हिमंत बिस्वा शर्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हेमन्तबिश्व इत्यस्मात् पुनर्निर्दिष्टम्)

हेमन्तबिस्वशर्मा फेब्रुवरीमासस्य प्रथमे(१) दिनाङ्के, १९६९तमे वर्षे, जोरहाटनामके स्थाने, असमराज्ये, भारते जन्म लब्धवान्।महोदयस्य पितुः नाम कैलाश नाथ शर्मा तथा मातुः नाम मृणालिनी देवी , महोदयः रिनिकी भुयिया शर्मणः पतिः वर्तते।


महोदयस्य पितुः नाम कैलाश नाथ शर्मा तथा मातुः नाम मृणालिनी देवी । महोदयः रिनिकी भुयिया शर्मणः पतिः वर्तते।

हेमन्तवर्यस्य द्वे अपत्ये स्तः(एको पुत्रः,एका पुत्री)। पुत्रस्य नाम नंदिल बिस्व शर्मा तथा पुत्र्याः नाम सुकन्या शर्मा इति अस्ति।


         

प्रारम्भिकं जीवनम्[सम्पादयतु]

श्रीहेमन्तवर्यः भारतस्य असमराज्ये जोरहाटनामके जनपदे जन्म प्राप्तवान् ।  तस्य पिता कैलाशनाथ शर्मा एकः सुप्रसिद्धः लेखकः अस्ति परन्तु अधुना सः दिवंगतः , तस्य माता मृणालिनी देवी अपि असमसाहित्यसभातः सम्बद्धा वर्तते।

हेमन्तवर्यः स्वविश्वविद्यालयीयां शिक्षां गुवाहाट्याम् एव प्राप्तवान्।

महोदयः १९९२तमे वर्षे "राजनीति विज्ञान" इत्यस्मिन् विषये स्नातकोत्तरम् अकरोत्।

महोदयेन अधिवक्तृविद्याभ्यासं  एलएलबी  अपि २००१तमे वर्षे अक्रियत ।

२००१तमवर्षे जून्मासस्य सप्तमे दिनाङ्के सः विवाहम् अकरोत्।

२००६तमे वर्षे सः स्वविद्यवारिदिम् पीएचडी अपि समापितवान् ।

महोदयः रिनिकी इत्येनां जुनमासस्य सप्तमे दिनाङ्के २००१तमे वर्षे परिणीतवान्।

राजनैतिकं जीवनम्[सम्पादयतु]

महोदयः "काॅटन काॅलेज" नामाख्ये विश्वविद्यालये १९९१तः - १९९२पर्यन्तं "महासचिव रूपेण" चितः आसीत्।

महोदयः २००१तमे वर्षे "भारतीय राष्ट्रीय कांग्रेस" दलस्य विधायकत्वेन "जालुकबारी" आसनात् जयं प्राप्तवान् तत्र तेन  "भृगुफुकनः" यः पूर्वम् असमगणपरिषदः दलस्य सदस्यः आसीत् (कैश्चित् सः हेमन्तवर्यस्य प्रारम्भिकराजनीतेः गुरुरूपेणापि गण्यते) ,( तथा तदा भृगुफुकनः NCPदलीयः आसीत् ) पराजितः।

ततः परमपि सः २००६तमे वर्षे पुनः विधायकत्वेन आगतः तस्य लोकप्रियता बहु तीव्रगत्या वर्धते स्म तस्मादेव पुनः सः २०११तमे वर्षे तृतीयवारमपि जयं प्राप्तवान्।

परन्तु २०१४तमे वर्षे वर्धमानायाः प्रसिद्ध्याः अनुगुणं न सः सम्मानं प्राप्तवान् कांग्रेसदलेन तथा च पूर्वमुख्यमंत्रिणा "तरुण गोगोई" इत्यनेन साकं मतभेदानां कारणेन(मतभेदानां मुख्यं कारणम् आसीत् तरुणगोगोईवर्यस्य पुत्राय गौरवगोगोई इत्यस्मै दीयमाना महत्ता तथा स्वस्य गौणत्वं च) सः जुलैमासस्य २१तमे दिनाङ्के राज्यसर्वकारस्य सर्वेभ्यः विभागेभ्यः त्यागपत्रम् अददात्।

