानविधयः, देवतर्पणञ्च।
त्रयोदशखण्डे - १४ श्लोकाः - पञ्चमहायज्ञविधयः, ऋषितर्पणञ्च ।
चतुर्दशखण्डे - १३ श्लोकाः - ब्रह्मयज्ञ - वैश्वदेवनियमाः।
पञ्चदशखण्डत: ऊनविंशतिखण्डं यावत् यथाक्रमं २१,२३,२५, २४, १६ श्लोकाः। ब्राह्मणेभ्य: दानफलं, यज्ञे बलिदानफलम्,पितृपुरुषेभ्य: तिलतर्पणविधिः, मासिकयज्ञाः, पाक्षिकयज्ञाः,अग्निपरिचरणार्थं पत्न्याः कर्त्तव्यानि च वर्णितानि । तृतीयप्रपाठके विंशखण्डादूनत्रिंशत् खण्डेषु यथाक्रमं १९,१६,१०,१४,१६, १८,१७,२१,१९,१९ श्लोकाः । दाहनिमित्तोपयोगाग्नेः परिचरणविधिः, जननाशौचं, मृतकाशौचम्, यज्ञादिषु कर्महानावाचरणीयानि प्रायश्चित्तानि अपि वर्णितानि ।
कात्यायनस्मृति: गोभिलस्मृतिवत् प्रतीयते। कात्यायनश्रौतसूत्रस्य व्याख्याकार: कर्काचार्य: कात्यायनस्मृतित: बहूनि उद्धरणानि श्रौतसूत्र व्याख्यायामुपस्थापयति ।
अत्रिः
[सम्पादयतु]अत्रिः प्राचीनधर्मशास्त्रकार आसीत् । याज्ञवल्क्योक्त - धर्मप्रयोजकेषु अत्रिः द्वितीयस्थानेऽन्तर्भवति। अस्याः स्मृतेरानुमानिककाल: ख्रीष्टीयप्रथम शतकाभ्यन्तरे एव निश्चीयते ।
अत्रिनाम्ना कृतित्रयमुपलभ्यते । तेषां विवरणं यथा -
१) अत्रिस्मृति:
[सम्पादयतु]डेकनकालेजसंग्रहानुसारमत्रिस्मृतौ नवाध्यायाः, ३९८ श्लोकाश्च सन्ति। तत्र दान-जप- तपः-पाप- प्रायश्चित्तादयः विषयाः वर्णिताः। वित
प्रथमत्रयोऽध्यायाः श्लोकनिबद्धाः। चतुर्थोऽध्यायः सूत्रात्मकः। पञ्चमोऽध्याय: श्लोकात्मकः। षष्ठाध्याये वेदस्य सूक्तमन्त्रादीनां वर्णनं विद्यते । सप्तमेऽध्याये गुप्तप्रायश्चित्तानि वर्णितानि। सप्तमाष्टमौ चाध्यायौ गद्यपद्यमिश्रितौ। नवमोऽध्यायश्च पद्यात्मकः। तत्र योगः, तेषामङ्गानां विषये वर्णितमस्ति। इयं चात्रिसंहितानाम्ना स्मृतिसन्दर्भ प्रकाशिता विद्यते । परन्त्वत्राध्यायविभाग: न दृश्यते ।
२) लघ्वत्रिसंहिता -
[सम्पादयतु]संहितेयं पञ्चाध्यायात्मिका, १३४ श्लोकात्मिका च । इयमत्रिस्मृतिनाम्ना १४१ श्लोकात्मिका सती स्मृतिसन्दर्भे प्रकाशिताऽस्ति । अध्यायानुसारमत्र प्रतिपादिताः विषयाः यथा - प्रथमाध्याये - १६ श्लोकाः। प्राणायामस्वरूपं , महत्त्वं च । द्वितीयाध्याये - १६ श्लोकाः। जपप्रशस्तिः , पापनाशकमन्त्राः। तृतीयाध्याये - २३ श्लोकाः। पापक्षालनोपायाः । चतुर्थाध्याये - ११ श्लोकाः। रहस्यपापानां प्रायश्चित्तानि । अत्र द्वौ गद्यांशी दृश्येते । पञ्चमाध्याये - ७५ श्लोकाः। प्रकीर्णकपापानां प्रायश्चित्तानि। द्वितीयाध्याये पञ्चमाध्याये चात्र मनोः नामोद्धृतमस्ति । जीवानन्दसंग्रहानुसारमत्र १२० श्लोकाः विद्यन्ते ।
३) वृद्धात्रिसंहिता -
[सम्पादयतु]संहितेयं लघ्वत्रिसंहितया सह प्रायः साम्यं धारयति । केवलं प्रथमश्लोकद्वयं पृथग् वर्तते । अस्यां १३३ श्लोकाः प्राप्यन्ते । केषुचित् स्थलेषु श्लोकेषु सामान्यं परिवर्तनं परिलक्ष्यते । जीवानन्दसंग्रहानुसारमत्र १४० श्लोकाश्च वर्तन्ते ।
व्यासः
[सम्पादयतु]याज्ञवल्क्योक्त-धर्मप्रयोजकेषु महर्षिव्यासः परिगणितः। महर्षिपराशरस्य पुत्रः आसीदसौ । अस्य च निवासः काश्यामेवासीत् । काश्यामेव मुनयः महर्षिव्यासस्यान्तिकं गत्वा धर्मजिज्ञासां कृतवन्तः । व्यासः पुराणकाररूपेण, वेदान्तसूत्रकाररूपेण च सर्वत्र प्रसिद्धः । पुराणकर्ता व्यास: कृष्णद्वैपायननाम्ना, वेदान्तसूत्रकर्ता व्यासः वादरायणव्यासनाम्ना च लोके ख्यातः। महाभारतेन सहास्याः स्मृतेः बहुषु स्थलेषु विषयसाम्यान्महाभारतकर्ता व्यासोऽस्याः स्मृतेः प्रणेतेति तर्कयितुं शक्यते । व्यासस्मृतेः काल: ख्रीष्टीयप्रथमशतकादारभ्य तृतीयशतकाभ्यन्तरे एव ऐतिहासिकैः स्थाप्यते ।
व्यासनाम्ना कृतिद्वयमुपलभ्यते । यथा -
१) व्यासस्मृतिः,
२) लघुव्याससंहिता च ।
१) व्यासस्मृति: -
[सम्पादयतु]स्मृतावस्यामध्यायचतुष्टयं, २४१ श्लोकाश्च सन्ति। स्मृतिसन्दर्भे, जीवानन्दसंग्रहे, आनन्दाश्रमसंस्करणे चेयं स्मृति: संकलिताऽस्ति । आनन्दाश्रमसंस्करणे स्मृतावस्या २५० श्लोकाः विद्यन्ते । तत्र वर्णिता: विषयाः क्रमानुसारं यथा - कानि प्रथमाध्याये - ४२ श्लोकाः । वर्णधर्माः , षोडशसंस्कारवर्णनम् । द्वितीयाध्याये - ५६ श्लोकाः। विवाहविधिवर्णनम् । तृतीयाध्याये - ७१ श्लोकाः । गृहस्थस्य कर्तव्यानि , देवपितृतर्पणानि , अग्नेः परिचरणविधिः, अतिथियज्ञः ।। चतुर्थाध्याये - ७२ श्लोकाः। गृहस्थाश्रमप्रशंसा , तीर्थवर्णनं चेति । ।
२) लघुव्याससंहिता -
[सम्पादयतु]संहितायामस्यां स्मृतिसन्दर्भेऽध्यायद्वयं, १२३ श्लोकाः सन्ति । जीवानन्दसंग्रहे तु अध्यायद्वयं, १२६ श्लोकाश्च विद्यन्ते । तत्र प्रतिपादिताः विषयाः यथा - प्रथमाध्याये - ३१ श्लोकाः , स्नानभेदाः, ब्राह्मणकर्त्तव्यानि, गायत्रीमन्त्रपाठफलं च । द्वितीयाध्याये - ९२ श्लोकाः, गृह्याग्नौ प्रत्यहकर्त्तव्यानि, पञ्चमहायज्ञाः,वेदाध्ययनविधिः, त्रिसन्ध्यस्नानजपादयश्चेति ।
