वक्तुमर्हस्यशेषेण...
दिखावट
(१०.१६ वक्तुमर्हस्य शेषेण.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
- याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्मविभूतयः याभिः विभूतिभिः लोकान् इमान् त्वं व्याप्य तिष्ठसि ॥ भगवद्गीता १०।१६ ॥
अन्वयः
[सम्पादयतु]याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि, (या:) आत्मविभूतयः दिव्याः, ता: अशेषेण वक्तुम् अर्हसि ।
शब्दार्थः
[सम्पादयतु]- याभिः विभूतिभिः = यैः माहात्म्यविस्तरैः
- इमान् लोकान् = एतान् लोकान्
- व्याप्य = आक्रम्य
- तिष्ठसि = वर्तसे
- दिव्याः हि = लोकोत्तोरान्
- आत्मविभूतयः = माहात्म्यविस्तरान्
- अशेषेण = साकल्येन
- वक्तुम् अर्हसि = कथयितुम् अर्हसि ।
अर्थः
[सम्पादयतु]भवान् स्वीयैः ऐश्वर्यैः एतान् लोकान् अभिव्याप्य तिष्ठति । तानि सर्वाणि अपि ऐश्वर्याणि साकल्येन कथयितुम् अर्हति ।