अयुक्तः प्राकृतः स्तब्धः...
दिखावट
(१८.२८ अयुक्तः प्राकृतः स्तब्धः इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
- विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २८ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ॥ २८ ॥
अन्वयः
[सम्पादयतु]अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ।
शब्दार्थः
[सम्पादयतु]- अयुक्तः = अवधानाभावात् अयोग्यः
- प्राकृतः = असंस्कृतबुद्धिः
- स्तब्धः = अविनीतः
- शठः = वञ्चनापरः
- नैष्कृतिकः = परावमानी
- अलसः = मन्दः
- विषादी = शोकवान्
- दीर्घसूत्री = मन्दकारी।
अर्थः
[सम्पादयतु]यः अवधानाभावात् कर्मणि अयोग्यः, असंस्कृतबुद्धिः, उद्धतः, वञ्चनापरः, अन्येषां तिरस्कारकः, आलस्यशीलः, शोचनस्वभावः मन्दकारी च वर्तते सः तामसः कर्ता इत्युच्यते ।