सामग्री पर जाएँ

स्वयमेवात्मनात्मानं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

स्वयम् एव आत्मना आत्मानं वेत्थ त्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

अन्वयः

[सम्पादयतु]

पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ! त्वं स्वयम् एव आत्मना आत्मानं वेत्थ ।

शब्दार्थः

[सम्पादयतु]
पुरुषोत्तम = पुरुषश्रेश्ह्ठ
भूतभावन = भूतोत्पादक
भूतेश = भूतप्रभो
देवदेव = देवाधिदेव
जगत्पते = जगदीश
त्वं स्वयमेव = त्वं स्वयमेव
आत्मना आत्मानम् = आत्मना स्वम्
वेत्थ = जानासि ।

पुरुषश्रे भूतोत्पादक भूतप्रभो देवाधिदेव जगदीश ! भवान् स्वयम् एव आत्मानं जानाति, नान्ये ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]