स्रग्विणीछन्दः
दिखावट
(स्रग्विणी इत्यस्मात् पुनर्निर्दिष्टम्)
स्रग्विणी।
प्रतिचरणम् अक्षरसङ्ख्या १२
रैश्चतुर्भिर्युता स्रग्विणी संमता। केदारभट्टकृत- वृत्तरत्नाकर:३. ५६
ऽ।ऽ ऽ।ऽ ऽ।ऽ ऽ।ऽ
र र र र।
यति: पादान्ते।
लक्षणम्
[सम्पादयतु]- कीर्तितैषा चतूरेफिका स्रग्विणी
यस्मिन् वृत्ते द्वादशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे
चत्वारः रगणाः भवन्ति सा एव स्रग्विणी कीर्तिता वर्तते ।
उदाहरणम्
[सम्पादयतु]- अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्।
- श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ।।
(धर्मलोपो यदाधर्मसम्पोषणं,जायते संसृजामि स्वयं भारत। सज्जनान् रक्षितुं दुर्जनान् मर्दितुं, धर्मसंस्थापनार्थं पुनर्भूतले॥)
अर्थस्तु स्पष्टः एव।