सामग्री पर जाएँ

हसनाम्बामन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हासनाम्बामन्दिरम्

हासनम्, कर्नाटकस्य एकं मण्डलमुख्यालयः अस्ति । हासननगरे स्थितं, (नूतनपङ्क्तिमार्गः) हासनाम्बा इत्यस्याः तीर्थस्थानम् अस्ति । हासनाम्बा नगरदेवता । अतः हासनम् इति नगरस्य नाम ।

१२ शताब्दः उपनायकस्य कृष्णप्पनायकस्य शासनकालः । कृष्णप्पनायकः यदा व्यापारनिमित्तं यात्रार्थं गच्छति तदा सः एकं शशं पश्यति । तत् अशुभम् इति मन्यते । प्रत्यक्षरूपेण आदिशक्तिस्वरूपिणी उक्तवती - अस्मिन् स्थाने मन्दिरं निर्मीयताम्, अहं हासनाम्बा इति नाम्ना अत्रैव निवसिष्यामि। (११४ क्रि.श. कुदुरुगुन्ड्यां विद्यमानशिलालेखानुसारम्)

मन्दिरस्य कथा

[सम्पादयतु]

काशी (वाराणसीतः दक्षिणाभिमुखं प्रति वायुविहारार्थं सप्तमातृकाः अर्थात् ब्राह्मीदेवी, महेश्वरी, कौमारी, वैष्णवी, वराही, इन्द्राणी, दुर्गा, चामुण्डी च इत्यादयः आत्रागताः इति प्रतीतिः । तासु वैष्णवी, वाराही तथा इन्द्राणी च तिसॄणां वल्मीकनिवासस्थानमेव हसनाम्बामन्दिरम् । एकः एव देवः अस्ति, परन्तु आदिमहर्षयः पुरुषः तथा स्त्री इति शक्तिरूपद्वयमपि एकत्वेन दृष्टवन्तः । शक्तिरूपद्वयेषु स्त्रीशक्तिरूपाः एव सप्तमातृकाः ) ।हासननगरस्य हृदयभागे स्थिते देवीकेरे इत्यत्र ब्रह्मीदेवी, केञ्चम्मा देवी तावत् होसकोटे मध्ये निवसतः । आदिशक्तिस्वरूपिणी, मातृस्वरूपिणी हासनाम्बा सिंहासनपुर्याः अधिदेवता - भवतारिणी, असुर संहारिणी, ईप्सितवरप्रदायिनी शक्तिदेवता इति रूपेण जनमानसेषु प्रादुर्भूता अस्ति।

मन्दिरस्य गर्भगृहं प्रतिवर्षम् एकवारम् उद्घाट्यते

[सम्पादयतु]

कृष्णप्पनायकस्य समयात् एव आश्वयुजमासस्य पौर्णम्यनन्तर-गुरुवासरे हासनाम्बामन्दिरस्य उद्घाटनं भवति । तस्मिन् दिने सहस्रशः भक्ताः दर्शनाङ्काक्षित्वेन आगत्य देवीदर्शनं प्राप्नुवन्ति । गर्भगृहे वल्मीके विद्यमाना आदिशक्तिस्वरूपिणी, हासनाम्बायाः पुरतः पूर्वस्मिन् वर्षे प्रज्वालितदीपस्य निर्वापाभावः, पुष्पाणां म्लानाभावः, अर्पिततण्डुलस्य विक्त्तित्तिः च भवति । ईदृशीं विस्मयकारिणीं घटानां दृष्ट्वा सर्वे भक्ताः पूतमनसः भवन्ति ।

एवं वर्षे एकवारं तहसीलदाराः/ आयुक्तविधायकाः इत्यादीनां सान्निध्ये मन्दिरस्य द्वारम् उद्घाट्यते, बालीपड्यम्याः अन्तरस्य तृतीये दिने तेषां सर्वेषां सान्निध्ये देव्याः कृते दीप-तण्डुल-अलङ्कारादिना सहितं द्वारस्य पिधानं भवति।

दन्तकथा अपि अस्ति; यदा स्नुषा गृहकार्यं त्यक्त्वा देवीं ध्यायति, तदा तस्याः श्वश्रूः देव्याः पुरतः विद्यमानचन्दनस्थालिकां बहिः निष्कास्य स्नुषायाः शिरसि पातितवती । स्नुषा "अम्बा" "हासनाम्बा" इति रोदिति । मां त्राहि मातः" इति सा उद्घोषयति । तस्याः भक्तायाः आक्रन्दनं श्रुत्वा देवी उक्तवती "मम सन्निधौ शिला भव" इति । इह आगतानां सर्वेषां भक्तिसाक्षी भव इति आशासे |

हासनाम्बा देवी तावत् शिष्टाचार- निर्मलभावान्, आचार-विचारान् च दृष्ट्वा अनुगृण्हाति इति प्रतीतिः । भक्ताः वर्षे एकवारमेव देवीदर्शनार्थम् अत्र आगच्छन्ति । तस्मिन् दिने हासननगरस्य हासनाम्बायाः उत्सवः भवति । आस्तिकानां कृते नयनमनोहरं भवति।

बाह्यशृङ्खला

[सम्पादयतु]

एक भारत लेख - हासनाम्बा वर्षे एकवारं द्वाराणि उद्घाटयति

सन्दर्भाः

[सम्पादयतु]

१. http://kannada.oneindia.com/news/karnataka/hasanamba-temple-to-be-open-from-november-5-2015-097163.html

"https://sa.wikipedia.org/w/index.php?title=हसनाम्बामन्दिरम्&oldid=490715" इत्यस्माद् प्रतिप्राप्तम्