हालक्कि-ओक्कलिगजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


उत्तरकन्नडमण्डलस्य कारवार, अङ्कोला, कुमटा, होन्नावर इत्यादिषु उपमण्डलेषु एते हालक्कि-ओक्कलिगजनाङ्गः दृश्यन्ते । कृषिः एव एतेषां जीवनाधारः । एते परिश्रमे समर्पिताः श्रमजीविनः ।

हालक्कि-ओक्कलिगजनाङ्गस्य उत्पत्तिविषयिक्यौ कथे[सम्पादयतु]

एतेषां विषये कल्पितकथा काचित् अस्ति । क्षेत्रे खननकार्यं कुर्वते शिवाय पार्वतीदेवी दुग्धम् अन्नं च नयन्ती आसीत् । मार्गे स्खलनेन सा पतिता । तदा दुग्धम् अन्नं च मृत्तिकायां सम्मिलितम् अभवत् । पार्वती तया मृत्तिकया पाञ्चालिकाद्वयं कृतवती । पार्वतीम् अन्विष्यन् आगतः शिवः पाञ्चालिकाभ्यां जीवदानं कृतवान् । एवम् एते दुग्धस्य (प्रादेशिकभाषया दुग्धं=हालु) अन्नस्य(अक्कि=तण्डुलम्) च मेलनेन जन्म प्राप्तवन्तः इति कारणेन एतान् हालक्कि इति वदन्ति । अन्या काचित् कथा एवम् अस्ति । एते बहु दरिद्राः आसन् ।तन्नाम व्रीहेः पूर्णपक्वभवनपर्यन्तमपि एते प्रतीक्षां कर्तुं न शक्नुवन्ति स्म । सस्यमञ्जर्यां इतोऽपि दुग्धसदृशं यदा पूरितं भवति तदा एव एते कर्तयित्वा पायसं कृत्वा खादन्ति स्म । अतः एतेभ्यः ‘हालक्कि’ नाम आगतम् इति ।

हालक्किजनाङ्गस्य शरीररचना[सम्पादयतु]

एतेषां शरीरवर्णः अपि दुग्धस्य (हालु) तण्डुलस्य (अक्कि) च वर्णयोः मिश्रणसदृशः इत्यनेन एते अन्येभ्यः सञ्चारिजनेभ्यः भिन्नाः सन्ति इति सूचयितुम् एतान् ‘हालक्कि ओक्कलु’ इति आह्वयन्ति ।

हालक्किजनाङ्गस्य गृहाणि[सम्पादयतु]

एतेषां कुटीराः क्षेत्रस्य समीपे समूहरूपेण भवन्ति । मृत्तिकायाः भित्तिः, तृणस्य छदिः च भवन्ति । एते प्रतिदिनं स्नानं न कुर्वन्ति । अङ्गणे व्रीहिकुट्टनार्थम् उलूखलं भवति । पूजार्थं गृहस्य पुरतः तुळसीसस्यं च भवति । एतेषां निवासस्थानं ‘कोप्पळ’ इति वदन्ति ।

हालक्किजनाङ्गस्य सामाजिकी व्यवस्था[सम्पादयतु]

हालक्कि-ओक्क्लिगजनेषु ४१ बळि सन्ति इति विविधाः विद्वांसाः निर्दिष्टवन्तः सन्ति । स्वेषां बळि निमित्तम् एते वृक्षस्य, सस्यस्य, लतायाः, प्राणिनां च नामानि स्थापितवन्तः सन्ति । एते मांसाहारिणः चेदपि स्वेषां बळिनामसूचकस्य प्राणिनः मांसं न खादन्ति, न मारयन्ति च । एतेषु भिन्नगोत्राणां मध्ये विवाहसम्बन्धः भवति । विवाहे ब्राह्मणपुरोहितं न आह्वयन्ति । ग्रामस्य प्रमुखस्य नेतृत्वे कार्यक्रमः चलति । प्रत्येकं कोप्प नाम कश्चन ग्रामः । तत्र ग्रामप्रमुखः, बुधवन्त, कोलकार इति अधिकारिणः भवन्ति । कोप्पस्य सम्बद्धविचाराणां चर्चा अत्र चलति । अनेकानि कोपाणि मिलित्वा ‘सीमे’ भवति । हालक्कि=ओक्कलिगानाम् एतादृशानां सप्ताष्ट सीमे सन्ति । सीमायाः सभां ‘सीमाकूट’ इति वदन्ति । समाजस्य नीतिनियमान् ये उल्लङ्घयन्ति “सीमाकूट” तेषां बहिष्कारं करोति । बहिष्काराय ‘जातिकट्टु’ इति वदन्ति ।

