स्वभावजेन कौन्तेय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षष्टितमः(६०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा कर्तुं न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! स्वभावजेन स्वेन कर्मणा निबद्धः यत् कर्तुं न इच्छसि तत् मोहात् अवशः अपि करिष्यसि ।

शब्दार्थः[सम्पादयतु]

स्वभावजेन = नैसर्गिकेन
निबद्धः = नियतः
मोहात् = अविवेकात्
अवशः = परवशः ।

अर्थः[सम्पादयतु]

अर्जुन ! यदि त्वम् अविवेकेन युद्धं न करोषि तर्हि पूर्वकर्मसंस्कारानुगुणस्य स्वभावस्य यदनुरूपं युद्धादिकर्म तेन नियन्त्रणात् परवशः सन् अवश्यं युद्धे प्रवर्तसे ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्वभावजेन_कौन्तेय...&oldid=418886" इत्यस्माद् प्रतिप्राप्तम्