व्यासस्य द्वयोः ग्रन्थयोः व्यवहारविषयकः कश्चन श्लोक: न दृश्यते। परन्तु धर्मनिबन्धग्रन्थेषु व्यासनाम्ना व्यवहारान्तर्गता: बहवः श्लोकाः दृश्यन्ते। व्यासस्मृते: वचनानि विश्वरूप - मेधातिथि - लक्ष्मीधर- अपरार्क - स्मृतिचन्द्रिकादिषूद्धृतानि सन्ति ।
शातातपः
[सम्पादयतु]याज्ञवल्क्योक्त- धर्मप्रयोजकेषु शातातपोऽन्तर्भवति । महर्षिशातातपस्य कृतिः कर्मविपाकग्रन्थरूपेण प्रसिद्धिं प्राप्नोति। शातातपनाम्ना कृतित्रयं प्राप्यते। यथा - १) शातातपस्मृतिः, २) शातातपसंहिता, ३) वृद्धशातातपस्मृतिश्च । एतेषां ग्रन्थानां परिचयः प्रदीयते ।
१) शातातपस्मृति: -
[सम्पादयतु]कर्मविपाकग्रन्थे ८७ अध्यायाः विद्यन्ते । इयं च स्मृति: तस्यांशविशेषः। स्मृतावस्यां जीवानन्दसंग्रहे , आनन्दाश्रमसंस्करणे च षडध्यायाः, २३२ श्लोकाः विद्यन्ते । स्मृतिसन्दर्भे षडध्यायाः, २२८ श्लोकाश्च प्राप्यन्ते ।
अत्राध्यायानुसार प्रतिपादितविषयाः यथा -
प्रथमाध्याये - ३१ श्लोकाः , अकृतप्रायश्चित्तवर्णनम् ।
द्वितीयाध्याये - ५७ श्लोकाः , ब्रह्महत्यायाः कुप्रभावः , प्रायश्चित्तञ्च ।
तृतीयाध्याये - २२ श्लोकाः , प्रकीर्णकपापानि , तेषां प्रायश्चित्तानि च ।
चतुर्थाध्याये - ३२ श्लोकाः , स्तेयाख्यं महापातकं , तस्य प्रायश्चित्तं च ।
पञ्चमाध्याये - ३९ श्लोकाः , अगम्यागमनप्रायश्चित्तवर्णनम् ।
षष्ठाध्याये - ५१ श्लोकाः, अगतिप्रायश्चित्तवर्णनम् ।
माड्राससर्वकारीयसंग्रहालये वर्तमानायां शातातपस्मृतौ द्वादशाध्यायाः सन्ति । तत्र महापातकिनां प्रायश्चित्तानि , श्राद्धं, विवाहः, वैश्वदेवः, पितृतर्पणम्, आचारः, जननमरणाशौचमित्यादयः विषयाः प्रतिपादिता: दृश्यन्ते ।
२) शातातपसंहिता
[सम्पादयतु]स्मृतावस्यामेकेन गद्यांशेन सह १३९ श्लोकाः सन्ति । अत्र निर्दिष्टपापानां कृते प्रायश्चित्तानि, उपपातकानां यथाक्रमं गणनं, विवाहनियमाः, वैश्वदेवानुष्ठानम्, अतिथिसत्कारः, दैनन्दिनकर्त्तव्यानि, पितृपुरुषाणां कृते तर्पणं, पिण्डदानं चेत्येते विषयाः प्रतिपादिताः सन्ति ।
३) वृद्धशातातपस्मृति:
[सम्पादयतु]अस्यां स्मृतौ ६८ श्लोका: वर्तन्ते। अत्र प्रायश्चित्ताशौचशुद्धिविषया: प्रतिपादिताः । स्मृतावस्यां द्वौ गद्यांशौ वर्तते । कृतिरियं शातातपस्मृति - शातातपसंहिताभ्यां भिन्ना । यतः प्रारम्भश्लोके वृद्धशातातपप्रोक्ता स्मृति: कथ्यते इति वर्णितमस्ति । डेकनकालेजसंग्रहे ६४ श्लोकात्मिका एका वृद्धशातातपस्मृति: विद्यते । इण्डिया अफिस लाइब्रेरीसंग्रहे ९७ श्लोकात्मिका एका वृद्धशातातपस्मृति: विद्यते । आनन्दाश्रमसंस्करणे ६८ श्लोकात्मिका एका वृद्धशातातपस्मृति: प्राप्यते ।
शातातपमतानि विश्वरूप - हरदत्त - अपरार्क - लक्ष्मीधर - विज्ञानेश्वरादिभिरुद्धृतानि सन्ति । शातातपोऽष्टविधानि उपपातकानि प्रतिपादयति।
यमः
[सम्पादयतु]याज्ञवल्क्योक्त - धर्मप्रयोजकेषु यमोऽन्तर्भवति । यमस्य वंशविवरणं कोलकः कथयति यत् यमः इदानीन्तनकाले वर्तमानस्य सप्तममनोः भ्राताऽऽसीत् । मनु - गौतम - आपस्तम्बादिभ्योऽसौ अर्वाचीनः मन्यते । यमस्मृति: ख्रीष्टीयतृतीयशतके संकलिताऽऽसीदिति ऐतिहासिकाः कथयन्ति।
यमनाम्ना कृतित्रयमुपलभ्यते। यथा - १) यमस्मृतिः, २) यमधर्मशास्त्रम्, ३) बृहद्यमस्मृतिश्च । तेषां विवरणमिदानीमुपस्थाप्यते ।
१) यमस्मृति: -
[सम्पादयतु]स्मृतिरियं जीवानन्दसंग्रहे , आनन्दाश्रमसंस्करणे , स्मृतिसन्दर्भे च प्रकाशिता विद्यते । अत्र ७८ संख्यका: अनुष्टुप्श्लोकाः वर्तन्ते । अत्र केवलं द्रव्यशुद्धि - प्रायश्चित्तविषययोरुपस्थापनं भवति ।
२) यमधर्मशास्त्रम् -
[सम्पादयतु]नारीमान ना धर्मशास्त्रमिदं जीवानन्दसंग्रहे, आनन्दाश्रमसंस्करणे च प्रकाशितमस्ति। स्मृतिसन्दर्भ चेदं लघुयमस्मृतिनाम्ना संकलितम् । अत्र ९८ अनुष्टुप्श्लोकाः विद्यन्ते । अत्राशौचविषये सामान्यवर्णनं, प्रायश्चित्तविषये च बहुलं वर्णन दृश्यते । धर्मशास्त्रेऽस्मिनृषिभिः पृष्टः सन् श्रुतिस्मृत्युदितं धर्मं वर्णक्रमानुसारं मुनीनामग्रणीर्यमोऽकथयत् । यथा -
"श्रुतिस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः ।
प्राब्रवीदृषिभिः पृष्टो मुनीनामग्रणीर्यमः॥"
३) बृहद्यमस्मृति: -
[सम्पादयतु]न स्मृतिरियं स्मृतिसन्दर्भे प्रकाशिता विद्यते । अत्र पञ्चाध्यायाः, १८२ अनुष्टुप्श्लोकाश्च सन्ति । अत्राध्यायानुसारं प्रतिपादितविषयाः यथा -
