तस्मादोमित्युदाहृत्य...
दिखावट
(१७.२४ तस्मादोमित्युदाहृत्य इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
- प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तस्मात् ओम् इति उदाहृत्य यज्ञदानतपःक्रियाः प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥
अन्वयः
[सम्पादयतु]तस्मात् ब्रह्मवादिनां विधानोक्ताः यज्ञदानतपःक्रियाः ओम् इति उदाहृत्य सततं प्रवर्तन्ते ।
शब्दार्थः
[सम्पादयतु]- ब्रह्मवादिनाम् = ब्रह्मविदाम्
- विधानोक्ताः = शास्त्रविहिताः
- यज्ञदानतपःक्रियाः = यागदानतपोरूपाः क्रियाः
- उदाहृत्य = उच्चार्य
- सततम् = सदा
- प्रवर्तन्ते = व्याप्रियन्ते ।
अर्थः
[सम्पादयतु]तस्मात् ब्रह्मविदां शास्त्रविहिताः यज्ञदानतपोरूपाः क्रियाः ओम् इति शब्देनैव आरब्धाः भवन्ति ।