अधिष्ठानं तथा कर्ता...
दिखावट
(१८.१४ अधिष्ठानं तथा कर्ता इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
- विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अधिष्ठानं तथा कर्ता करणं च पृथक् विधम् विविधाः च पृथक् चेष्टाः दैवं च एव अत्र पञ्चमम् ॥
अन्वयः
[सम्पादयतु]अधिष्ठानं तथा कर्ता, पृथग्विधं करणं च, विविधाः च पृथक्चेष्टाः अत्र च एव पञ्चमं दैवम् ।
शब्दार्थः
[सम्पादयतु]- अधिष्ठानम् = शरीरम्
- पृथग्विधम् = नानाप्रकारम्
- करणम् = इन्द्रियम्
- पृथक्चेष्टाः = भिन्नव्यापाराः
- दैवम् = दैवम् ।
अर्थः
[सम्पादयतु]शरीरम्, अहारः, नेत्रश्रोत्रादीनि ज्ञानसम्बन्धीनि, वाक्पादादीनि कर्मसम्बन्धीनि, मनश्च इति एकादश इन्द्रियाणि, कार्यतः स्वरूपतश्च भिन्नरूपाः प्राणापानादीनां व्यापाराः तथा एतेषां प्रेरकं दैवम् इति एतानि पञ्च सर्वेषां कर्मणां सिद्धौ कारणानि ।