मापुपेत्य पुनर्जन्म..
दिखावट
(८.१५ मापुपेत्य पुनर्जन्म.. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- मामुपेत्य पुनर्जन्म दुःखालयमशाश्वरतम् ।
- नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वरतम् न आप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥
अन्वयः
[सम्पादयतु]परमां संसिद्धिं गताः महात्मानः माम् उपेत्य अशाश्वंतं दुःखालयं पुनर्जन्म न आप्नुवन्ति ।
शब्दार्थः
[सम्पादयतु]- परमाम् = उत्कृष्टाम्
- संसिद्धिम् = सिद्धिम् (मोक्षरूपाम्)
- गताः = प्राप्ताः
- महात्मानः = महापुरुषाः
- माम् उपेत्य = मां लब्ध्वा
- अशाश्व तम् = अस्थिरम्
- दुःखालयम् = दुःखस्थानम्
- पुनर्जन्म = पुनर्जन्म
- न आप्नुवन्ति = न लभन्ते ।
अर्थः
[सम्पादयतु]उत्कृष्टां मोक्षरूपां सिद्धिं प्राप्तवन्तः महापुरुषाः यदा मां लभन्ते पश्चाजत् ते क्षणिकं दुःखस्थानमिदं पुनर्जन्म न प्राप्नुवन्ति ।