सुहृन्मित्रार्युदासीनम्...
श्लोकः
[सम्पादयतु]- सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
- साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥
अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु अपि च पापेषु समबुद्धिः विशिष्यते ॥
अन्वयः
[सम्पादयतु]सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु पापेषु अपि च समबुद्धिः विशिष्यते ।
शब्दार्थः
[सम्पादयतु]- सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु = सुहृत् ,मित्रम्, उदासीनः, मध्यस्थः, द्वेष्यः, बन्धुः, इत्येतेषु,
- साधुषु = सज्जनेषु
- पापेषु अपि च = दुर्जनेषु च
- समबुद्धिः = तुल्यमतिः
- विशिष्यते = अतिरिच्यते ।
अर्थः
[सम्पादयतु]सुहृत् मित्रम्, शत्रुः, मध्यस्थः, द्वेष्यः, बन्धुः, साधवः, पापिनः च इत्येतेषु सर्वेषु अपि यः रागद्वेषशून्यः भवति सः योगारूढेषु उत्तमः । (सुहृत् स्वभावेनैव उपकर्ता, मित्रम् स्नेहेन उपकर्ता, अरिः स्वभावेन अपकर्ता, उदासीनः विवदमानयोः उभयोरपि तिरस्कारकः, मध्यस्थः विवदमानयोः उभयोरपि हिताकाङ्क्षी, द्वेष्यः कारणविशेषेण अपकर्ता, बन्धुः सम्बन्धेन उपकर्ता)
शाङ्करभाष्यम्
[सम्पादयतु]किंच-सुहृदित्यादिश्लोकार्धमेकपदम्। सुहृदिति प्रत्यपकारमनपेक्ष्योपकर्ता। मित्रं स्नेहवान्। अरिः शत्रुः। उदासीनो न कस्यचित्पक्षं भजते। मध्यस्थो यो विरुद्धयोरुभयोर्हितैषी।द्वेष्य आत्मनोऽप्रियः। बन्धुः संबन्धित्येतेषु साधुषु शास्रानुवर्तिष्वपि च पापेषु प्रतिषिद्धकारिषु सर्वेष्वेतेषु समबुद्धिः कः किंकर्मेत्यव्यापृतबुद्धिरित्यर्थः।विशिष्यते विमुच्यत इति वा पाठान्तरम्। योगारूढानां सर्वेषामयमुत्तम इत्यर्थः। विशिष्यते। 'विमुच्यते' इति वा पाठान्तरम्। योगारूढानां सर्वेषामयमुत्तम इत्यर्थः।।9।।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- http://sa.wikisource.org/wiki/भगवद्गीता
- Mahabharata 6.23–6.40 (sacred-texts.com)
- GRETIL etext of MBh 6 Archived २०१०-११-१० at the Wayback Machine (text begins at 06,023)
- 1890 translation by William Quan Judge
- 1900 translation by Sir Edwin Arnold
- The Gita According to Gandhi by Mahadev Desai of Mahatma Gandhi's 1929 Gujrati translation and commentary
- 1942 translation by Swami Sivananda
- 1971 translation by A. C. Bhaktivedanta Swami Prabhupada entitled Bhagavad Gita As It Is with Sanskrit text and English commentary.
- 1983 translation by A. C. Bhaktivedanta Swami Prabhupada entitled Bhagavad Gita As It Is with Sanskrit text and English commentary.
- 1988 translation Archived २००८-०८-२८ at the Wayback Machine by Ramananda Prasad
- 1992 translation and commentary Archived २००८-०७-०५ at the Wayback Machine by Swami Chinmayananda
- 1993 translation by Jagannatha Prakasa (John of AllFaith)
- 2001 translation Archived २००७-०६-३० at the Wayback Machine by Sanderson Beck
- Six commentaries Archived २००८-०५-२२ at the Wayback Machine: by Adi Sankara, Ramanuja, Sridhara Swami, Madhusudana Sarasvati, Visvanatha Chakravarti and Baladeva Vidyabhusana (all in sanskrit)
- Essays on Gita Archived २०११-१२-१० at the Wayback Machine by Sri Aurobindo
- Gita Supersite Original text, with several accompanying translations or commentaries in Sanskrit, English, or Hindi
- Srimad Bhagavad Gita
- Bhagavad-Gita Trust translation in multiple languages with audio and translation of commentary from the four authorized Vaishnava sampradayas
- Multiple English Translations Archived २०११-१०-०९ at the Wayback Machine
- Maharishi Mahesh Yogi on the Bhagavad-Gita, A New Translation and Commentary, Chapters 1–6 Archived २००८-१०-१५ at the Wayback Machine
- Recitation of verses in Sanskrit (MP3 format)
- Bhagavad Gita (As It Is) Complete Archived २०११-१२-१३ at the Wayback Machine produced by The International Society for Krishna Consciousness
- Bhagavad Gita in 6 Languages Archived २००८-०५-०९ at the Wayback Machine