स्रग्धराछन्दः
दिखावट
स्रग्धरा।
लक्षणम्
[सम्पादयतु]- म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्। केदारभट्टकृत- वृत्तरत्नाकर:३.१०२
यच्छन्दः म्रभ्नैर्युतम्, यानां त्रयेण युतं, मुनिषु यतियुतं भवति तदेव स्रग्धराछन्दः इत्युच्यते ।
अर्थात् यत्र प्रत्येकम् अपि पादे क्रमेण एकः मगणः¸ एकः रगणः, एकः भगणः,
एकः नगणः, यगणत्रयं भवेत् अपि च सप्तसु अक्षरेषु यतिः भवेत् तदा स्रग्धरा ज्ञेयम् ।
अस्मिन् वृत्ते एकविंशत्यक्षराणि भवन्ति ।
ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽऽ ।ऽऽ
म र भ न य य य ।
यति: सप्तभि: सप्तभि: सप्तभि:च।
उदाहरणम्
[सम्पादयतु]जन्मध्वंसं ह्यतीत: प्रकृतिमथ निजामास्थित: सम्भवामि,
ग्लानो धर्मोऽप्यधर्मो भवति यदि बली स्वीयमायाबलेन।
साधुत्राणाय तद्वत्खलजनहतये धर्मसंस्थापनाय,
एवं मे दिव्यकर्म जननमपि च यो वेत्ति मुक्त: स पार्थ॥