सामग्री पर जाएँ

सर्वधर्मान्परित्यज्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.६६ सर्वधर्मान्परित्यज्य इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः

[सम्पादयतु]
गीतोपदेशः
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६६ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षट्षष्टितमः(६६) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ॥१८.६६॥

अन्वयः

[सम्पादयतु]

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ।

शब्दार्थः

[सम्पादयतु]
सर्वधर्मान् = सकलकर्माणि
परित्यज्य = विसृज्य
शरणम् = आश्रयम्
व्रज = गच्छ
त्वा = त्वाम्
सर्वपापेभ्यः = सकलकिल्बिषेभ्यः
मोक्षयिष्यामि = विमोचयिष्यामि ।

अर्जुन ! तस्मात् त्वं सर्वाणि कर्माणि परित्यज्य मां शरणं प्राप्नुहि । अहं त्वां कर्मत्यागजन्यात् सर्वस्मात् अपि पापात् विमोचयिष्यामि । शोकं मा कुरु ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]