दुःखमित्येव यत्कर्म...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.०८ दुःखमित्येव यत्कर्म इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दुःखम् इति एव यत् कर्म कायक्लेशभयात् त्यजेत् स कृत्वा राजसं त्यागं न एव त्यागफलं लभेत् ॥

अन्वयः[सम्पादयतु]

कायक्लेशभयात् दुःखम् इति एव यत् कर्म त्यजेत् सः राजसं त्यागं कृत्वा त्यागफलं न एव लभेत् ।

शब्दार्थः[सम्पादयतु]

कायक्लेशभयात् = शरीरदुःखभीत्या ।

अर्थः[सम्पादयतु]

यः पुनः शरीरायासभयात् दुःखं भवतीति मत्वा कर्म त्यजति सः त्यागः राजसः इत्युच्यते । तस्य च त्यागस्य सात्त्विकत्यागफलं सर्वथा न सम्भवति । तस्मात् तादृशः त्यागः न श्रेयस्करः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दुःखमित्येव_यत्कर्म...&oldid=418601" इत्यस्माद् प्रतिप्राप्तम्