प्रथमाध्याये - १५ श्लोकाः - नानाविधप्रायश्चित्तवर्णनम् । द्वितीयाध्याये - ०९ श्लोकाः - चान्द्रायणविधिवर्णनम् । तृतीयाध्याये - ७० श्लोकाः - प्रायश्चित्तवर्णनम् ।वाली चतुर्थाध्याये - ६२ श्लोकाः - गोवधप्रायश्चित्तवर्णनम् । पञ्चमाध्याये - २६ श्लोकाः - श्राद्धकाले पत्न्यां रजस्वलायां निर्णयश्चेति । व्याख्यानिबन्धग्रन्थेषु यमनाम्नोद्धृतश्लोकाः प्रायोऽत्र न दृश्यन्ते ।
उशनाः
[सम्पादयतु]याज्ञवल्क्योक्त-धर्मप्रयोजकेषु उशना अन्तर्भवति । असौ शुक्राचार्य नाम्ना सर्वत्र प्रथितः। ऋग्वेदे उशना: प्राचीनमहर्षिषु अन्तर्भवति । ताण्ड्यमहाब्राह्मणे (७-५-२०) उशना असुराणां पुरोहितरूपेण प्रतिपादितः। उशनस्स्मृति: ख्रीष्टीयप्रथमशतके संकलिताऽऽसीदिति ऐतिहासिका: कथयन्ति। उशनाः गौतमाङ्गिरसप्रवरान्तर्गतः आसीत् ।
इयं च स्मृति: जीवानन्दसंग्रहे, आनन्दाश्रमसंस्करणे , स्मृतिसन्दर्भे च प्रकाशिता विद्यते । उशनसूनाम्ना कृतित्रयं सूचितं भवति । यथा -
१) उशनो धर्मशास्त्रम्,
२) औशनसस्मृतिः,
३) उशनस्स्मृतिश्च ।
इदानीमेतेषां विवरण प्रदीयते।
१) उशनो धर्मशास्त्रम्
[सम्पादयतु]धर्मशास्त्रमिदं स्मृतिसन्दर्भ औशनससंहितानाम्ना प्रकाशित विद्यते । अत्र ५१ अनुष्टुपश्लोका: विद्यन्ते । अस्मिन् धर्मशास्त्रे विभिन्नानां सङ्करजातीनां तथा तेषां जीविकाविषये वर्णितमस्ति ।
२) औशनसस्मृति:
[सम्पादयतु]"जीवानन्दसंग्रहे स्मृतावस्यां नवाध्यायाः, ६०० श्लोकाश्च विद्यन्ते । आनन्दाश्रमसंस्करणे नवाध्यायाः, ६१८ श्लोकाः, स्मृतिसन्दर्भे च नवाध्यायाः, ६१० श्लोकाश्च विद्यन्ते । तत्राध्यायानुसारं प्रतिपादिताः विषयाः यथा -
प्रथमाध्याये - ६४ श्लोकाः, ब्रह्मचारिणां कर्त्तव्यवर्णनम् ।
द्वितीयाध्याये - ४६ श्लोकाः, ब्रह्मचारिप्रकरणे शौचाचारवर्णनम् ।
तृतीयाध्याये - १४७ श्लोकाः, ब्रह्मचारिप्रकरणेऽनेकप्रकरणवर्णनम् ।
चतुर्थाध्याये - ३६ श्लोकाः, श्राद्धप्रकरणवर्णनम ।
पञ्चमाध्याये - ९९ श्लोकाः , श्राद्धप्रकरणवर्णनम् ।
षष्ठाध्याये - ६१ श्लोकाः , अशौचप्रकरणवर्णनम् ।
सप्तमाध्याये - २३ श्लोकाः , गृहस्थानां प्रेतकर्मविधिवर्णनम् ।
अष्टमाध्याये - २४ श्लोकाः , प्रायश्चित्तप्रकरणवर्णनम् ।
नवमाध्याये - ११० श्लोकाः , प्रायश्चित्तप्रकरणवर्णनं चेति ।
मनु - प्रजापत्योः मतानि स्मृतावस्यामुद्धृतानि सन्ति ।।
३) उशनस्स्मृति: -
[सम्पादयतु]स्मृतिरियं स्मृतिसन्दर्भे न विद्यते । अत्र सप्ताध्यायाः सन्ति। स्मृतिरियं गद्यपद्यमिश्रिता ।स्मृतावस्यां वर्णितविषयाः यथा -प्रथम - द्वितीय - तृतीयाध्यायेषु शुद्धजातीनां संकरजातीनां च नामानि, तेषां जीविकोपायाश्च । चतुर्थाध्याये प्रायश्चित्तप्रकाराः, विविधपापानां कृते प्रायश्चित्तानि । पञ्चमाध्याये - श्राद्धम् । अत्र वैवस्वतमनो: नामोद्धृतमस्ति। षष्ठे - क्रयविक्रयविषयाः। सप्तमे दण्डप्रकारा:, अपराधानुसारं दण्डनिरूपणञ्च। मनोः नाम कृतावस्यां बहुवारमुद्धृतमस्ति। अस्य वचनानि अपरार्क - विज्ञानेश्वर- मस्कराचार्य - देवणभट्टादय: उद्धरन्ति।
बृहस्पतिः
[सम्पादयतु]बृहस्पति: याज्ञवल्क्योक्त - धर्मशास्त्रप्रयोजकेषु परिगणितः । बृहस्पतिः अङ्गिरसः ज्येष्ठपुत्रः , संवर्तस्य भ्राता , देवानां वंशागतगुरुः , शुक्राचार्यस्य समसामयिक इति पुराणेभ्यः ज्ञायते । बृहस्पतेः निवासस्थानविषये न किञ्चित्स्पष्टं तथ्यं दृष्टिपथमायाति । तथापि स उत्तरभारतीय आसीदिति बृहस्पतिस्मृतेरनुशीलनाज्ज्ञायते ।।
बृहस्पतिस्मृतेः प्रणयनकाल: पौर्वापर्यरीत्या ख्रीष्टीयप्रथमशतकाभ्यन्तरे एव ऐतिहासिकैः निश्चीयते । बृहस्पतिः नारदस्य समसामयिक आसीत् । मनुस्मृतेः त्रय: संकलकाः आसन् । ते भवन्ति - भृगुः , नारदः, बृहस्पतिश्च। डा. जुलियसजोलीमहोदयानां मतानुसारं बृहस्पतिस्मृतिः षष्ठे सप्तमे वा ख्रीष्टीयशतके प्रणीता भवेत् । कात्यायनस्मृतौ बृहस्पतिमतानि बहुत्र चर्चितानि सन्ति । अतः बृहस्पतिस्मृति: ख्रीष्टीयतृतीयशतकात्परं प्रणीता न स्यात् । मनुवचनमुद्धृत्य तस्य परवर्तित्वं स्मृतेरस्याः ज्ञायते । अस्मात् कारणादस्याः स्मृतेः कालः ख्रीष्टीयप्रथमशतकमध्ये एव स्थापयितुं शक्यते ।
बृहस्पतिस्मृति: १९४१ ख्रीष्टाब्दे गायकवाड ओरियण्टाल सिरिज, वडोदराद्वारा प्रो. के . भी . रंगस्वामी आयङ्गारमहोदयानां संपादनया प्रकाशिता। तत्र ७३२ पृष्ठाः , सप्तभागाश्च सन्ति । तेषां भागानां विवरणं यथा -
१) व्यवहारभागः - पृष्ठा १ तः २२८ पर्यन्तम् ।
२) संस्कारभागः - पृष्ठा २२९ तः ३०८ पृष्ठापर्यन्तम् ।
३) आचारभागः - ३०९ पृष्ठात: ३२५ पृष्ठां यावत् ।
४) श्राद्धभाग: - ३२६ पृष्ठात: ३५१ पृष्ठां यावत् ।
५) अशौचभागः - ३५२ पृष्ठातः ३६४ पृष्ठां यावत् ।