ततः २०१५तमे वर्षे कांग्रेसदलम् अपि त्यक्तवान् ,(तत्समयसम्बद्धा एका घटना वर्तते यत् तदा हेमन्तवर्यः तत्कालीनं कांग्रेसमहासचिवं "राहुलगांधिनम्" उपगम्य अपि सर्वं निवेदितवान् परन्तु तत्र राहुलगांधी तस्य वार्ताम् अश्रुत्वैव स्वशुनकं सुपिष्टकं खादयति स्म) तत्र अपेक्षानुगुणं सम्मानम् अप्राप्य ततः राजनीतिकक्षेत्रे स्वस्य नूतनं जीवनम् आरब्धवान् भाजपादलस्य सदस्यत्वेन, अगस्तमासस्य २३तमे दिनाङ्के सः भाजपादलस्य सदस्यताम् अगृह्णात्।

कांग्रेसदलस्य त्यागानन्तरं एतस्मिन् प्रसङ्गे हेमन्तवर्यः उक्तवान् यत् राहुलगांधिना साकं मेलितुं ८-९ वारं प्रयासान् अपि अकरवमहम् परन्तु गान्धीवर्यः समयम् एव न दत्तवान् परञ्च तत् कालीनः भाजपादलाध्यक्षः अमितशाहः मम एकस्यां दूर्वाण्याम् एव मेलितुं समयं दत्तवान्। तदा हेमन्तवर्यः शाहस्य गृहं गत्वा भाजपादलसदस्यतां स्व्यकरोत् ।

भाजपादलम् आगत्य सः स्वकार्याणां प्रभावेन अचिरादेव दले राज्यस्य जनानां दृष्टौ च उच्चं स्थानम् अवाप्नोत् । अधुना सः उत्कृष्टवक्ता तथा च स्वजनसभासु महान् जनसम्मर्दस्य कृते बहुचर्चितः भवति।

पुनः तेन चतुर्थवारमपि मेमासस्य २४तमे दिनाङ्के २०१६तमे वर्षे विधायकस्य शपथं गृहीतम् तथा च "सर्वानन्द सोनोवाल"स्य सर्वकारे मन्त्रीपरिषदि सः "वित्त,शिक्षा,स्वास्थ्य..." इत्यादीनां विभिन्नानां मन्त्रालयानां दायित्वान् अप्यवहत्।

तदा एव असमराज्ये बहूनि विकासकार्याण्यपि जातानि येषां साक्षात् प्रभावः मतदातृषु अभवत् यथा चिकित्सकीयमहाविद्यालयानां निर्माणं शिक्षकपदेषु नियुक्तिः इत्यादीनि , येन भाजपादलं पुनः २०२१तमस्य निर्वाचनप्रक्रियायां ७५ आसनेषु जयं प्राप्तवान्।

भाजपादलम् आगमनात् पूर्वम् कांग्रेससर्वकारे २००६तमे वर्षे अपि सः चिकित्साक्षेत्रे कानिचन उत्तमानि कार्याणि कृतवान् यथा नेश्नल् रूरल् हेल्थ् मिशन् इत्यस्य प्रारम्भं सः एव कृतवान् तथा असमराज्यस्थानां कृते चतुर्विंशतिहोराः यावत् आपत्कालीनां रुग्णवाहिकायाः सेवाम् अपि आरब्धवान् , तथा महिलानां स्वास्थ्याय "आशा तथा ममता" नाम्नोः द्वे योजने अपि आरब्धवान्।

अधुना तस्य असमराज्ये तावती प्रसिद्धिः वर्तते यत् सः २०२१तमे वर्षे जाते निर्वाचने निरन्तरं पञ्चवारम् अपि जालुकबारी आसनात् विधायकत्वेन चितः जातः,तत्रापि महोदयः राष्ट्रीयकांग्रेसदलस्य "रामेन चन्द्र बोरठाकुर"वर्यस्य उपरि चतुश्चत्वारिंशदधिकचतुश्शतोत्तरैकसहस्राधिकैलक्षाधिकनां(१,०१,४४४)मतानां अन्तरेण जयं प्राप्तवान्।

राष्ट्रीयराजनीतिमध्ये महोदयः तदा ख्यातिं प्राप्नोत् यदा भाजपादलशीर्षनेतृभिः निर्वाचनप्रक्रियानन्तरं सर्वानन्द सोनोवालस्य स्थाने मुख्यन्त्रिरूपेण हेमन्तवर्यस्य नामोद्घोषणम् अक्रियत ,अनन्तरं मे-मासस्य दशमे दिनाङ्के २०२१तमे वर्षे असमराज्यस्य पञ्चदशः मुख्यमन्त्रित्वेन राज्यपालः "जगदीश मुखिया" वर्यः तं शपथं कारितवान् ।

