१८.६५ मन्मना भव मद्भक्तो

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चषष्टितमः(६५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मन्मना भव मद्भक्तः मद्याजी मां नमस्कुरु माम् एव एष्यसि सत्यं ते प्रतिजाने प्रियः असि मे ॥

अन्वयः[सम्पादयतु]

मन्मना भव । मद्भक्तः मद्याजी मां नमस्कुरु । माम् एव एष्यसि । ते सत्यं प्रतिजाने । मे प्रियः असि ।

शब्दार्थः[सम्पादयतु]

मन्मनाः = मन्मनस्कः
मद्भक्तः = मदाराधकः
मद्याजी = मत्पूजकः
एष्यसि = गमिष्यसि
सत्यम् = परमार्थतः
प्रतिजाने = प्रतिशृणोमि ।

अर्थः[सम्पादयतु]

अर्जुन ! मय्येव चित्तं स्थापय । भक्तो भव । मामेव पूजय । मामेव नमस्कुरु । अन्ते मामेव प्राप्स्यसि । दृढमहं कथयामि यत् त्वं मम अत्यन्तं प्रियः । अतः यत् ते श्रेयस्करं तदेव कथयामि । तदेव अनुति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]