६) आपद्धर्मभागः - ३६५ पृष्ठातः ३७२ पृष्ठां यावत् ।
७) प्रायश्चित्तभागः - ३७३ पृष्ठात: ३८६ पृष्ठां यावत् ।
अवशिष्टांश: श्लोकानुक्रमणिकया उपबृंहितः। केवलं निबन्धग्रन्थेभ्य: संग्रहमाध्यमेनेयं स्मृति: संकलिता। नतु वास्तवरूपं प्रकाशयति। मनुस्मृतेः संकलकत्वाद् बृहस्पतिस्मृतौ मनोः प्राशस्त्यं सर्वत्र कीर्त्यते । बृहस्पतिः नवविधानि दिव्यानि स्वीकरोति । अष्टादशविधानि विवादपदानि तेन द्विधा विभक्तानि । धनसम्बन्धीनि चतुर्दश , हिंसासम्बन्धीनि चत्वारि च। यथोक्तं -
'द्विपदो व्यवहारश्च धनहिंसासमुद्भवः।
द्विसप्तधार्थमूलश्च हिंसामूलश्चतुर्विध: ॥ [१०४]
'पारुष्ये द्वे वधश्चैव परस्त्रीसंग्रहस्तथा ।
हिंसोद्भवानि चत्वारि पदान्याह बृहस्पति:॥ [१०५]
बृहस्पतिस्मृतौ व्यवहारस्य पादचतुष्टयम् , प्रमाणभेदाः , साक्षिणः , आगमप्रमाणस्य दशभेदाः, भुक्तिः, अष्टादशविवादपदानि चेत्यादयः विषयाः व्यवहारभागे स्थानिताः सन्ति । अष्टादशविवादपदानि यथा - ऋणादान - निक्षेप - अस्वामिविक्रय - सम्भूयसमुत्थान - दत्ताप्रदानिक - अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म - स्वामिपालविवाद - संविद्व्यतिक्रम - विक्रीयासम्प्रदान - सीमाविवाद - पारुष्य - साहस - स्त्रीसंग्रहण - स्त्रीपुंधर्म - विभाग - द्यूतसमाह्वय प्रकीर्णकाख्यानि ।
बृहस्पतिना वाक्पारुष्यं , दण्डपारुष्यं चैकं व्यवहारपदं पारुष्यनाम्ना स्वीकृतम् । तथैव स्तेयाख्यं विवादपदं न स्वीकृतम् । तदतिरिक्तं प्रकीर्णकं विवादपदरूपेण स्वीकृतम् । साहसस्य भेदत्रयं बृहस्पतिः प्रतिपादयति । विचारावसरे राजा न केवलं शास्त्रमाश्रित्य निर्णय कुर्यात् , परन्तु लोकाचारमपि स्वीकुर्यादिति कथयति[१०६] । मिताक्षराकार:[१०७] संकरस्य भेदप्रतिपादनावसरे वृद्धबृहस्पतिवचनमुद्धरति । कुल्लूकोऽपि[१०८] गौणपुत्रभेदविषये वृद्धबृहस्पतिवचनमुत्थापयति । हेमाद्रि:[१०९] कृष्णत्रयोदश्यां श्राद्धनिषेधार्थं ज्योतिर्ब्रहस्पतिवचनं प्रमाणरूपेणोपस्थापयति । अपरार्क:[११०] प्राड् विवाकस्य स्वरूपनिर्णये वृद्धबृहस्पतिवचनमुट्टङ्कयति ।
संवतः
[सम्पादयतु]महर्षिसंवर्त्तः अङ्गिरसः पुत्रः , बृहस्पतेः कनिष्ठभ्राता , ऋग्वेदानुयायी चासीत् । याज्ञवल्क्योक्त - धर्मप्रयोजकेषु संवर्तस्य नाम परिगणितं दृश्यते । अस्याः स्मृतेः कालं ख्रीष्टीयप्रथमशतकाभ्यन्तरे एव ऐतिहासिका: स्थापयन्ति।
संवर्तस्मृतौ जीवानन्दसंग्रहे , स्मृतिसन्दर्भे च २२७ श्लोकाः विद्यन्ते। आनन्दाश्रमसंस्करणे च २३० श्लोकाः विद्यन्ते । अत्र प्रतिपादिताः विषयाः यथा -
प्रथमश्लोकात् ३४ श्लोकं यावत् - ब्रह्मचारिणः कर्त्तव्यानि ।
३५ श्लोकात् ९६ श्लोकं यावत् - गृहस्थस्य कर्त्तव्यानि ।
९७ श्लोकात् १०० श्लोकं यावत् - वानप्रस्थस्य कर्त्तव्यानि ।
१०१ श्लोकात् १०६ श्लोकं यावत् - संन्यासिनः कर्त्तव्यानि ।
१०७ श्लोकात् २२७ श्लोकं यावत् - प्रायश्चित्तानि चेति ।
अपरार्क: आचारप्रायश्चित्तविषययो: २०० श्लोकान् संवर्त्तस्योद्धरति । पराशरमाधवीयस्याचारकाण्डे संवतस्य मतानि एकादशवार, व्यवहारकाण्डे पञ्चवारं, प्रायश्चित्तकाण्डे च चतुस्त्रिंशद्वारमुद्धृतानि वर्तन्ते । विश्वरूप-मेधातिथि मिताक्षरा - हरदत्त - देवणभट्टादिभिः संवर्तस्य वचनानि उद्धृतानि सन्ति ।
हारीतः
[सम्पादयतु]महर्षिहारीतः याज्ञवल्क्योक्त -धर्मप्रयोजकेषु अन्तर्भवति । स च कृष्णयजुर्वेदस्य मैत्रायणीयशाखानुयायी आसीत् । बौधायन-आपस्तम्बादिभिः प्रामाणिकत्वेन स्वीकृतत्वात् हारीतः दक्षिणभारतीय आसीदित्यनुमातुं शक्यते । हारीतस्मृति: ख्रीष्टात् पूर्वं तृतीयशतकादारभ्य ख्रीष्टात् परं प्रथमशतकमध्ये प्रणीताऽभवदिति ऐतिहासिकैरनुमीयते । हारीतः भृगो: शिष्य आसीत् । कुमारिल: हारीतस्य प्रामाण्यं स्वीकरोति ।
हारीतनाम्ना कृतिचतुष्टयमुपलभ्यते । यथा - १) लघुहारीतस्मृतिः, २) वृद्धहारीतस्मृतिः , ३) हारीतधर्मशास्त्रं , ४) हारीतधर्मसूत्रं । तेषां स्मृतिग्रन्थानां विवरणमधः प्रदीयते ।
१) लघुहारीतस्मृति:
[सम्पादयतु]स्मृतिरियं जीवानन्दसंग्रहे, आनन्दाश्रमसंस्करणे, नागप्रकाशनस्य स्मृतिसन्दर्भे च प्रकाशिता विद्यते । अत्र सप्ताध्यायाः विद्यन्ते । परन्तु नागप्रकाशनसंस्करणे १९२ श्लोकाः, आनन्दाश्रमसंस्करणे १९७ श्लोकाः, जीवानन्दसग्रहे च २५० श्लोकाः प्राप्यन्ते। अत्राध्यायानुसार प्रतिपादितविषयाः यथा -
प्रथमाध्याये - ३१ श्लोकाः - वर्णाश्रमधर्मवर्णनम् ।
द्वितीयाध्याये - १५ श्लोकाः - वर्णधर्माः ।
तृतीयाध्याये - १५ श्लोकाः - ब्रह्मचर्याश्रमधर्माः।
चतुर्थाध्याये - ७७ श्लोकाः - गृहस्थाश्रमधर्माः ।