हालक्किजनाङ्गस्य कुटुम्बव्यवस्था[सम्पादयतु]

कदाचित् ग्रामे एकस्मिन् दिने एव दशाधिकाः विवाहाः भवन्ति । विवाहपूर्वमेव बालिका यदि ऋतुमती भवति चेत् गृहजनाः एव ताम् अरण्यं नीत्वा नेत्रे बद्ध्वा त्यक्त्वा आगच्छन्ति स्म इति । इदानीम् एषा पद्धतिः नास्ति । महिलायाः प्रथमप्रसवः पत्युः गृहे एव भवेत् । नामकरणस्य दिने जन्मभूमेः कोप्पस्य जनाः सर्वे विविधानां खाद्यानां वितरणं कृत्वा सन्तोषम् अनुभवन्ति । एते शवस्य दहनं कुर्वन्ति । बालानां सोड्ले( बालानां श्मशानं) पृथक् एव भवति । एतेषां मनरञ्जनं नाम ’हगरण’, ’कोलाट’(यष्टिक्रीडा), ’सुग्गिकुणित’, ’गुमटेपाङ्गु’ च । एतेषु सुग्गिकुणित विशिष्टम्, आकर्षणीयं च अस्ति । वर्णमयं वस्त्रं धृत्वा वर्णमयकागदेन, निर्मितं सुन्दरपुष्पगुच्छं शिरसि धृत्वा नृत्यन्ति । एतेन सर्वे आकृष्टाः भवन्ति । देवेषु, पिशाचेषु एतेषाम् अपारः विश्वासः । एते तिरुपतितिम्मप्पस्य भक्ताः । मृताणाम् आत्मा एव देवाः भवन्ति इति एते विश्वसन्ति । कन्नेदैव, गण्डुगोरे, हेण्णुगोरे एते एतेषां सहायदेवाः सन्ति । रागियवागूः एतेषां विशिष्टः आहारः ।

हालक्किजनाङ्गस्य आहारः[सम्पादयतु]

तण्डुलं, रागिधान्यं, मीनः च एतेषां प्रमुखाः आहाराः । सरलवेषं धरन्ति= कटिसूत्रं, कौपीनं, स्कन्धे कश्चन कम्बलः, शिरसि शिरस्त्रं, कार्यस्य लवित्रं, कवळिगेनामकः स्यूतः च । महिलाः जङ्घापर्यन्तम् ऊर्मिंरचनां कृत्वा शाटिकां धरन्ति । चोलं न धरन्ति । कण्ठपूर्णं कृष्णमणिनां मालाः धरन्ति । एकपत्नित्वपद्धतिः अस्ति चेदपि ‘सीरुडिके’ सम्प्रदायः इव बहुपत्नीत्वमपि चलति । विधवाः विधुरेण सह केवलं विवाहं कर्तुं शक्नुवन्ति । हालक्कि-ओक्कलिगाः सस्यमूलैः औषधनिर्माणे बहु प्रसिद्धाः सन्ति । एतेषु अनेकेभ्यः रोगेभ्यः औषधं दातुं सुप्रसिद्धाः वैद्यकुटुम्बाः एव सन्ति । एतेषु वैद्यकीयम् आनुवंशिकी वृत्तिः अस्ति । एतेषु जनपदसाहित्यमपि समृद्धमस्ति ।