क्रीडाप्रियता[सम्पादयतु]

हेमन्तवर्यस्य क्रीडाजगतः सम्बन्धः पुरातनः अस्ति। २०१७तमे वर्षे भारतस्य "बैडमिंटन् एसोसियेशन्" इत्यस्य  अध्यक्षरूपेणापि महोदयः निर्वाचितः तथा च २०१६ मध्ये "असम क्रिकेट् एसोसियेशन्" इत्यस्यापि अध्यक्षः जातः। महोदयः तु "असम होक्की एसोसियेशन्" इत्यस्याध्यक्षरूपेणापि कार्यं कृतवान् अस्ति।

तस्य क्रीडाप्रियता अनेनापि ज्ञायते यत् सः २०२१तमे वर्षे जापानदेशे सम्पन्नासु "ओलम्पिक्स"(टोक्यो- २०२०) क्रीडासु असमराज्यस्य पुत्रीं मुष्टिपातक्रीडायां रजतपदकं विजेत्रीं लवलीना बरगोहेन इत्येनां राज्यस्य आरक्षकविभागे डीएसपी  इत्यस्मिन् पदे नियुक्तवान्।

अन्यप्रसङ्गाः[सम्पादयतु]

बहुधा हेमन्तवर्यः स्ववचनानां कारणेन विवादेषु अपि भवति।

(पूर्वोत्तरस्य चाणक्यः) इत्यनेन नाम्ना अपि सः ज्ञायते, भाजपादलस्य "कांग्रेस मुक्त अभियान" इत्यस्य पूर्वोत्तरराज्यानाम् अपि सः प्रमुखः वर्तते।

एतेन सहैव पूर्वोत्तरराज्येषु भाजपादलस्य प्रसारे अपि महोदयस्य महत्त्वपूर्णा भूमिका वर्तते।

असमराज्ये मदरसा इत्येतेषां पिधानं कारयिष्यामि, मुस्लिमजनानां मतं न आवश्यकम् , नाहं मतप्राप्त्यर्थं तेषां पार्श्वे  गच्छेयम् इत्येतादृशानि तस्य वचनानि प्रसिद्धान्यभवन्।

एतेषु एव मियां-मुस्लिमविवादोऽपि अन्यतमः।

सामान्यतः सः स्पष्टवक्तृरूपेणापि ज्ञायते।

२०२२तमे वर्षे फेब्रुवरीमासस्य १६तमे दिनाङ्के सः उद्योगपतिं "रतन टाटा" इत्येनम् असमराज्ये कर्करोगनिवारणाय कृतान् प्रयासान् आलक्ष्य असमराज्यस्य असमवैभव इत्यनेन सम्मानेन अलङ्कृतवान्।

बोडो जनजात्याः जनाः ये ब्रह्मपुत्रनद्याः तटस्य उपरि स्थितेषु क्षेत्रेषु भिन्नस्य बोडोलैंड इति नाम्नः क्षेत्रस्य प्राप्त्यर्थं प्रायः आपञ्चाशत्वर्षेभ्यः सशस्त्रांदोलनं कुर्वन्ति  स्म,तत्र च बोडो लिब्रेशन टाईगर्स  इति नाम्ना तेषां दलम् आसीत् [एतस्मिन् अन्ये अपि बहूनि सङ्गठनानि आसन् यथा (एनडीएफबी), (एनडीएफबी "एस") ,(आल् बोडो स्टूडेंट्स यूनियन) इत्यादीनि] यत् सर्वदा सर्वकारस्य विरोधंं तथा नूतनस्य स्थानस्य याचनं करोति स्म, तेन सह सर्वकारेण २०२०तमवर्षस्य जनवरीमासस्य २७तमे दिनाङ्के शान्तिपत्रं हस्ताक्षरितं।

हस्ताक्षरानन्तरं तस्य आतङ्कवादिनः दलस्य प्रायः १५००तः अपि अधिकाः शस्त्रधारिणः योद्धारः समर्पणं कृतवन्तः अस्मिन् सम्पूर्णे प्रकरणे हेमन्तवर्यस्य अपि महत्तवपूर्णं योगदानमासीत्।

२०२१तमवर्षस्य जुलैमासस्य २६तमे दिनाङ्के असम-मिजोरमयोः राज्ययोः मध्ये सीमाविवादपुरस्सरं बहुः अधिकः विवादः जनहानिः च जाता यस्यां असमराज्यस्य पञ्चारक्षकान् समेत्य षड्जनाः दिवंगताः तथा च कछारजनपदस्य आरक्षकाधीक्षकः "निंबालकर वैभव चन्द्रकांत"वर्येण साकं नैके आरक्षकजनाः सामान्यजनाः च व्रणिताः अभवन्।