पञ्चमाध्याये - १० श्लोकाः - वानप्रस्थाश्रमधर्माः।
षष्ठाध्याये - २३ श्लोकाः - संन्यासाश्रमधर्माः ।
सप्तमाध्याये - २१ श्लोकाः - योगवर्णनं च । स्मृतिरियं हारीतस्यान्यैः ऋषिभिः साकं वार्तालापमाध्यमेन संघटिता । यथा -
'अत्राहं कथयिष्यामि पुरा वृत्तमनुसरन् ।
ऋषिभिः सह संवादं हारीतस्य महात्मनः ॥'
अस्यां स्मृतौ व्यवहारविषये न किञ्चिद् वर्णनं प्राप्यते । अत्र द्विजशब्द: केवलं ब्राह्मणार्थे प्रयुक्तः।
२) वृद्धहारीतस्मति:
[सम्पादयतु]इयं च स्मृति: जीवानन्दसंग्रहे, आनन्दाश्रमसंस्करणे, नागप्रकाशनस्य स्मृतिसन्दर्भे च प्रकाशिता विद्यते । इयं च स्मृतिः वैष्णवधर्मं विशेषत: प्रतिपादयति। अम्बरीष - हारीतयोर्मध्ये वार्तालापमाध्यमेनेयं स्मृतिरुपदिष्टा। आनन्दाश्रमसंस्करणानुसारं वृद्धहारीतस्मृतावेकादशाध्यायाः वर्तन्ते । जीवानन्दसंग्रहे अष्टावध्यायाः, २५८७ श्लोकाश्च प्राप्यन्ते । स्मृतिसन्दर्भ प्रकाशितायां वृद्धहारीतस्मृतौ अष्टावध्यायाः, २५३० श्लोकाश्च दृश्यन्ते ।
तत्राध्यायानुसारं प्रतिपादितविषयाः यथा -
प्रथमाध्याये - २७ श्लोकाः - विष्णोरवतारवर्णनं, वैष्णवस्वरूपं च।
द्वितीयाध्याये - १५१ श्लोकाः - वैष्णवानां पुण्ड्रसंस्कार - चक्रधारण - नामसंस्कार - मन्त्रसंस्कार - विम्बदर्शनसंस्काराः।
तृतीयाध्याये - ३९२ श्लोकाः - भगवन्मन्त्रविधानवर्णनम् ।
चतुर्थाध्याये - २६५ श्लोका: - भगवत्समाराधनविधिवर्णनम् ।
पञ्चमाध्याये - ५६८ श्लोकाः - भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् ।
षष्ठाध्याये - ४३९ श्लोकाः - भगवत: यात्रोत्सववर्णनम् , महापापादिप्रायश्चित्तानि ।
सप्तमाध्याये - ३३७ श्लोकाः - नानाविधोत्सवविधानवर्णनम् ।
अष्टमाध्याये - ३५१ श्लोकाः - विष्णुपूजाविधिवर्णनम् ।
संहितेयं रामानुज - रामानन्दीयादीनां वैष्णवानामुत्पत्त्यनन्तरमेव एकादशशतके लिखितेति कैश्चित् मन्यते । अत्र हारीत: कदाचिद् ब्रह्मणः, कदाचिद् भृगो: शिष्यरूपेण आत्मानं वर्णयति । यथोक्तम् -
'भृगोः प्रोक्तं विश्वनसा भृगुणा च महर्षिणा ।
भृगुणा च मनोः प्रोक्तं मनुना च ममेरितम् ॥'
३) हारीतधर्मशास्त्रम्
[सम्पादयतु]हारीतधर्मशास्त्रे १११ अनुष्टुपश्लोकाः सन्ति । स्मृतिसन्दर्भ धर्मशास्त्रमिदं नास्ति । अत्रालोचिताः विषयाः यथा - प्रायश्चित्तनिमित्तानि, धार्मिकादेशाः, अशौचम्, ऋणम्, उत्तराधिकारः, पितृयज्ञः, तर्पणं चेति । उत्तराधिकारविषये याज्ञवल्क्यस्य श्लोकोऽत्रापि दृश्यते ।
४) हारीतधर्मसूत्रम्
[सम्पादयतु]महर्षिणा हारीतेन धर्मसूत्रमपि रचितमासीत् । प्राचीनधर्मसूत्रकारेष्वसौ अन्यतम आसीत् । बौधायन[१११] - आपस्तम्ब - वसिष्ठै: हारीत: प्रामाणिक धर्मसूत्रकाररूपेण स्वीकृतः । तन्त्रवार्त्तिकमपि हारीतं प्रामाणिकधर्मसूत्रकाररूपेण स्वीकरोति। काणेमहोदयमतानुसारं धर्मसूत्रमिदं नासिकस्थ -स्वर्गतपण्डित वामनशास्त्रिइस्लामपुरकरमहाभागेनाविष्कृतम् ।
का धर्मसूत्रेऽस्मिन् त्रिंशदध्यायाः वर्तन्ते । तत्रालोचिताः विषयाः यथा धर्मस्योपादानानि , ब्रह्मचारि - स्नातक - गृहस्थ - वानप्रस्थधर्माः , भक्ष्याभक्ष्यं, जननमरणाशौचम्, श्राद्धं, पंक्तिपावनाः, साधारणधर्माः, पञ्चमहायज्ञाः, स्वाध्यायाध्ययनम् , अनध्यायाः , राज्ञः कर्त्तव्यानि , व्यवहारदर्शनविधिः, विवादपदानि, स्त्रीपुंधर्मः, पापभेदाः, प्रायश्चित्तानि च ।
वैशिष्ट्यम् -
१. हारीतः श्रुतिशब्दस्य विशिष्टमर्थं प्रकाशयति ।
२. वेदाश्रितं शास्त्रं तन्त्रशब्देन कथयति ।
३. अष्टविधं विवाहं प्रस्तौति । आर्ष - प्राजापत्ययोः स्थाने क्षात्र - मानुषयोः ग्रहणं करोति ।
४. ब्रह्मवादिनी - सद्योवधूभेदेन द्विविधां स्त्रियं प्रतिपादयति। तत्र ब्रह्मवादिनीना मुपनयनमग्नीन्धनं, वेदाध्ययनं, स्वगृहे च भिक्षाचर्या विधीयते[११२]।
हारीतमतान्यपरार्कटीकायां ११० वारं , कृत्यकल्पतरौ ब्रह्मचारिकाण्डे ५० वारं, व्यवहारकाण्डे ७० वारं, संस्कारप्रकाशे , स्मृतिचन्द्रिकायां चोद्धृतानि सन्ति । हेमाद्रिमतानुसारं[११३] हारीतधर्मसूत्रस्य कश्चन भाष्यकार आसीत् ।
पैठीनसि:
[सम्पादयतु]भविष्यपुराणानुसारं षट्त्रिंशत्स्मृतिकारेषु पैठीनसिः स्मृतिकाररूपेण परिगणितः । डाँ जोली- डाँ कालाण्डमहाभागयो: मतानुसार पैठीनसि: अथर्ववेदीय आसीत् । पैठीनसिस्मृतावाचारव्यवहारप्रायश्चित्तविषयकाणि वचनानि प्राप्यन्ते। पैठीनसिस्मृतेः बहूनि मतानि मिताक्षरा-अपरार्क -स्मृतिचन्द्रिका- हरदत्तादिभि रुद्धतानि सन्ति ।
जातूकर्ण्य:
