यदग्रे चानुबन्धे च...
दिखावट
(१८.३९ यदग्रे चानुबन्धे च इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
- निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवत्रिंसत्तमः(३९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यत् अग्रे च अनुबन्धे च सुखं मोहनम् आत्मनः निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥
अन्वयः
[सम्पादयतु]यत् सुखम् अग्रे च अनुबन्धे च आत्मनः मोहनं निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ।
शब्दार्थः
[सम्पादयतु]- अग्रे = आदौ
- अनुबन्धे = उत्तरकाले
- आत्मनः = स्वस्य
- मोहनम् = अज्ञानकरम्
- निद्रालस्य-प्रमादोत्थम् = स्वापमान्द्यानवधानसम्भूतम्
- उदाहृतम् = वर्णितम् ।
अर्थः
[सम्पादयतु]निद्रा आलस्यम् अनवधानं चेति एतैः कारणैः जातं यत् सुखं तत् आदौ अन्ते च आत्मनः मोहकरं भवति । तत् तामसम् इत्युक्तम् ।