नैते सृती पार्थ जानन्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.२७ नैते सृती पार्थ.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य सप्तविंशतितमः (२७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

न एते सृती पार्थ जानन् योगी मुह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तः भव अर्जुन ॥ २७ ॥

अन्वयः[सम्पादयतु]

पार्थ ! एते सृती जानन् कश्चन योगी न मुह्यति । तस्मात् अर्जुन ! सर्वेषु कालेषु योगयुक्तः भव ।

शब्दार्थः[सम्पादयतु]

पार्थ = अर्जुन !
कश्चन = कोऽपि
योगी = समाहितचित्तः
एते = इमे
सृती = गती
जानन् = विदन्
न मुह्यति = भ्रान्तो न भवति
तस्मात् = ततः हेतोः
सर्वेषु = निखिलेषु
कालेषु = समयेषु
योगयुक्तः = समाधिविशिष्टः
भव = वर्तस्व ।

अर्थः[सम्पादयतु]

अर्जुन ! एतौ मार्गौ विदन् कोऽपि योगी भ्रान्तो न भवति । तस्मात् सर्वेषु कालेषु समाहितचित्तः भव।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]