[सम्पादयतु]- धर्मशास्त्रे जातूकर्ण्यनाम्ना कश्चन धर्मशास्त्रकारः प्रतिपादितः । अयं च स्मृतिचन्द्रिकायां, वीरमित्रोदये चोपस्मृतिकारेषु परिगणितः। वृद्धयाज्ञवल्क्य स्मृतेरुद्धरणात् जातूकर्ण्य: धर्मशास्त्रप्रवक्ताऽऽसीदिति ज्ञायते। जातूकर्ण्य: स्वधर्मशास्त्रे आचारश्राद्धविषययो: वर्णनं करोति । विश्वरूपस्य बालक्रीडाटीकायां, देवणभट्टस्य स्मृतिचन्द्रिकायां, विज्ञानेश्वरस्य मिताक्षरायामपरादित्यस्यापरार्क टीकायां, हरदत्तस्य मिताक्षराटीकायां च जातूकर्ण्यस्योद्धरणानि प्राप्यन्ते । मोड
पितामहः
[सम्पादयतु]वृद्धयाज्ञवल्क्यस्मृतौ पैठीनस्युक्तषट्त्रिंशत्स्मृतिकारेषु च पितामहः धर्मप्रयोजकत्वेन स्वीकृतः। पितामहस्मृतौ मुख्यत: व्यवहारविषया: वर्णिता: सन्ति । पितामहेन बृहस्पतिमतमुद्धृतत्वात् पितामहस्मृते: काल: ख्रीष्टीयचतुर्थशतकात् परं षष्ठशतकमध्येऽनुमीयते । अत्र स्मृतौ वेद-वेदाङ्ग-मीमांसा-पुराण-स्मृति न्यायशास्त्राणि धर्मशास्त्रेषु परिगणितानि सन्ति। व्यवहारविषये पितामहस्य वचनानि मिताक्षराकारेण ४५ वारं, अपरार्कटीकाकारेण ७५ वारं, कल्पतरुकारेण ९० वारं, स्मृतिचन्द्रिकाकारेण १३० वारम्, आह्निकविषये स्मृतिचन्द्रिकाकारेण १० वारं, श्राद्धविषये च पञ्चवारमुद्धृतानि सन्ति । पितामहः नवविधानि दिव्यानि प्रतिपादयति। व्यासवत् पितामहः क्रयपत्र-स्थितिपत्र-सन्धिपत्र-विशुद्धिपत्रादीनि लेख्यप्रमाणानि सूचयति। असौ द्वाविंशतिविधानि व्यवहारपदानि स्वीकरोति। पितामहः रजक-चर्मकारादीनामष्टादशविधानां प्रकृतीनां नामानि कथयति । पितामहमतानुसारं न्यायालये राज्ञा लिपिक-गणक-शास्त्र-साध्यपाल-सभासद्सुवर्ण-अग्नि-जलसंज्ञकानि अष्टौ करणानि निवेशनीयानि स्युः ।
पुलस्त्यः
[सम्पादयतु]वृद्धयाज्ञवल्क्योक्त-धर्मप्रयोजकेषु, महाभारतस्याश्वमेधिकपर्वोक्त - त्रयोविंशतिधर्मशास्त्रकारेषु च पुलस्त्योऽन्तर्भवति। ब्रह्मणः मानसपुत्रेषु पुलस्त्योऽन्यतम आसीदिति मनुस्मृतौ[११४] वर्णितमस्ति । पुलस्त्यस्मृते: काल: ख्रीष्टीयचतुर्थशतकात् सप्तमशतकाभ्यन्तरे भवेदिति ऐतिहासिका आमनन्ति। पुलस्त्यस्मृतेः प्रथमश्लोकाज्ज्ञायते यत् स: कुरुक्षेत्रसमीपे निवासं कृतवान् । यत्र महर्षीनुद्दिश्य स: वर्णाश्रमधर्मानुपदिशति ।
नवरङ्गप्रकाशन,दिल्लीद्वारा प्रकाशिते धर्मशास्त्रसंग्रहे, स्मृतिसन्दर्भे चतुर्थखण्डे चैका पुलस्त्यस्मृति: वर्त्तते, यत्र २९ श्लोका: विद्यन्ते । पुलस्त्यस्मृतौ वर्णाश्रमधर्म आह्निक-श्राद्ध-अशौच-यतिधर्म-प्रायश्चित्तादीनां विषयाणां प्रतिपादनं दृश्यते । पुलस्त्यमतानि विश्वरूप-मिताक्षराकार-अपरार्क -स्मृतिचन्द्रिकाकार-दानरत्ना करादिषु उद्धृतानि सन्ति ।
प्रचेताः
[सम्पादयतु]पराशरपरिगणितेषु स्मृतिकारेषु, पैठीनस्युक्त - षट्त्रिंशत्स्मृतिकारेषु च प्रचेताः स्थानं प्राप्नोति । मेधातिथिः प्रचेतसं मनु-विष्णुप्रभृतिभिः सह मान्यताप्राप्तधर्मशास्त्रकारेषु परिगणयति। मिताक्षराकार - अपरार्क - हरदत्त - स्मृतिचन्द्रिकाकारादिभिः प्रचेतसः आह्निकाचार-श्राद्ध-अशौच-प्रायश्चित्तविषय काणि प्रमाणवचनानि उद्धृतानि सन्ति ।
प्रजापतिः
[सम्पादयतु]बौधायन:[११५] प्रजापतिं प्रामाणिकधर्मशास्त्रकाररूपेण परिगणयति। वसिष्ठधर्मसूत्रेऽपि[११६] प्राजापत्योक्ता: केचन श्लोकाः प्राप्यन्ते। आनन्दाश्रमसंग्रहे एका प्रजापतिस्मृति: विद्यते, यत्र केवलं श्राद्धविषयका: १९८ श्लोका: सन्ति। अत्र कल्पशास्त्र-पुराण-स्मृतीनां चर्चा वर्त्तते। प्रजापतिवचनानि मिताक्षराकार: अशौच-प्रायश्चित्तविषययोः, अपरार्कः द्रव्यशुद्धि-श्राद्ध-दिव्यविषयेषु, स्मृतिचन्द्रिकाकार: माधवाचार्यश्च पराशरमाधवीये व्यवहारविषयेषूद्धृतानि सन्ति। प्रजापति: कुटीचक-बहूदक-हंस-परमहंसभेदेन परिव्राजकस्य भेदचतुष्टयं कृताकृतभेदेन च साक्षिण: द्विधा भेदं स्वीकरोति ।
मरीचिः
[सम्पादयतु]वीरमित्रोदयोक्त- एकविंशतिधर्मप्रयोजकेषु मरीचिरन्तर्भवति । ब्रह्मणः सृष्टौ दशप्रजापतिषु मरीचिः प्रथमत्वेन गृहीत इति मनुस्मृतौ[११७] वर्णितमस्ति। मरीचिस्मृतिराह्निक-अशौच-श्राद्ध-प्रायश्चित्त-व्यवहारविषयान् प्रतिपादयति। अस्य मतानि मिताक्षराकार-अपरार्क-स्मृतिचन्द्रिकाकारादयः उद्धरन्ति । मरीचिः श्रावणभाद्रमासयो: रजस्वलाहेतोः सरित्स्नानं निषेधति । सः भोग्य-गोप्य प्रत्यय-आज्ञाधिनाम्ना आधे: भेदचतुष्टयं प्रतिपादयति ।
लौगाक्षिः
[सम्पादयतु]पैठीनस्युक्त-षट्त्रिंशत्स्मृतिकारेषु लौगाक्षिरन्तर्भवति । नागप्रकाशनस्य स्मृतिसन्दर्भे षष्ठखण्डे स्मृतिरियमुपनिबद्धाऽस्ति ।
विश्वामित्रः
[सम्पादयतु]वृद्धयाज्ञवल्क्यस्मृत्यनुसारं विश्वामित्रः धर्मशास्त्रकारेष्वन्यतम आसीत् । वीरमित्रोदयोक्तोपस्मृतिकारेषु विश्वामित्रोऽन्तर्भवति ।अपरार्क-स्मृतिचन्द्रिकाकार जीमूतवाहनादिभिः विश्वामित्रस्मृतेः बहूनि प्रमाणवचनानि स्वीकृतानि सन्ति । महापातकविषयकाणि बहूनि वचनानि चास्य निबन्धकाराः उद्धरन्ति ।