असमस्य बराकघाट्याः कछार-करीमगंज-हैलाकांडी इत्येतेषां जनपदानां सीमा मिजोरमराज्यस्य आइजोल-कोलासिब-मामितजनपदैः सह १६४ किलोमीटर यावत् दीर्घा लगन्ती अस्ति ।

तत्र बहुवर्षेभ्यः विवादः प्रचलन् आसीत् तथा २०२१तमे वर्षे जातस्य विवादस्य उपरि हेमन्तवर्यः तदा उक्तवान् यत् यदि संसद् श्वः एव नियमं निर्माय  सम्पूर्णां बराकघाटीम् अपि मिजोरमराज्याय ददाति  चेदपि मम कापि समस्या नास्ति परन्तु तावत् असमराज्यस्य भूमिं कोऽपि नेतुं न शक्नोत्येव।

तथा च एतत् प्रकरणं उच्चतमन्यायालये नेष्यामि इत्यप्युक्तवान्।

अनन्तरं सः मिजोरमराज्यस्य मुख्यमन्त्रिणा जोरमथंगावर्येण सार्धम् उपविश्य सर्वपक्षाणां शान्त्यर्थं चर्चामपि अकरोत्।

महोदयः प्रथमवारं १९९६तमे वर्षे जालुकबारी-आसनात् कांग्रेसदलपक्षतः निर्वाचने भागम् अगृह्णात् , परन्तु तत्कालीनः असमगणपरिषदः ज्येष्ठनेता भृगुफुकनः तस्योपरि जयं प्राप्नोत्।

परन्तु अनेन पराजयेन न सः खिन्नताम् अनुत्साहं वा आप्नोत् अपितु सामान्ये समाजे जनेषु कार्यं कुर्वता तेन पुनः ततः जालुकबारी-आसनाद् एव २००१तमे वर्षे भृगुफुकनः पराजितः।

सम्प्रति एषः सामान्यजनतासु तावान् प्रसिद्धः वर्तते यत् तस्य विषये जनाः एवं वदन्ति यत् यदि सः निर्वाचनप्रचाराभियाने प्रचारं कर्तुम् अपि यदि नागच्छेत् तथापि जयं तु प्राप्नुयादेव।

रोचकानि तथ्यानि[सम्पादयतु]

हेमन्तवर्यः स्वप्रदेशे बहुभिः जनैः "मामा" (मातुलः) इत्यनेन नाम्ना अपि सम्बोध्यते, तथा च यदा महोदयः कांग्रेसदले आसीत् तदा तस्य नाम कोहिनूर(रत्नविशेषः) इति आसीत्।

तस्मिन् एव समये हेमन्तवर्यः गोगोईवर्यस्य दक्षिणहस्तरूपेणापि  प्रख्यातः आसीत् तथा Shadow CM इति नाम्ना अपि ज्ञायते स्म।

महोदयः नैकैनां पुस्तकानां लेखकोऽपि वर्तते।

यथा तस्य एकं पुस्तकं बहु चर्चित अस्ति - भिन्ना समय अभिन्ना मत इत्येतत् सुप्रसिद्धं पुस्तकम् असमराज्यस्य  तथा च पूर्ववर्तीराज्येषु स्थितान् सामाजिक-राजनैतिक-आध्यात्मिक-सांस्कृतिकविषयान् संगृह्णाति, एतस्य प्रकाशकः लायर्स बुक् स्टाल विद् सरस्वती प्रिन्टर्स वर्तते, एतस्य चतुर्थं संस्करणं २०१९तमस्य वर्षस्य जैन्युवरि-मासस्य प्रथमे दिनाङ्के प्रकाशितम्।

महोदयः आबाल्यादेव राजनैतिकक्षेत्रे सक्रियः अस्ति, प्रायः एषः यदा दशवर्षीयः आसीत् तदा आरभ्य एव भृगुफुकनवर्येण(यस्य उपरि एव अग्रे जयं प्राप्तवान्)  अन्यैः जनैः च साकं राजनैतिककार्येषु लग्नः वर्तते।

महोदयः भ्ररमणशीलः पठनशीलश्च वर्तते इत्यपि श्रूयते।

एषः बाल्याद् एव कुशाग्रबुद्धियुक्तः तथा पठने निपुणः अस्ति।

विवादाः[सम्पादयतु]

