वेदेषु यज्ञेषु तपस्सु चैव...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(८.२८ वेदेषु यज्ञेषु .... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अष्टाविंशतितमः (२८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

वेदेषु यज्ञेषु तपस्सु च एव दानेषु यत् पुण्यफलं प्रदिष्टम् अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति च आद्यम् ॥ २८ ॥

अन्वयः[सम्पादयतु]

योगी एतत् सर्वं विदित्वा वेदेषु यज्ञेषु तपस्सु दानेषु च एव यत् पुण्यफलं प्रदिष्टं तत् अत्येति परम् आद्यं स्थानम् उपैति ।

शब्दार्थः[सम्पादयतु]

योगी = समाहितचित्तः
इदम् = एतत्
सर्वम् = सकलम्
विदित्वा = विज्ञाय
वेदेषु = निगमेषु
यज्ञेषु = यागेषु
तपस्सु = व्रतेषु
दानेषु च एव = वितरणेषु च
पुण्यफलम् = सुकृतफलम्
प्रदिष्टम् = प्रोक्तम्
तत्सर्वम् = तत्सकलम्
अत्येति = अतिक्राम्यति
परम् = उत्तमम्
आद्यम् = मूलकारणम्
स्थानम् = प्रदेशम्
उपैति = प्राप्नोति ।

अर्थः[सम्पादयतु]

समाहितचित्तः एतत् सर्वं विज्ञाय निगमेषु यागेषु व्रतेषु दानेषु च यत् सुकृतफलं प्रोक्तंतत् सर्वम् उपेक्षमाणः अतिक्राम्यति । सर्वेषां यत् मूलं तत् ब्रह्म प्राप्नोति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]