बुधः
[सम्पादयतु]काया डेकनकालेजसंग्रहानुसारं बुधः धर्मशास्त्रकाररूपेण परिचितः। तत्र बुधधर्मशास्त्रस्य प्रतिलिपिद्वयं विद्यते । प्रतिलिपिद्वयं सूत्रात्मकम् । तत्र प्रतिपादिता: विषयाः यथा- गर्भाधानादुपनयनान्तसंस्काराः, विवाहस्याष्टौ भेदाः, पञ्चमहायज्ञाः, श्राद्धं, पाकयज्ञ-हविर्यज्ञ-सोमयज्ञाः, वर्णधर्माः, आश्रमधर्माः, राजधर्मश्चेति । नागप्रकाशिते स्मृतिसन्दर्भे चतुर्थखण्डे , नवरङ्गप्रकाशन,दिल्लीद्वारा प्रकाशिते धर्मशास्त्रसंग्रहे चैका बुधस्मृति: प्राप्यते, यत्र सूत्राकारेण वर्णाश्रमधर्माः प्रतिपादिता: सन्ति। बुधधर्मशास्त्रस्य मतानि कल्पतरुकार- अपरार्क-हेमाद्रि-जीमूतवाहना दिभिरुद्धृतानि सन्ति ।
काश्यपः
[सम्पादयतु]पराशरोक्त- ऊनविंशतिधर्मशास्त्रकारेषु , पैठीनस्युक्तषट्त्रिंशत्स्मृतिकारेषु च काश्यपोऽन्तर्भवति । नागप्रकाशिते स्मृतिसन्दर्भे, नवरङ्गप्रकाशन, दिल्लीद्वारा प्रकाशिते धर्मशास्त्रसंग्रहे चैका गद्यपद्यसमन्विता काश्यपस्मृति: संकलिताऽस्ति, यत्र केवलं गृहस्थधर्माः, प्रायश्चित्तानि च प्रतिपादितानि सन्ति । अत्र दक्षप्रजापते: नामोद्धतमस्ति। सप्तविधपौनर्भवकन्यानां नामान्यत्रालोचितानि भवन्ति। पराशर माधवीयस्याचारकाण्डे काश्यपमतं वारत्रयं,प्रायश्चित्तकाण्डे द्वादशवारमुद्धृतमस्ति।
व्याघ्रपाद:
[सम्पादयतु]पैठीनस्युक्तषट्त्रिंशत्स्मृतिकारेषु व्याघ्रपादोऽन्तर्भवति । स्मृतिसन्दर्भ चतुर्थखण्डे व्याघ्रपादस्मृति: संकलिताऽस्ति । व्याघ्रपादस्मृतौ मुख्यतः स्मृतिमहत्त्वम्, आचारधर्मवर्णनं, श्राद्धवर्णनं च विस्तरेण प्रतिपादितमस्ति । स्मृतावस्यां ३९८ श्लोका: सन्ति ।
कपिलस्मृतिः
[सम्पादयतु]महर्षिकपिलः स्मृतिग्रन्थमेकं प्रणीतवान् । सा च स्मृति: नागप्रकाशिते स्मृतिसन्दर्भ पञ्चमखण्डे संकलिताऽस्ति । तत्र स्मृतौ ९९६ श्लोका: विद्यन्ते । तत्र कपिलशौनकसंवादमाध्यमेन विषया: प्रतिपादिताः । तत्र स्थानिता: प्रमुखविषया: यथा - वेदनिन्दकानां दूषणं, वैदिककर्मणामभावकथनं, श्राद्धप्रकरणम्, उपनयनसंस्कारवर्णनम्, विप्रमहत्त्ववर्णनं, नान्दीश्राद्धप्रकरणं, दत्तकपुत्रप्रकरणं, दानप्रकरणं, भूमिदानमहत्त्वं, विधवाधर्माः, पुत्रमहत्त्ववर्णनम्, औरसपुत्रस्य ज्येष्ठत्वनिर्णयः, दण्डविधानं, दुष्कर्मणां प्रायश्चित्तवर्णनश्चेति ।
धर्मशास्त्रेतिहासग्रन्थे स्मृतीनां संख्यापरिगणनावसरे उकितानां स्मृतिकाराणां नामानि भवन्ति यथा - मनु - याज्ञवल्क्य - पराशर - नारद - बृहस्पति - कात्यायन - अङ्गिरा: - ऋष्यशृंग - कार्णाजिनि - दक्ष - पितामह - पुलस्त्य - प्रचेता: - प्रजापति - मरीचि - यम - लौगाक्षि - विश्वामित्र - व्यास संवर्त- हारीताश्च । स्मृति - उपस्मृतिभेदेन स्मृतिकाराणां संख्याऽपरिमिताऽपर्याप्ता च भवति ।
एतदतिरिक्तमन्येऽपि केचन स्मृतिकारा: विद्यन्ते, येषां नामानि स्मृतिकारेषु परिगण्यन्ते। परन्तु तेषां ग्रन्थाः दुर्लभाः भवन्ति। धर्मनिबन्धेषु केवलं तेषां स्मृतिकाराणां प्रमाणवचनानि यत्र क्वचनोदाहृतानि दृश्यन्ते । याज्ञवल्क्योक्त - विंशतिधर्मप्रयोजकेषु मनुप्रभृतीनां चतुर्दशस्मृतिकाराणां नामान्युद्धृतानि सन्ति। केषाञ्चन स्मृतिकाराणां स्मृतय अंशत एव प्राप्यन्ते। अस्माभिरत्रानालोचितानां स्मृतिकाराणां नामानि भवन्ति यथा- ऋष्यशृङ्ग- कार्णाजिनि- भृगु- जाबालि - जमदग्नि- गोभिल- सत्यव्रत- वभ्र- पुलह- पारस्कर- मौद्गल्य- शौनक- जैमिनि शाण्डिल्य- वैजवापाः। अत एतेषां सर्वेषां स्मृतिकाराणां परिचयप्रदानं विषयोपस्थापनं वा न सुकरं मन्यते ।
सामाजिकव्यवस्थायाः नियमनाय स्मृतिकाराणां महदवदानमासीत् । तदानीन्तनकाले सामाजिक- अर्थनैतिक- राजनेतिकक्षेत्रेषु स्मृतिकाराणामखण्ड प्रभावोऽव्याहतश्चासीत् । मनुष्यैराचरितानां कर्मणां वैदिकदृष्ट्या, लौकिकदृष्ट्या, मनोवैज्ञानिकदृष्ट्या, राजनैतिकदृष्ट्या, सामाजिकदृष्ट्या च विचार: स्मृतिकारैरुपस्थापितः। इति ।
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भः
[सम्पादयतु]- ↑ मनु . १-१०८.
- ↑ धर्मशास्त्रस्येतिहासः
- ↑ शाता. स्मृ., प्राय. श्लो . ४-७.
- ↑ परा. स्मृ., १-२३
- ↑ स्मृतिच., भा. १- पृ.२७.
- ↑ याज्ञ . स्मृ., १/३-४.
- ↑ परा . स्मृ., १/१२-१५.
- ↑ भर . स्मृ., १/३-५.
- ↑ स्मृ . च., प्रथमभागे, पृ. १-२.
- ↑ वीरमि . परि., पृ. १८.
- ↑ _दीपकलिका.,(याज्ञ. स्मृ., १-१०)
- ↑ वीरमि . परिभाषाप्रकाशे
- ↑ ऋग् ., १-८०-१६.
- ↑ मनुर्वै यत् किञ्चावदत् तद् भेषजं भेषजतायै । ताण्ड्य.महा., २३-१६-७.