महोदयः प्रायः सर्वदा विवादेषु लिप्तः अपि भवति एव, समान्यतः तेषां कारणं तस्य वचनान्येव।

यथा २०१९तमे वर्षे इण्डिया टुडे काॅन्क्लेव  इत्यस्मिन् कार्यक्रमे "नागरिकता संशोधन विधेयक" इत्यस्य उपरि पूर्वोत्तरराज्यस्येषु प्रचाल्यमानेषु विरोधप्रकरणेषु राजदीप सरदेसाई इत्यस्य प्रश्नस्य उत्तररूपेण तेनोक्तं यत्

"राजनैतिकक्षेत्रे कदाचित् कठोराः निर्णयाः आवश्यकाः भवन्ति, नागरिकतायाः विषये विदेशेषु वसतां हिन्दु-जैन-बौद्ध-सिक्खा-इत्यादीनां कृते भारतीयनागरिकतादानस्य यः निर्णयः स्वीकृतः सः युक्तः एव तथा च विभाजनसमये मुस्लिमजनानां कृते पाकिस्तानबाङ्ग्लादेशौ दत्तौ तत्र वसतां जनानां श्रद्धा तु कुरान पुस्तकेऽस्ति तथा हिन्दूनां गीतायाम् , वयं तु केवलां नागरिकतां ददानाः स्मः।"

तस्मिन् एव कार्यक्रमे एआईएमआईएम दलप्रमुखः असद्दुद्दीन ओवैसी उक्तवान् यत् हिन्दुः भवतु मुस्लिम वा यदि  बहिः  प्रेषणीयं चेत् सर्वान् शरणार्थिनः प्रेषयन्तु तदा तेन सह जाते घोरे विवादे हेमन्तवर्यः उक्तवान् यत् हिन्दून् पाकिस्तानं प्रेषकं लोकतन्त्रं नाहं स्वीकरिष्ये(यतोहि तत्र हिन्दुभिः सह कीदृशः व्यवहारः भवति तत् सर्वे जानन्ति एव)।

सद्यः एव २०२२तमे वर्षे कर्नाटके प्रवर्तमाने हिजाब् प्रकरणे सः उक्तवान् यत् हिजाब् प्रकरणं ज्ञानस्य नास्ति अपितु ज्ञानालये सम्प्रदायस्य अस्ति, मुस्लिमजनानां कृते हिजाब् इत्यस्य न अपितु शिक्षायाः आवश्यकता वर्तते।

तथा च तेनोदिरितं यत् किमर्थम् एतत् सर्वम् इदानीमेव निर्वाचनसमये एव सम्मुखम् आयाति तथा किमर्थं कॉंग्रेसदलं न्यायलये एतेषां समर्थनं करोति एवं चेत्  काँग्रेसजनाः भारतविभाजनकांक्षिभिः शक्तिभिः सह तिष्ठन्ति तेषां समर्थनं च कुर्वन्ति इति।

एवमेव २०२२तमे वर्षे उत्तराखण्डराज्ये प्रवर्तमाने निर्वाचनप्रचाराभियाने महोदयस्य एकं कथनं बहु विवादमवाप्नोत्।

उत्तराखण्डराज्ये भाजपादलस्य प्रत्याशिनः कृते प्रचारं कुर्वन् सः उक्तवान् यत् "कांग्रेसदलस्य पूर्वप्रमुखः राहुलगांधी भारतीयसेनया कृतस्य सर्जिकल स्ट्राइक  अभियानस्य अपि साक्ष्यं पृच्छति स्म किं तस्य सेनायाः उपरि विश्वासः नास्ति अथवा जनरलविपिनरावतस्य उपरि विश्वासः नास्ति" अग्रे अनुवर्तमानः हेमन्तवर्येण उदीरितं यत् "किं वयं कदाचित् साक्ष्यं पृष्टवन्तः यत् भवान् राजीवगांधिनः एव पुत्रोऽस्ति उत न"

हेमन्तवर्यस्य अस्मिन् कथने बहु अधिक विवादः जातः कांग्रेसदलस्य प्रवक्ता रणदीप सुरजेवाला उक्तवान् यत् (कांग्रेसदलात् पलायितः) हेमन्तबिस्वशर्मणः मानसिकं सन्तुलनं लुप्तं जातम् इति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हिमंत_बिस्वा_शर्मा&oldid=477438" इत्यस्माद् प्रतिप्राप्तम्