न मे विदुः सुरगणाः...
दिखावट
(१०.२ न मे विदुः सुरगं.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
- अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वितीयः(२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न मे विदुः सुरगणाः प्रभवं न महर्षयः अहम् आदिः हि देवानां महर्षीणां च सर्वशः ॥ २ ॥
अन्वयः
[सम्पादयतु]सुरगणाः मे प्रभवं न विदुः, महर्षयः न । अहं हि सर्वशः देवानां महर्षीणां च आदिः ।
शब्दार्थः
[सम्पादयतु]- सुरगणाः = देवसङ्घाः
- मे = मम
- प्रभवम् = उत्पत्तिस्थानम्
- न विदुः = न जानन्ति
- महर्षयः न = महामुनयः न जानन्ति
- हि = यस्मात्
- अहम् = अहम् एव
- सर्वशः = सर्वेण प्रकारेण
- देवानाम् = सुराणाम्
- महर्षीणां च = महामुनीनां च
- आदिः = मूलकारणम् ।
अर्थः
[सम्पादयतु]मम उत्पत्तिस्थानं देवसङ्घाः न जानन्ति । महामुनयः न जानन्ति । यतः अहं सर्वेण प्रकारेण देवानां महामुनीनां च आदिमः ।
रामानुजभाष्यम्
[सम्पादयतु]सुरगणा महर्षयश्चातीन्द्रियार्थदर्शिनोऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुम्, मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति । यतस्तेषां देवानां महर्षीणां च सर्वशोऽहमादिम्, तेषां स्वरूपस्य ज्ञानशक्त्यादेश्चाहमेवादिम् । तेषां देवत्वदेवऋषित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्, अतस्ते परिमितज्ञाना मत्स्वरूपकादिकं यथावन्न जानन्ति ॥१०.२॥