- ↑ यद् वै किञ्च मनुरवदत्तद् भेषजम् । तै. सं., २-२-१०-२.
- ↑ निरुक्ते, ३-१-४.
- ↑ आप. धर्म., २-७-१६-१.९.
- ↑ बौधा. धर्म., ४-१-१४.
- ↑ महाभा., १२-५७-४३ , १२-२१-१२.
- ↑ वेदान्तसूत्रभाष्ये, १-३-२८.
- ↑ बृहदा. उप., १-४-१७.
- ↑ वेदान्तसूत्रभाष्ये, ३-१-१४.
- ↑ बृहस्पतिः,मन्वर्थमु.,(मनु.१/१)
- ↑ महाभा., १२-१२१-२९.
- ↑ आप. धर्म., २-१६-१.
- ↑ Aspects of the Social & political System of the Manusmriti (Preface . P-9)
- ↑ जै . सू., २-१.
- ↑ महाभा. शान्ति., ३६-५.
- ↑ रामा. किष्कि., १८-३३,३४.
- ↑ याज्ञ. स्मृ., ३-१८९.
- ↑ याज्ञ. स्मृ., १-४.
- ↑ यमस्मृ., कृत्यकल्प. ब्रह्मचा., पृ -२३.
- ↑ शंखलिखितधर्मस., स्मृतिच. संस्कार.. प - २.
- ↑ परा. स्मृ., १/१३-१५.
- ↑ गौ. धर्म., २-१-७.
- ↑ अविस्मृ., २-७.
- ↑ वसि. धर्म., १२-१६.
- ↑ अङ्गिरस्स्मृ. पूर्व., श्लो. ८६.
- ↑ आप. धर्म., २-७-१६-१.
- ↑ मन्वर्थमु., मनु. १-१.
- ↑ ना. स्मृ., १,२. (प्रारम्भे)
- ↑ महाभा. शान्ति., २१-१२,५६-२३,८८-१६,११२-१९.
- ↑ तै. आर., १०-६३.
- ↑ गौ. धर्म., ३-१०-४७.
- ↑ आप. धर्म., २-७-१६-१.
- ↑ India , What it can teach us , P-366
- ↑ History of Sanskrit Literature , P - 42835
- ↑ Tagore Law Lectures , P- 43,495
- ↑ Manu and Yajnavalkya , P - 26,29
- ↑ History of Antiquity , Vol - 4, P- 93MB
- ↑ History of India, P- 11,12
- ↑ The Indian Impire, P - 113
- ↑ Laws of Manu , Introduction , P - 114
- ↑ History of Dharmashastra , Vol - 1,P - 148PH
- ↑ मनुस्मृ., १/१११-११८.
- ↑ मन्वर्थमु., मनु. ८-१८४.
- ↑ बृहदा . उप. २/४-५.
- ↑ महाभा. शान्ति. ३१२ अध्या.
- ↑ शत. ब्रा. २/४/४/५.३/
- ↑ पाणिनीयवार्त्तिके - ४/३/१०५.
- ↑ बृहदा. उप. ३/१११.
- ↑ याज्ञ . स्मृ . - १/२.
- ↑ याज्ञ . स्मृ., १/३.
- ↑ याज्ञ. स्मृ., १/४-५.
- ↑ याज्ञ. स्मृ., २/२१.
- ↑ गौ. धर्म., - १/८/२३ - २४.
- ↑ याज्ञ. स्मृ., ३ / १८५.
- ↑ ऋक् - ८/१८/२१.
- ↑ पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः। पा . ४/३/११०.
- ↑ निरु . ६-३०.
- ↑ तैत्ति . आर . १/१३/३७.
- ↑ बृहदा. उप., २/६/२,४/६/३.
- ↑ कौ.अर्थ. १/८/७, १/१५/२३, १/१७/९, २/७/१२, ८/१/२४, ८/३/३०..
- ↑ महा. शान्ति. २९० -२९८ अध्यायेषु ।
- ↑ याज्ञ . स्मृ. १/४-५.
- ↑ गरुडपु . १०७ अध्याये ।
- ↑ मनुस्मृ. १-३५
- ↑ महाभा. शान्ति., ३०-६.
- ↑ अग्निपु . २५३ अध्याये ।
- ↑ नारदस्मृ. ऋणादान. ९९ श्लोकः।
- ↑ नारदस्मृ . ऋणादान . २५० , २५१ ,३२६ श्लोकेषु ।
- ↑ नारदस्मृ . व्यवहारमातृका . १/२५ श्लोके
- ↑ याज्ञ. स्मृ., १/४-५.
- ↑ परा. स्मृ., १/२३.
- ↑ महा . शान्ति . २३ अध्याये ।
- ↑ दीघनिकाये - २/४० - ४१.
- ↑ भाग . पु. ३/१२/२३
- ↑ भाग. पु., १/२/१९.
- ↑ वायुपु., ७०/५.
- ↑ मत्स्यपु., १९६/२.
- ↑ वायुपु., ६५/१०५.
- ↑ आचा. म., पृ - १२,१३,१६,३९,५२,५४,६४,६६,६७.
- ↑ वी.मि.आ.प्र.,पृ- ९,१०,१३,४२,४९,५५,८२,९२,१२०,१३७, १४०,१४६,१५४-१५९,२५८,२६१,३२२,३८७,४५३, ४५६, ४५९, ५५०.
- ↑ स्मृ.च.आह्निक., पृ - २४१,२४३,२४५,२४७,२४९,२५५,२५७, २७२,२८२,२९२,२९३,२९७,२९८,३५२,३५७,४२३,४३८,४४५, ४४७,४४८,४८५,५४६, ५६९, ६१३,६३१.
- ↑ स्मृ. च. व्यव., पृ. ५८२, ५८३.
- ↑ कृत्यकल्प.नियत., पृ - ३,६,१८,१९,२०,२३,२९,३३,४९,८०, १०१,१४१,१९५,२१०,२१७,२१९,३३३,३३४.
- ↑ आचा.सा., पृ.-७,१७,१८,२४,३५,३६,४१,६२,११३,१५५,२०३, २१९,२२७,३१७,३३८,३३९,३४०,३८०,४३७,४३९,४४३,४४५.
- ↑ कृत्य.र. , पृ - १७,४६.
- ↑ का.वि. , पृ - ३३१.
- ↑ संस्का . सा. ,पृ - १४२,१४७.
- ↑ नित्या. प्र., पृ - १,४१,४२,४४,७२,२२२,२३५,२४५,२५१.
- ↑ आचा. चि., पृ - १३,१७,३२,३८,४०,४१,४२,४४,४५,४६,४८, ७१,१७७,१९८,२०४,२२३-२२५.१०३.
- ↑ का . मा. , पृ - १५६,४७९,४८५.
- ↑ व्यव. मा., (जीमूतवाहनस्य) पृ - २७७
- ↑ स्मृति. च. व्यव., पृ - ९.
- ↑ अपरार्कटीका., (या. स्मृ. २/१).
- ↑ मिता.(या. स्मृ., ३/२६१)
- ↑ अपरार्कटीका . (या . स्मृ . २/३-४)
- ↑ मन्वर्थ. (मनु. ९/१८१)
- ↑ चतु . चिन्ता ., भा. ३/ पृ. ४७२.
- ↑ बौधा. धर्म., २-१-५०.. ११३. .
- ↑ स्मृतिच., ख . १/ पृ - २४
- ↑ चतुर्वर्ग . ३/१/ पृ - ५५९
- ↑ मनु., १/३४-३५.
- ↑ बौधा.ध., २-४-१५,२-१०-७१.
- ↑ वसि.ध.,३-४७,१४/१६-१९,२४-२७,३०-३२.
- ↑ मनु., २/३४-३५.