स्रग्धराछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(स्रग्धरा इत्यस्मात् पुनर्निर्दिष्टम्)

स्रग्धरा।

लक्षणम्[सम्पादयतु]

म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्। केदारभट्टकृत- वृत्तरत्नाकर:३.१०२

यच्छन्दः म्रभ्नैर्युतम्, यानां त्रयेण युतं, मुनिषु यतियुतं भवति तदेव स्रग्धराछन्दः इत्युच्यते ।

अर्थात् यत्र प्रत्येकम् अपि पादे क्रमेण एकः मगणः¸ एकः रगणः, एकः भगणः,

एकः नगणः, यगणत्रयं भवेत् अपि च सप्तसु अक्षरेषु यतिः भवेत् तदा स्रग्धरा ज्ञेयम् ।

अस्मिन् वृत्ते एकविंशत्यक्षराणि भवन्ति ।

ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽऽ ।ऽऽ

म र भ न य य य ।

यति: सप्तभि: सप्तभि: सप्तभि:च।

उदाहरणम्[सम्पादयतु]

जन्मध्वंसं ह्यतीत: प्रकृतिमथ निजामास्थित: सम्भवामि,
ग्लानो धर्मोऽप्यधर्मो भवति यदि बली स्वीयमायाबलेन।
साधुत्राणाय तद्वत्खलजनहतये धर्मसंस्थापनाय,
एवं मे दिव्यकर्म जननमपि च यो वेत्ति मुक्त: स पार्थ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्रग्धराछन्दः&oldid=409017" इत्यस्माद् प्रतिप्राप्तम्